________________ 10 .0000000000000000000000 शत्रुञ्जय-कल्पवृत्तौ यतः-कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च / इदं तीर्थ समासाद्य तिर्यश्चोऽपि दिवं गताः // 53 // एतन्मेऽङ्गमहिमवं सर्पजीवोऽस्म्यहं पुनः / अस्य तीर्थस्य माहात्म्यात् शक्रोऽहमभवं किल // 54 // ततः शक्रो निजं सर्प-देहं शत्रुञ्जये गिरौ / लसच्चन्दनकपुर-काष्ठेर्दहनसाद् व्यधात् // 55 // सर्पदाहावनौ रत्न-मयं पीठं सुरेश्वरः / विधाय तीर्थमानम्य ययौ शक्रो निजास्पदम् / / 56 // इत्थं विज्ञाय सर्पस्य चरितं शक्रजल्पितम् / आवां गत्वा तु वेताढ्य प्रप्रच्छय जनकाम्बिके / / 57|| दीक्षां श्रीवृषभोपान्ते लात्वा शास्त्राणि भूरिशः / पठित्वा वृषभादेशा-दागताविह साम्प्रतम् // 58 // युग्मम्।। शत्रुञ्जयस्य माहात्म्य-माकर्ण्य भरतेश्वरः / नन्तु शत्रुञ्जयं चक्रे स्वान्तं कल्याणशर्मणे // 56 // सर्पजीवः क्रमाच्छन-भवाद्भवे त्रयोदशे / सर्वकर्मक्षयान्मुक्ति-पुर्यां यास्यति निश्चितम् // 6 // * इति सर्पजीव-सम्बन्ध: // अथ सुधासेन-भूपकथा // एकदा वृपभोपान्ते भरतः प्रोक्तवान् प्रभो ! / कोऽधुनाऽगात् शिवं सिद्ध-शैले स्वामी जगौ ततः॥१॥ पद्मपुरे धरापालो भूपतिः पालयन् प्रजाः / ययौ शत्रुञ्जये शैले कुर्वन् कीडावनेऽनघे // 2 // तत्र साधुसुधासेनं तपस्यन्तं तपो बहु / दृष्ट्वोत्पन्नरुषो हन्तु-मुत्पाट्याधात् करं निजम् // 3 / / शिलातले सुधासेनं भूयो भूयो महीपतिः / यदैव स्फालयामास तदा दध्याविदं यतिः // 4 // रे जीव ! भवता भूरि पापं जीववधात्पुरा / यच्चक्रे तत् समायात-मधुनैतत् ताडनात्तव // 5 // रे जीव ! न त्वया क्रोधः कार्यः कस्योपरि ध्र वम् / यतः स्याद् भ्रमणं भूरि संसारे विषमे क्रुधः // 6 // यतः- सन्तापं तनुते भिनत्ति विनयं सौहार्दमुच्छाइय-त्युद्वेगं जनयत्यवद्यवचनं द्य ते विधत्ते कलिम् / कत्ति कृन्तति दुर्गति वितरति व्याहन्ति पुण्योदयं, धत्ते यः कुगतिं स हातुमुचितो रोपः सदोषः सताम् // 7 // एवं तस्य यतेनिं कुर्वतः करुणात्मनः / उत्पन्ने केवलज्ञाने देवाश्चक्रमहोत्सवम् / / 8 / / प्रजापालः सुरान् ज्ञानो-त्पत्त्युत्सवं वितन्वतः। दृष्ट्वा विस्मितचेतस्कः पप्रच्छ निर्जरानिनि / / 6 / / किमर्थं क्रियते साधो-रस्योत्सवो मनोहरः / देवाः प्रोचुरयं साधुः पूज्योऽस्ति मरुतामपि // 10 // ततो भूपः समुत्थाय प्रणम्य तं यति जगौ / मया ते विहितं विघ्नं जीवितव्यान्तकृद् ननु / / 11 // केवल्यवग् मया त्वं तु हतो दण्डाभिघाततः / तेनाहं भवता राजन् ! निहतः साम्प्रतं दृढम् // 12 // राजाऽवग् भवता कुत्र भवेऽत्र परत्र च / हतोऽहं श्रावयेदानीं ततः प्राह स केवली / / 13 / / चन्द्राह्वनगरे चन्द्रः क्षत्रियोऽजनि सुन्दरः / नैगमः कमलाह्वोऽभूत् कुन्तलाभिधपत्तने // 14 // चन्द्रण कमलोऽन्येद्य -निहतो यष्टि ना मुधा / कमलोऽवग् मुधा मां त्वं कथं हंसि दुराशय ! // 15 // क्षत्रियो धर्मघोपान्ते श्रुत्वा धम्मं जिनोदितम् / चकार जिननाथस्य पूजां पुष्पमनोहरैः // 16 / / मृत्वाऽद्य क्षत्रियो वीर-पुरे वीरवणिकसुतः / सुधासेनाभिधो जातः कलासु कुशलः क्रयात् / / 17 / / श्रुत्वा धर्म जिनेन्द्रोक्त लात्वा संयममादरात् / तपः कुर्वनिहायातः स एवाहं नरेश्वर ! // 18 //