________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / नयामृत-तमिति / अतिशुद्धौ त्वेतो-नेगम-व्यवहारनयो, तं-प्रस्थकम् , उत्कीर्णनामानं-' प्रस्थकपर्यायवन्तम् , प्रस्थकमाहतुः, उत्कीर्णनाम्नो द्रव्यादविशेषादिति भावः / सङ्ग्रहनयस्तु चितम्आसादितप्रस्थकपर्यायम् , मितम्-आकुट्टितनामानम् , मेयं-धान्यविशेषमारूढं च प्रस्थकमाह, मेयारूढपदेन तदनारूढस्यान्यद्रव्याविशिष्टस्यासनहान्नैगमोपदर्शितार्थसङ्कोचकत्वेन स्वनाम्नोऽन्वर्थसिद्धेः, अयं हि विशुद्धत्वात् कारणे कार्योपचारं कार्याकरणकाले प्रस्थकं च नाङ्गीकुरुते, न च तदा तस्य घटाद्यात्म अतिशुद्धौ तु नैगम-व्यवहारनयौ निष्पन्नप्रस्थकपर्यायवन्तमेव प्रस्थकं कथयतः, सङ्ग्रहस्तु मापनक्रियाविष्टमेव निष्पन्नप्रस्थकपर्यायवन्तं प्रस्थकं कथयतीत्यावेदकं पञ्चषष्टितमपद्यं विवृणोति-तमितीति / एताविति मूलस्य विवरणम्-नैगमव्यवहारनयाविति-एतच्छब्दस्य प्रक्रान्तपरामर्शकत्वात् / तच्छब्दस्यापि प्रकृतार्थपरामर्शकत्वात् तमिति मूलस्य विव' रणम्-प्रस्थकमिति-तस्यैव प्रकृतत्वात् / उत्कीर्णनामानमिति-उत्- उपरि, कीर्णम्- अयश्शलाकादिनोल्लिखितम् : नाम-प्रस्थकेति संज्ञा यस्य स उत्कीर्णनामा, तमुत्कीर्णनामानमिति, प्रस्थकपर्यायवत्तयोत्पन्नेऽपि काष्ठादिद्रव्यविशेषे यावन प्रस्थकोऽयमित्यापामरसाधारंणप्रत्ययोत्पत्तिस्तावन्न ततो लौकिकपरीक्षकाणां प्रस्थकमितधान्यादिकयविक्रयादिव्यवहारोऽसन्दिग्धतया समुल्लसतीत्युत्कीर्णनामत्वमावश्यकम्, यश्च काष्ठद्रव्यादिपर्यायविशेषः कूटव्यवहारिणा प्रस्थकपर्यायानात्मकोऽप्युत्कीर्णपर्यायसंज्ञो नैतावता वस्तुतः स प्रस्थक इत्यतः 'उत्कीर्णनामानम्' इत्यस्य फलितविवरणम्-प्रस्थकपर्यायवन्तमिति- एवम्भूतं द्रव्यविशेष प्रस्थकम् , आहतुः कथयत इत्यर्थः। नाममात्रस्य शब्दस्वरूपस्य प्रस्थकपर्यायापनकाष्ठद्रव्याद् भिन्नत्वेऽपि उत्कीर्णनाम्नः प्रस्थकपर्यायस्य द्रव्यादभिन्नत्वादित्थमभिधानमित्याह-उत्कीर्णनाम्न इति / सब-हमन्तव्योपदर्शकमुत्तरार्द्ध विवृणोति-सङ्गहनयस्त्विति / चितमिति मूलस्य विवरणम् - आसादितप्रस्थक:: पर्यायमिति / मितमिति मूलस्य विवरणम् - आकुट्टितनामानमिति- उत्कीर्णनामानमित्यस्य य एवार्थः . स एवार स्यापि, प्रयोजनमपि पूर्वप्रदर्शितमेव / 'मेयं धान्यविशेषमारूढंच' इत्यस्य स्थाने 'तथा मेयारूढं धान्यविशेषसमारूढं च' इति पाठो युक्तः, अत्र मेयारूढमिति मूलस्य धान्यविशेषसमारूढमिति विवरणम् / समुच्चयार्थकस्यः तथाशब्दस्य समुच्चयार्थकश्चशब्दो विवरणम् / मेयारूढमित्यत्र मेय आरूढोऽयं स मेयारूढ इति बहुव्रीहिः, मेयश्च: मातुं योग्यो धान्यविशेषः, तथा च तद्विवरणस्य 'धान्यविशेषसमारूढम्' इत्यस्य धान्यविशेषकर्तृकारोहणकर्मेत्यर्थः / / आसादितप्रस्थकपर्याय आकुट्टितनामा च प्रस्थको नैगमेऽपीति तन्मात्राभ्युपगमे सङ्ग्रहस्य नैगमाद् विशेषो न स्यादितिः नैगमाभ्युपगमतः सङ्ग्रहाभ्युपगमे विशेषख्यापनायोक्तम् 'मेयारूढम्' इत्याह-मेयारूढपदेनेति / तदनारूढस्य मेयकर्तृकारोहणाकर्मीभूतस्य, आरोहणं च प्रकृते मध्यदेशमभिव्याप्य संयोगलक्षणावस्थानमेव, तत्कर्तृत्वं च तत्प्रतियोगित्वम् / तत्कर्मत्वं च तदनुयोगित्वम् , अन्यद्रव्याविशिष्टस्य प्रस्थकपर्यायानापन्नद्रव्येण सह समानस्वभावस्य, यथा प्रस्थकपर्यायानात्मकं न धान्यमानविशेषावधारणलक्षणकार्यकुर्वद्रूपात्मक तथा धान्यविशेषासमारूढं प्रस्थकपर्यायापन्नद्रव्यमपीति / / असहात् सत्महणाभावात् / तथा च नैगमोपदर्शितार्थसोचकत्वेन नैगमनयेनोपदर्शितो यः प्रस्थकवाच्यः * आसादितप्रस्थकपर्यायोत्कीर्णनामकद्रव्यविशेषरूपोऽर्थः स मेयारूढो मेयानारूढश्च, तन्मध्यान्मेयारूढ एव प्रस्थको न मेया-; नारूढ इत्येवं सङ्कोचकारित्वेन समहनयस्य सङ्ग्रह इति यन्नाम तस्यान्वर्थत्वस्य सङ्गृह्णाति सङ्कोचयतीति सङ्ग्रह इति निरुक्तिलभ्यार्थत्वस्य सिद्धः, 'अयम्' इत्यस्य ‘नाङ्गीकुरुते ' इत्यनेनान्वयः / अयं समहनयः / हि यतः / कारणे: प्रस्थकमितधान्यादिमापनकार्यस्य परम्परया स्वरूपयोग्ये मापनकार्यकुर्वद्रूपानात्मके छेदन-तक्षणोत्किरणोल्लेखनादिक्रियायोग्यकाष्ठे / कार्योपचारं प्रस्थकपर्यायात्मककार्योपचारम् / आसादितप्रस्थकपर्यायऽपि कार्याकरणकाले प्रस्थकमानधान्यादिमापन कार्याकरणकाले। प्रस्थकं च प्रस्थकेति नामव्यपदेश्यं च / नाङ्गीकुरुते न स्वीकरोति / ननु मापनकार्याकरणकाले आसादितप्रस्थकपर्यायेऽपि प्रस्थकात्मकत्वानङ्गीकारे घटाद्यात्मकत्वं स्यादित्याशका प्रतिक्षिपति-न चेति / तदा प्रस्थक'कार्याकरणकाले। तस्य आसादितप्रस्थकपर्यायस्य / यो यन्नामव्युत्पत्तिनिमित्तार्थक्रियां करोति स तदर्थक्रियाकरणकाळ एव तदात्मक इत्यभ्युपगन्त्रेवम्भूतनयमते जलाद्याहरणलक्षणचेष्टाकरणकाल एव घटादेरपि घटाद्यात्मकत्वस्य स्वीकारण प्रस्थकपर्यायापनस्य मापनक्रियाऽकरणकाले यथा न प्रस्थकात्मकत्वं तथा तदानीं जलायाहरणलक्षणचेष्टात्मकार्थक्रियाकारित्वा.