________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समाइतो नयोपदेशः / कत्वं तु तेषां निःश्रेयसे जनयितव्ये न तावच्छब्द एव बोधयति, तत्र तस्योदासीनत्वात् / न च साक्षात् साधनताव्या( वि )धेः साधनताऽप्रतीतेः परम्पराघटकव्यापारमविषयीकृत्य न घटत इत्यपूर्व. वाच्यतान्यायेन शब्द एव वस्तुतः तत्त्वज्ञानव्यापारकतां बोधयितुं प्रगल्भत इति शङ्कापदं हृदि निधेयम् , सामान्यशब्दोऽन्यतमविशेषबाधे तं त्यजति, न तु विशेषान्तरमुपादित्सितमपि विशिष्य बोधयतीति स्वभावात् दृष्टान्तस्यैवासम्प्रतिपत्तेः, न च कर्मणामाशुतरविनाशित्वेन व्यापारोऽवश्यं स्वीकरणीयस्तत्र दृष्टेन तत्त्वज्ञानेनैवोपपत्तावदृष्टकल्पनाया अन्याय्यत्वात् , लाघवसहकृतानुपपत्तिरेव तत्त्वज्ञानव्यापारकत्वे मानमिति वाच्यम्, तत्त्वज्ञानस्यापि व्यवहितत्वेन तत्रापि कर्मणोऽदृष्टद्वारावश्यकत्वाद् निःश्रेयसे द्वारद्वयकल्पने गौरवात्, निःश्रेयसे कर्मणामदृष्टद्वारा हेतुत्वे तत्त्वज्ञानोत्पत्त्यनन्तरमपि यम-नियमाधनुष्ठानं स्यादिति चेत् ? स्यादेव, तदानीमपि मुमुक्षाया अधिकारस्याक्षतेः, न च तत्त्वज्ञानत्वेनैव निषेधकोटिः मुमुक्षुकर्मव्यापारत्वं तत्त्वज्ञानवृत्ति न भवतीति निषेधकोटिः / तत्र विप्रतिपत्तौ सत्यां निषेधकोटिसाधने। अयं तीर्थविशेषस्नानेत्यादिना वक्ष्यमाणः / तेषां तीर्थविशेषस्नान महादान-यम-नियमादिकर्मणाम् / तत्र तीर्थविशेष स्नानादिकर्मणां तत्त्वज्ञानव्यापारकत्वे / तस्य शब्दस्य / न चेयस्य विधेयमित्यनेनान्वयः। "साक्षात् साधनताव्या(वि)धेः साधनताऽप्रतीतेः" इत्यस्य स्थाने " साक्षात् साधनताबाधे विधेः साधनताप्रतीतिः" इति पाठो युक्तः, तथा च तीर्थविशेषस्नानादिकर्मणां मोक्षं प्रति कारणत्वं विधिवाक्यात् प्रतीयते, किन्तु तीर्थस्नानादिकर्मणां चिरविनष्टत्वेन मोक्षाव्यवहितपूर्वक्षणेऽभावात् साक्षान्मोक्षं प्रति कारणत्वं न सम्भवतीत्येवं तेषां मोक्षं प्रति साक्षात् साधनताया बाधे सति विधेः-विधिवाक्यात् तेषां मोक्षं प्रति साधनताप्रतीतिः परम्परया कारणत्वविषयिणी, परम्पराकारणत्वं नाम स्वजनकव्यापारजनकत्वमिति परम्पराघटकव्यापारमविषयीकृत्य न घटते न सम्भवतीत्येवम्भूतार्थप्रतिपादनपरो योऽपूर्ववाच्यतान्यायो यथा स्वर्गकामो यजेतेत्यत्र विधेरिष्टसाधनत्वार्थकत्वपक्षे यागस्य चिरविनष्टस्य कालान्तरभाविस्वर्गरूपेष्टं प्रति साक्षात् साधनत्वं न सम्भवतीति स्वर्गजनकव्यापारजनकत्वलक्षणपरम्पराकारणत्वमभ्युपेयमिति तदुघटकतयाऽपूर्वस्यादृष्टात्मकव्यापारस्य विधिवाच्यतेति तेन न्यायेन, शब्द एवं विधिस्वरूपशब्द एव, वस्तुत. परमार्थतः, तीर्थविशेषस्नानादिकर्मणां तत्त्वज्ञानव्यापारकता बोधयितुं ज्ञापयितुं प्रगल्भते समर्थो भवतीत्येवंस्वरूपं शङ्कापदं, हदि मानसे, न विधेयं न कर्तव्यमित्यर्थः / निषेधहेतुमाह- सामान्यशब्द इति- सामान्यवाचकशब्द इत्यर्थः / अन्यतमविशेषबाधे. सामान्यधर्माकान्तयत्किञ्चिद्विशेषस्य बाधे सति / तं विशेषम् / त्यजति तदसाधारणरूपेण तं न बोधयति / न स्वित्यस्य बोधयतीत्यनेनान्वयः / विशेषान्तरं बाधितविशेषभिन्नविशेषम् / तं विशिनष्टि-उपादित्सितमपीतिउपादातुमिष्टमपीत्यर्थः। विशिष्य न तु बोधयति तदसाधारणरूपेण न बोधयति / कथं न बोधयतीत्यपेक्षायामाहइति स्वभावादिति- यस्य शब्दस्य यत्रार्थे येन रूपेण शक्तिः स शब्दस्तेनैव रूपेण तस्य बोधक इति सम्भवादि. त्यर्थः। दृष्टान्तस्यैवासम्प्रतिपत्तेरिति-स्वर्गकामो यजेतेत्यत्रापि यागस्य स्वर्ग प्रति साक्षाजनकत्वस्य बाधे साक्षा. . जनकत्वरूपेण तमेव विधिन बोधयति, न तु परम्पराजनकत्वरूपेण परम्पराजनकत्वं बोधयति, उक्तस्वभावादित्यपूर्ववाच्यता दृष्टान्तस्यानभ्युपगमादित्यर्थः / न चेयस्य वाच्यमित्यनेनान्वयः। कर्मणां तीर्थविशेषस्नानादिकर्मणाम् / व्यापार: मोक्षरूपकार्यजनने व्यापारः। तत्र व्यापारस्यावश्यकत्वे / लाघवेति - उपस्थितिलाघवेत्यर्थः। निषेधे हेतुमाह-तत्व. शानस्यापीति- तत्त्वज्ञानान्तरमेव मुक्तिनं भवति किन्तु तत्त्वज्ञानेन मिथ्याज्ञानस्य सश्चितकर्मणां च क्षये सत्यपि भोगमात्रविनाश्यप्रारब्धकर्मणां भोगाद् विनाशे सति मुक्तिर्भवतीत्येवं तत्त्वज्ञानस्यापि व्यवहितत्वेनेत्यर्थः: अथवा तत्त्वज्ञानलक्षणव्यापारात्मककार्यस्यापि तीर्थविशेषस्नानादिकर्मणोऽनन्तरमेवानुत्पत्तेः, किन्तु कालान्तरमुत्पत्त्या तन्मध्यपतितकालप्रयुक्तव्यवधानाश्रयत्वेनेत्यर्थः, अयमेवार्थ उत्तरप्रन्थसङ्गत्याऽऽदरणीयः। तत्रापि तत्त्वज्ञानोत्पत्तावपि / निम्श्रेयसे मोक्षरूपकायें / द्वारद्वयकल्पने तत्त्वज्ञानरूपव्यापार एकः, अपरश्च तत्त्वज्ञानार्थमदृष्टरूपव्यापार इत्येवं व्यापारद्वयकल्पने गौरवात्, अतोऽदृष्टद्वारैव कर्मणां मोक्षं प्रति कारणत्वमित्यर्थः / ननु तत्त्वज्ञानद्वारा मोक्षं प्रति कर्मणां कारणत्वे तत्त्वज्ञानान्तरं न कर्माण्यनुष्ठेयानि तत्त्वज्ञानपूर्ववर्तिकर्मभ्य एव तत्त्वज्ञानद्वारा मोक्षो.