SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 39. नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः / भवितव्यम्, ततश्चाज्ञाना इति स्यात्, नैष दोषः- ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचरितत्वात् , ततश्च जातिशब्दत्वादज्ञानिका इति प्रयोगस्यैव युक्तत्वात् , अभ्युपगमस्याणिनिप्रत्ययार्थत्वेनाज्ञानाभ्युपगन्तार इति बोधस्य तत एव सम्भवाद् , बहुव्रीहौ सम्बधिमात्रस्यैव बोधापत्तेः; यद्वाऽज्ञानेना. चरन्ति तत्प्रयोजना वा अज्ञानिकाः, असश्चिन्त्य कृतबन्धवैफल्यादिप्रतिपत्तिलक्षणा अमुनोपायेन सप्तषष्टिातव्याः, तथाहि- जीवादीन् नवपदार्थान् पूर्ववदवस्थाप्य पर्यान्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्वम् 1, असत्त्वम् 2, सदसत्त्वम् 3, अवाच्यत्वम् 4, सदवाच्यत्वम् 5, असदवाच्यत्वम् 6, सदसदवाच्यत्वम् 7 चेति सदादयः, तथा चैकैकस्य जीवादेः सप्त सप्त विकल्पा इत्येते नव सप्तकात्रिषष्टिः 63; उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा- सत्वम् 1, असत्त्वम् 2, सदसत्त्वम् 3, अवाच्यत्वम् 4 चेति, ते त्रिषष्टिमध्ये प्रक्षिप्ताः सप्तषष्टिः 67 भवन्ति, को जानाति जीवः सन् किं वा तेन ज्ञातेन प्रयोजनमित्येको विकल्पः, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं .. सतोऽसतः सदसतोऽवाच्यस्य वेति को जानात्येतत् किं वा तज्ज्ञानप्रयोजनमित्यादिप्रयोगः; ननूत्पत्तेः सत्त्वा-ऽसत्त्वादयः सप्त भेदाः कुतो नोपन्यस्यन्ते, उत्पत्तेः सर्वाश्रयत्वात् ; देशविषयान्त्यभङ्गत्रयस्य बहुव्रीहीतरवाक्यात् तद्धितप्रत्ययो न भवति, तद्धितप्रत्ययमन्तरेणैतद्वाक्यबहुव्रीहिस्तदर्थप्रतीति यदि जनयतीत्यर्थतात्पर्यकस्य लाघवमूलकस्य 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर' इत्यनुशासनस्योक्कार्थोपोद्वलकस्य सद्भावादित्याशयेन शहते-नन्ववमिति / ततश्च लाघवाद् बहुव्रीहिसमासस्यात्र प्राप्तत्वाच्च / अज्ञानशब्दोऽत्र न वाक्यरूपः किन्तु ज्ञानत्वावान्तरजातिविशेषावच्छिन्नशक्तत्वाज्जातिशब्दः पदरूप एव, एकपदे च न कस्यापि समासस्य सम्भव इति बहुव्रीहेरप्राप्ती तद्धितप्रत्ययान्ताज्ञानिकशब्दः साधुरेवेत्यज्ञानिका इति प्रयोगस्य युक्तत्वादिति समाधत्ते - नैष दोष इति- अनन्तरोपदर्शितदोषो नात्र सम्भवतीत्यर्थः / तत्र हेतुमाह-ज्ञानान्तरमेवाज्ञानमिति / ननु एकज्ञानभिन्नं द्वितीयं ज्ञानं यथा ज्ञानमित्ये-- वोच्यते तथाऽभिमतज्ञानविशेषोऽपि ज्ञानशब्दव्यपदेश्य एव स्यान्नाज्ञानशब्दव्यपदेश्य इत्यत आह-मिथ्यादर्शनेति / तति निरुक्तो ज्ञानसम्बन्धी यः कश्चित् स सर्वोऽप्यज्ञानिकशब्दव्यपदेश्यः ? नैवम्- अज्ञानाभ्युपगन्तार एवाज्ञानिका इत्येवं व्यपदिश्यन्ते, अतोऽपि नात्र बहुव्रीहिः, ततोऽज्ञानसम्बन्धिनोऽखिलस्यैव प्रतीत्यापत्तेः, किन्त्वभ्युपगमार्थकतद्धितप्रत्ययान्त एवा. ज्ञानिकशब्दस्तेनाज्ञानिका इत्यनेनाज्ञानाभ्युपगन्तार इति बोधस्यैवोदयादित्याह- अभ्युपगमस्येति / तत एव तद्धितान्ता. ज्ञानिकशब्दादेव / अज्ञानिकशब्दवाच्या अज्ञानकरणकाचरणशीला अज्ञानप्रयोजना वेत्यर्थान्तरावेदकं पक्षान्तरमुपदर्शयतियद्वेति / असश्चिन्त्येति अज्ञात्वाऽविचार्य वा कृतस्य पुण्य-पापलक्षणकर्मबन्धस्य वैफल्यमेवेत्याद्यभ्युपगमस्वरूपा अज्ञानिकाः, अमुनोपायेन-तथाहीत्यादिना वक्ष्यमाणप्रकारेण, सप्तषष्टिसंख्यका ज्ञातव्या इत्यर्थः / सदादयः के ? इत्यपेक्षायामाहसरवमित्यादि / एवं च सप्तषष्टिसङ्ख्याः सम्पद्यन्त इति दर्शयति-तथा चेति- इत्थ नुपन्यासे चेत्यर्थः / त्रिषष्टिश्चोत्पत्तिसम्बन्धिप्रकारचतुःसङ्ख्या मिलिता सप्तषष्टिसङ्खथा सम्पद्यत इत्याह-उत्पत्तेस्त्विति- उत्पत्तिसम्बन्धिनश्चतुरः प्रकारानेव भावयति- तद्यथेति- एते च सप्तषष्टिसङ्ख्यका अज्ञानिकविकल्पाः सच्छब्दघटितप्रयोगेण तदतिदिष्टप्रयोगेण च भाव्यन्ते / को जानातीत्यादिना / तेन जीवसत्त्वेन / उत्पत्तेश्चत्वार एव विकल्पा इत्यसहमानः शङ्कते- नन्वित्यादिना / सप्तभेदोपन्यास हेतुमाह-उत्पत्तेः सर्वाश्रयत्वादिति / अत्रोत्तरमाशङ्कते-देशेति- उत्पत्त्यात्मकवस्तुन एकस्मिन् देशे सत्त्वं विवक्षितमन्यस्मिश्च देशेऽवाच्यत्वं विवक्षितमिति सदवाच्यत्वभङ्गो देशविषयः, वस्तुन एको देशोऽसत्तया विवक्षितोऽन्यश्चावक्तव्यतयेत्येवमसदवाच्यत्वभङ्गो देशविषयः, वस्तुन एको देशः सत्तया विवक्षितश्चैको देशोऽसत्तया विवक्षितः, ताभ्यामन्यश्च देशोऽवक्तव्यतया विवक्षित इत्येवं सदसदवाच्यत्वभङ्गो देशविषय इति भावनयाऽन्त्यभङ्गत्रयस्य देशविषयत्वेन सम्पूर्णोत्पत्तिस्वरूपाविषयत्वेन च त्यागाईत्वादित्यर्थः / एवमाशङ्कितमुत्तरं दूषयति-तीति- एकस्मिन् देशे सत्त्वं विवक्षितमपरस्मिंश्च देशेऽसत्त्वं विवक्षितमिति कृत्वा निष्पन्नस्वरूपस्तृतीयः सदसत्त्वभङ्गोऽपि देशविषयत्वात् त्याज्यः स्यादित्यर्थः। तृतीय
SR No.004344
Book TitleNayopdesh Part 02 Tarangini Tarni
Original Sutra AuthorN/A
AuthorYashovijay Gani, Lavanyasuri
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy