________________ 192 परिशिष्ट-६ 18. निरालम्बनः = आलम्बनात् विषयभावापत्तिरूपानिष्क्रान्तो निरालम्बनः, यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरा लम्बन इति यावत् / 19. निर्वेदः __ = नैर्गुण्यपरिज्ञानेन भवचारकाद्विरक्तता / 20. परिशुद्धः = प्रणिधानाद्याशयविशुद्धिमान् / 21. पुष्टिः = पुण्योपचयः / 22. प्रवृत्तिः = अधिकृतधर्मस्थानोद्देशेन तदुपायविषय इतिकर्तव्यताशुद्धः शीघ्रक्रियासमाप्तीच्छादिलक्षणौत्सुक्यविरहितः प्रयत्नातिशयः / / 23. प्रवृत्तियोगः = सव्वत्थुवसमसारं तप्पालणमो पवत्ती उ / 24. प्रशमः = क्रोधकण्डूविषयतृष्णोपशमः / 25. प्रसङ्गः ___ = प्ररूपणीयमध्ये स्मृतार्थविस्तारणम् / 26. प्रीतिः = तत्करणादौ हर्षः / 27. प्रीत्यनुष्ठानम् = यत्रानुष्ठाने प्रयत्नातिशयोऽस्ति परमा च प्रीतिरूत्पद्यते,शेषत्यागेन च यत्क्रियते तत् / . 18 28. भक्तत्यनुष्ठानम् = एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषबुद्ध्या. विशुद्धतरव्यापारम् / 18 29. भव्यसत्त्वाः = मोक्षगमनयोग्याः अपुनर्बन्धकादिजन्तवः / . 30. भावचैत्यवन्दनम् = अमृतानुष्ठानरूपम् / . 11 31. भावना = अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः / . 3 32. योगः = मोक्षेण योजनात् सर्वोऽपि धर्मव्यापारः / * व्युत्पत्त्यर्थानुगृहीतमोक्षकारणीभूतात्मव्यापारत्वरूपयोगलक्षणः / 1 33. लोकसंज्ञा = 'लोक एव प्रमाणं' इत्येवंरूपां शास्त्रनिरपेक्षा मतिः / 16 34. वचनानुष्ठानम् = शास्त्रार्थप्रतिसंधानपूर्वा साधोः सर्वत्रोचितप्रवृत्तिः / 18 35. विघ्नजयः = विघ्नस्य जयोऽस्मादिति व्युत्पत्त्या धर्मान्तरायनिवर्त्तकः परिणामः / 1 36. विनियोगः = स्वप्राप्तधर्मस्थानस्य यथोपायं परस्मिन्नपि संपादकत्वम् /