________________ 188 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। भिधाने स्वयं वा स्मर्यमाणे तात्पर्यापहादेवान्वयानवबोधात् , तद्बहे च वधूपदर्शितकलापेनाप्यन्वयाव. बोधात् तद्वहस्यैव नियामकत्वात् , अत एव तात्पर्य विषयान्वयप्रतियोगिवाचकपदाध्याहारपेक्षयाऽर्थाभ्याहार एव लाघवमामनन्ति, अत एव पदजन्यपदार्थोपस्थितेरेव शाब्दबोधहेतुत्वात् संस्कारोपस्थितस्य न शाब्दबोध इति निरस्तम् , तात्पर्यस्यैव नियामकत्वे पदजन्यत्वप्रवेशे गौरवात्, न च शक्ति विना पद्मत्वस्योपस्थित्यनियमेऽनुभवानियमप्रसङ्गः, शक्ति विना शकेरिव तस्य नियतस्मृतिसम्भवे अनुभवनियमस्य युक्तत्वात् , लक्षादेरनुभवानियमस्योपस्थित्यनियमप्रयोज्यत्वात् , अन्यथा नानार्थेऽता. कलायादिकर्मविशेषबोधकपदोच्चारण एव, सोऽपि व्यापार इदानीं नापेक्षितः स्यात् , अनुषग्यमानपचतीत्येतावन्मात्रत एवोत्तरवाक्यतः प्रत्यक्षोरस्थितं कलायमादाय कलायकर्मकपाकबोधः स्यादित्यर्थः। निषेधे हेतुमाह-अन्यान्वयतात्पर्यक इति'कि पचति' इति केनचिन् पृष्टेन तदुत्तराभिसन्धानेन पुरुषान्तरेण कलायमिति पदमभिहितम् , किन्तु 'कलायं पश्यति, कलायं सगृह्णाति' इत्यादिदर्शनाद्यन्वयतात्पर्येणैव, तत्रान्वयतात्पर्यककलायादिपदत उपस्थितस्य कलायस्य कर्मतया पाकेs न्वयतात्पर्यग्रहाभावादेवान्वयावबोधाभावात् , एवं न केनापि तदानीं कलायमित्यभिहितं परं पूर्वसंस्कारमहिम्नैव कलायस्मरगं जातमेवमपि तात्पर्यग्रहाभावादेव कलायकर्मकपाकावबोधाभावादिदं वाक्यं कलायकर्मकपाकबोधेच्छयोच्चरितमित्याकारकतासर्यग्रहस्यैव कलायकर्मकपाकान्वयबोधहेतुत्वमिति प्रत्यक्षोपस्थितेऽपि कलाये उक्ततात्पर्यग्रहाभावादेव कलायकर्मकपाकान्वयबोधापत्त्यसम्भवात् , प्रमाणान्तरोपस्थितस्यापि च कलायस्योक्ततात्पर्यग्रहसत्त्वेऽन्वयबोधो भवत्येव, यथा स्ववधूः पुत्रवधूळ 'किं पचति भवति !' इत्येवं पृष्टा 'नान्यसन्निधाने स्वामिना सह वक्तव्यम् , श्वशुरेण समं च न वक्तव्यमेव' इति लोकमर्यादा परिपालयन्ती न किञ्चिद् वक्ति, किन्त्वगुल्यादिनोपदर्शयति कलायम् , तत्र कलायकर्मकपाकबोध. स्तात्पर्यज्ञानाच्छन्देनानुपस्थितेऽपि कलाये भवतीति तात्पर्यग्रहस्यैवोक्तबोधनियामकत्वादित्यर्थः / तद्दे च तात्पर्यग्रहे च। तद्भहस्यैव तात्पर्यग्रहस्यैव, एवकारेण पदमात्रजन्योपस्थितेरन्वयबोधनियामकत्वव्यवच्छेदः / अत एव तात्पर्यग्रहे सति पदादनुपस्थितस्यापि प्रमाणान्तरोपस्थितस्य शान्दबोधविषयत्वाभ्युपगमादेव / तात्पर्येति- तात्पर्यस्य विषयो यः कलायकर्मकत्वस्य पाकेऽन्वयः, तत्प्रतियोगि- तन्निरूपकं यत् कलायकर्मत्वम् तवाचकं * तदवबोधकं यत् पदं-द्वितीयाविभक्त्यन्तं कलायभिति पदम् , तदध्याहारापेक्षया-उक्तवाक्यघटकतया तत्स्मृतिकल्पनापेक्षया / अर्थाध्याहारे प्रमाणान्तरेण कलाय. रूंपार्थोपस्थितौ / एवकारेण पदाध्याहारे लाघवस्य व्यवच्छेदः, पदाध्याहारपक्षे पूर्व पदं कल्पनीयं . ततोऽर्थोपस्थितिस्ततोऽन्वयबोध इति गौरवम् , अर्थाध्याहारपक्षे प्रमाणान्तरादर्थोपस्थितावनन्तरमेवान्वयबोध इति लाघवमित्येवमर्थाध्याहारवादिन आमनन्ति / 'द्वारम्' इत्युक्त 'पिधेहि' इत्यादिक्रियाबोधकवाक्योपस्थितिकल्पनामन्तरेणैव पिधानादिक्रियालक्षणार्थोरस्थितित एव द्वारकर्भकपिधानबोध इति न पदार्थोपस्थितौ पदजन्यत्वप्रवेशस्यावश्यकता, पदमन्तरेण संस्कारोपस्थितस्य शाब्दबोधाभावस्तु तात्पर्यग्रहाभावादेवेसाशयनाह-अत एवेति- अस्य 'निरस्तम्' इत्यनेनान्वयः, अत एवतात्पर्यग्रहस्य शाब्दबोधनियामकत्वादेव, संस्कारोपस्थितस्य पदग्रहमन्तरेणैवान्यत उद्बुद्धसंस्कारादुपस्थितस्य, तेन पदोपस्थितस्यापि संस्कारोपस्थितत्वस्यावश्यंभावेन तथाभूतस्य शाब्दबोधसम्भवेऽपि न क्षतिः / तात्पर्यस्यैव तात्पर्य ग्रहस्यैव / ननु समभिरूढमते पङ्कजपदस्य पद्मत्वे समुदायशक्त्यनभ्युपगमेऽवयवशक्त्या पङ्कजनिकर्तृत्वस्यैवोपस्थितिरिति :पङ्कजमस्ति' इत्यत्र पद्मत्वस्योपस्थापकस्य नियतस्याभावान्न भवेदपि पद्मत्वस्योपस्थितिरिति तदुपस्थित्यनियमे तदनुभवनियमोऽपि ततो न भवेदित्याशय प्रतिक्षिपति-न चेति / यथा जातिशक्तिवादिमते आनन्याद् व्यक्तौ शक्त्यभावेऽपि जोतिर्व्यक्तिमन्तरेण न भासत इत्यतो नियतव्यक्तिस्मृतितो नियतव्यक्त्यनुभवो भवति तथा तात्पर्यग्रहबलादेवाशक्य पि पद्मत्वस्य स्मृतितोऽनुभवनियमः स्यादेवेति निषेधहेतुमुपदर्शयति-शक्ति विनेति, 'शक्तरित' इति स्थाने 'व्यक्तरिव' इति पाठो युक्तः। तस्य पद्मत्वस्य / लक्ष्यार्थे शक्त्यभावे क्वचित् कस्यचित् कदाचिदनुभव इत्येवं योऽनुभवानियमस्तस्योपस्थित्यनियमप्रयोज्यत्वमेव ... नहि लक्ष्यार्थस्योपस्थितिनियमोऽस्ति, पद्मत्वस्य तु शक्यत्वाभावेऽप्युपस्थितिनियमस्तात्पर्यबलात् समस्त्येवाऽतोऽनुभवनियमोऽपि युज्यत इत्याह- लक्षादेरिति- अत्र "लक्ष्यादेः' इति पाठो युक्तः, अत्रादिपदालश्यतावच्छेदकस्योपग्रहः, व्यञ्जनाकृतिपक्षे व्यङ्यार्थोपग्रहोऽपि ततो बोध्यः /