________________ परिशिष्ट-६ 193 3 37. वृत्तिसंक्षयः ___= मनोद्वारा विकल्परूपाणां शरीरद्वारा परिस्पन्दरूपाणामन्यसंयोगात्मकवृत्तीनामपुनर्भावेन निरोधः / 38. शुद्धिः = घातिकर्मणां पापानां क्षये या काचिन्निर्मलता / 39. श्रद्धा = इदमित्थमेवेति प्रतिपत्तिः / 40. संवेगः = मोक्षाभिलाषः / 41. सकृदावर्तनाः = सकृद् एकवारमावर्तन्ते उत्कृष्टां स्थितिं बघ्नन्ति ये ते सकृदावर्तनाः / 42. समता = अविद्याकल्पितेष्टानिष्टत्वसंज्ञापरिहारेण शुभाशुभानां विषयाणां तुल्यताभावनम् / 43. साधुसमयसद्भावम् = समीचिनसिद्धान्त रहस्यम् / 44. सापाययोगः = निरूपक्रममोक्षपथप्रतिकूल चित्तवृत्तिकारणं प्राक्कालार्जितं कर्म अपायस्तत्सहितो योगः सापायः / / 45. सालम्बनयोगः = सहालम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तते इति / 46. सिद्धिः = अतिचाररहिताधिकगुणे गुर्वादौ विनयवैयावृत्त्यबहुमानाद्यन्विता हीनगुणे निर्गुणे वा दयादानव्यसनपतितदुःखापहारादिगुणप्रधाना मध्यमगुणे चोपकारफलवत्यधिकृत धर्मस्थानस्याहिंसादेः प्राप्तिः / 47. सिद्धियोगः = सव्वं परत्थसाहगरूवं पुण होइ सिद्धि त्ति / 48. स्थानम् - = स्थीयतेऽनेनेति स्थानं-आसनविशेषरूपं कायोत्सर्ग पर्यङ्कबन्धपद्मासनादि सकलशास्त्रप्रसिद्धम् / 49. स्थितिमत् = अविचलितस्वभावम् / 50. स्थैर्ययोगः = तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं / 51. हितम् = मोक्षसाधकम् / 11 19