________________ सर्पजीव-सम्बन्धः 200000000000000000000000000000000000000000000000000000000000000000 100000000000000000000 ग्रामे न्य क्षेऽन्यदा भ्रान्त्या कणानऽप्राप्य पञ्चपान् / द्विजो यावदगाद् गेहे तावत्पत्नी जगाविति // 30 // त्व मूर्यो निःकृपः पुण्य-रहितो सहितो श्रिया / लात्वाऽन्यत्र सुखं गच्छ निर्धनेन त्वया किमु // 31 // यतः-"यस्यास्ति वित्त स नरः कुलीनः स पण्डितः स श्रतवान् गुणज्ञः / स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते // 1 // " "जाई रूव विजा तिन्निवि निवडंतु कंदरे विवरे / अत्यच्चिन परिवड्ढ उ जेण गुणा पायड़ा हुंति / / 2 // " इत्याक्रोशं ददाना सा पत्नी मुशलमुल्वणम् / उत्पाट्याशूत्थिता यावद् हन्तु कान्तं दुराशया // 32 / / तावद् द्विजस्तथा स्फारं पापाणं गृहिणी प्रति / प्राक्षिपद् बलतः प्राणे-मुमुचे सा यथाऽवला // 33 // ततः पुत्रो जगौ पापिन् ! पितुः किं दुःकृतं कृतम् / अनेन तमसा पातो दुर्गतौ ते भविष्यति // 34 // ततः ऋद्धो द्विजः पुत्रं जल्पन्तं हतवान् हठात् / ततोऽपि तनयां स्वीयां जघान वाडवः क्रुधा // 35 // ततः-सभी जन् विप्रः सैरभ्या-स्खलितोऽध्वनि / तामप्यहन् स गां स्फार-पापाणेन दुराशयः // 36 / / हत्वैतानि द्विजो गच्छं-स्तलारक्षेतः करे / छलान्नंष्ट्वा व्रजन कूपे न्यपतन् नरकोपमे // 37 // स पतन् खण्डशो जात-स्त या यातो मृतिं यथा / नरकं सप्तमं प्राप दुःखलक्षप्रदायकम् // 38 / / यतः-"पुरुषः कुरुते पापं बन्धुनिमित्तं वपुर्निमित्तं च / वेदयते तत् सर्व नरकादौ पुनरसावेकः // 1 // यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नाचरन्ति। आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति // 2 // " सहित्वा तत्र दुःखानि स द्विजो निर्गतस्ततः / सिंहोऽजनिष्ट दुष्टात्मा जन्तून हन्ति स्म निर्दयम् // 1 // ततो मृत्वा गतः श्वभ्रं चतुर्थे स द्विजासुमान् / ततो निर्गत्य चाण्डालोऽजनि ग्रामे रमाभिधे // 36 / / तत्र कृत्वा तमो भूरिचाण्डालः क्रूरकर्मकृत् / मृत्वा च सप्तमे श्वनं जगामा बदायके // 40 // तीबदुःखानि सम्भोज्य तत्रैव नरकेऽनिशम् / वने भीमेऽभवद् दृष्टि-विषोऽहिदुष्टमानसः // 41 // सोऽन्यदाहिबिलाऽऽसन्नं सुनि शान्तात्म मानसम् / निरीक्ष्य फूत्कृति कुर्वन् दधाव दशनेच्छया // 42 // तदाऽपश्यन्नहिः साधु शान्तं सुस्थितमानसम् / शत्रुञ्जयस्य माहात्म्यं वरविद्याभृतां पुरः // 43 // शत्रुञ्जयस्य तीर्थस्य स्मरणात् स्पर्शनात् पुनः / दर्शनान्निवृतिहस्त-गता नृणां भविष्यति // 44 // उक्त च --"पल्योपमसहस्र तु ध्यानाल्लक्षमभिग्रहात् / दुष्कर्म दीयते मार्गे सागरोपनसश्चितम् // 1 // " लाघवात् कर्मणां शत्रु-जयमाहात्म्यसंयुते ।जातजातिस्मृतिः सपर्पोऽस्मार्षीत् पूर्वान् भवान् निजान् / / 45 // मया पत्नी सुतः पुत्री सैरभिनिहता पुरा / तेनाहं नरके पातं भूरि प्रापमशर्म च // 46 / / ततो बिलाद् विनिर्गत्य स सर्पः कुण्डलीभवन् / ननामांही मुनेहेतु स्वस्य कल्याणसम्पदः // 47 // तदा तत्रागतानां ख-गामिनां पुरतो मुनिः / श्रीशत्रुञ्जयतीर्थस्य नमस्कृतिफलं जगौ // 48 // शत्रुञ्जयस्य तीर्थस्य स्मरणात स्पशनान्नतेः / दर्शनाजायते नृ णां कल्याणकमला करे // 46 / / पल्योपमसहस्रतु ध्यानाल्लक्षमभिग्रहात् / दुःकर्म क्षीयतं मार्गे सागरोपमसञ्चितम् / / 50 // शत्रुञ्जयं स्मरन् सप्पों मुनेर्वन्दनतस्तदा / ललावनशनं विद्या धराणां पश्यतां पुरः / / 51 // स सर्पस्तैः खगैर्नीतः पुण्डरीकाभिधेऽचले / श्रावितश्च नमस्कारं मृतोऽभून्निर्जरेश्वरः // 52 //