________________ नयाभूततरङ्गिणी-तरङ्गिणीतरणिभ्यो समहतो नयोपदेशः। 391 त्यागार्हत्वादिति चेत् ? तर्हि देशविषयः सत्त्वासत्त्वमङ्गोऽपि त्याज्यः स्यात् ; अवच्छेदकभेदेन सर्वाश्रय एवायमिति चेत् ? अन्त्यभङ्गत्रयेणापि किमपराद्धं यत् तस्यावच्छेदकभेदेन सर्वाश्रयत्वं न स्यादिति किं बहुना, यथा पदार्थानां ज्ञानं पर्यनुयोजनं तथा तदुत्पत्तिज्ञानं किमिति न पर्यनुयुज्यत इति ? सत्यम्सालानां मते सतः उत्पत्तिः, शाक्यानां नैयायिकानां चासतः, जैनानां सदसतो, वेदान्तिनां चानि. वाच्यस्येति दर्शनभेदेन चतुर्विधायाः प्रसिद्धत्वात् , भेदचतुष्टयोपन्यासे भेदान्तरस्यापि जिज्ञासितत्वेना. नतिप्रयोजनत्वात् , येन रूपेण यज्ज्ञानमवश्यमिष्टसाधनत्वेनान्यैरभिमतं तेन रूपेण तज्ज्ञानवैकल्यस्यैवाज्ञानवादिनापादनीयत्वादिति दिक् / विनयेन चरन्ति विनयो वा प्रयोजनमेषां ते वैनयिकाः, तेषां द्वात्रिंशद्भेदाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा अमुनोपायेन द्वात्रिंशदवगन्तव्याः, तथाहि-सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽधम-मातृ-पितृणां प्रत्येकं कायेन वाचा मनसा दानेन च विकल्पस्य देशविषयत्वमसहमानः शङ्कते- अवच्छेदकभेदेनेति- सम्पूर्णस्वरूपाया एवोत्पत्तेः किञ्चिदवच्छेदेन सत्त्वं कश्चिदवच्छेदन चासत्त्वं विवक्षयित्वा तृतीयभङ्गः प्रवर्तत इत्यस्य देशविषयत्वाभावान त्यागाईत्वमित्यर्थः। उक्तदिशावच्छेदकभेदेन संपूर्ण वस्त्वपि सदवक्तव्यत्वा-ऽसदवक्तव्यत्व-सदसदवक्तव्यत्वैतत्रितयालिङ्गित विवक्षितं भवतीत्यन्त्यमङ्गत्रयस्यापि सर्वाश्रयत्वमेव न देशविषयत्वमिति न त्यागार्हत्वं भवेदित्याशयेनानन्तरमाशङ्कितमुत्तरं कवलयति-अन्त्यभकत्रयेणापीति / किञ्च, पर्यनुयोगसप्तकवशादेव सप्त भङ्गाः प्रवर्तन्ते, पर्यनुयोगसप्तकं चोत्पत्तावप्यविशिष्टमिति सप्त विकल्पा अत्रापि किं न भवेयुरित्याह-किंबहुनेति / पर्यनुयोज्यं पर्यनुयोगस्य प्रश्नस्य विषयः। तदुत्पत्तिज्ञानं पदार्थोत्पत्तिज्ञानं किमिति न पर्यनयज्यते केन हेतुना पर्यनुयोगविषयो न भवेत् , अपि तु पर्यनुयोगविषयः स्यादेव / ननुत्पत्तरित्यायशङ्कायाः, प्रतिविधानमाह- सत्यमिति- यद्भवानाशङ्कते तत् सत्यमित्यर्थः / एवं सति पर्यवसित विवादेन, तथा चाज्ञानिकानां सप्तषष्टिरिति सङ्ख्यानियमनमसङ्गतं स्यादित्यत आह-साडयानामिति- “असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् / / शकस्य शक्य करणात् कारणाभावाच्च सत् कार्यम् // 1 // " इतीश्वरकृष्णकारिकया तन्मते सत्कार्यस्य व्यवस्थितेः। शाक्यानां बौद्धानाम् , मते इत्यनुवर्तते, एवमग्रेऽपि, बौद्धानां मते सर्वस्य क्षणिकत्वेनोत्पत्तितः प्राक्काले न कथञ्चिदपि सत्त्वमित्यसत एवोत्पत्तिः। नैयायिकानामिति वैशेषिकाणामप्युपलक्षणम् , तेषां मते अभूत्वा भवमलक्षणाया उत्पत्तेः प्राक्काले नास्त्येव कार्यस्य सत्त्वमिति, असत उत्पत्तिः, उत्पत्तिरिति च सर्वत्रानुवर्तते / जैनानां स्याद्वादिनाम् . तन्मते सर्वथा सति सर्वथाऽसति च कारकाणां व्यापारवैयाद् द्रव्यरूपेण सतः पर्यायात्मना चासत इत्येवं सदसत उत्पत्तिः / वेदान्तिनां ब्रह्माद्वैतवादिनां मते ब्रह्मातिरिक्तस्याशेषस्याविद्यकस्य न पारमार्थिकसत्त्वं ब्रह्मज्ञानेनाविद्यया सहितस्य कार्यमात्रस्य निवृत्तिलक्षणबाधविषयत्वात् , नापि तस्य क्वचिदप्यप्रतीयमानत्वलक्षणमसत्त्वं प्रतीयमानत्वादित्येवं सत्त्वाऽसत्त्वाभ्यां निर्वस्तुमशक्यत्वादनिर्वाच्यस्य कार्यस्योत्पत्तिरित्येवं दर्शनभेदेन मतभेदेन, चतुर्विघायाः चतुःप्रकारायाः, उत्पत्तेः प्रसिद्धत्वाद्, भेदचतुष्टयोपन्यासे उत्पत्तेर्विकल्पचतुष्टयोपन्यासे व्यवस्थिते सति, भेदान्तरस्यापि निरुतभेदचतुष्टयभिन्नविकल्पस्यापि, जिशासितत्वेन जिज्ञासितत्वमात्रेण, अनतिप्रयोजनत्वात् विशिष्टप्रयोजनाभावादित्यर्थः / .येनेति- येन रूपेण सत्त्वादिना, यज्ज्ञानम् उत्पत्तिज्ञानम् , इष्टसाधनत्वेनाभिमतफलजनकत्वेन, अन्यैः साक्षय-शाक्य. नैयायिक-जैन-वेदान्तिभिः, अभिमतम् उररीकृतम् , तेन रूपेण सत्वादिना " तज्ज्ञानवैकल्य" इत्यस्य स्थाने " तज्ज्ञानवैफल्य" इति पाठो युक्तः, अर्थस्तु व्यक्त एव / वैनयिकानां स्वरूपं तद्भेदांश्च निरूपयति-विनयनेति तेषां वैनयिकानाम् / एते च वैनयिकाश्च / अनवधूतेति- अनवधृतानि लिङ्गाचारशास्त्राणि यैस्तेऽनवधृतलिङ्गाचारशास्त्राः, इदमेव लिङ्गमस्माकमयमेवाचारोऽस्माकमिदमेव शास्त्रं सिद्धान्तोऽस्माकमित्येवमवधृतलिङ्गाचारशास्त्रा ये न भवन्ति ते इति यावत् / किंस्वरूपास्ते ? इत्यपेक्षायामाह-विनयप्रतिपत्तिलक्षणा इति- गुर्वादीनां विनय एवास्माभिरनुष्ठेय इत्येवं या विनयप्रतिपत्तिविनयस्वीकारस्तल्लक्षणा इत्यर्थः। अमुनोपायेन तथाहीत्यादिना अनन्तरवक्ष्यमाणेन प्रकारेण, द्वात्रिंशद् द्वात्रिंशत्सङ्खयकाः / अवगन्तव्याः ज्ञेयाः। वनयिकानां द्वात्रिंशद्भेदावगमोपायमेव भावयति-तथाहीति। इति एवम् / चत्वारः चतुः