________________ . यामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। कृत् मार्गानुसारितास्थैर्याधायको भवति, तेनान्त्यपुद्गलभावित्वात् चरमपुद्गलपरावर्तमात्रसंभवित्वात् , अन्येभ्यः- अक्रियावादादिभ्यः, तस्य क्रियावादस्य मुख्यता, तदुक्तं दशाचूर्णी "जो अकिरियावाई सो भविओ अभषिओ वा कण्णपक्खिओ सुक्कपक्खिओ वा। जो किरियावाई सो णियमा भविओ णियमा सुक्कपक्खिओ अन्तो पुग्गलपरिअट्टस्स सिज्झइ" // [ ] इत्यादि / ___ अत्र च क्रियावाद्यादीनां त्रिषष्ट्यधिकशतत्रयभेदप्रतिपादिका"असियसयं किरियाणं, अकिरियवाईण होइ चुलसीइ / अन्नाणि य सत्तट्ठी वेणइयाणं तु बत्तीसा // 1 // " [सू० प्र० सम० अध्य० निर्युक्तौ ] इति गाथा विनेयजनानुग्रहार्थ इह व्याख्यायते- अशीत्युत्तरशतं क्रियावादिनाम् , तत्र कोरं विना क्रियाऽसम्भव इति नाम्नात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षाख्यान् नव पदार्थान् पट्टिकादौ लिखित्वा परिपाट्या जीवपदार्थस्याधः, स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्या-ऽनित्यभेदी तयोरप्यधः कालेश्वरा-ऽऽत्म-नियति-स्वभावभेदा उपन्यसनीयाः, ततश्चेत्थमभिलापः कर्तव्यः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, तदर्थश्च विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्व कालत इति कालवादिनः पक्षः, अत्रास्तित्वे स्वतस्त्वमवच्छेदकीभूय विशेषणम् , नित्यत्वमात्मन एवोपरञ्जनकं विशेषणम् , कालत इति नियामकं विद्यमानत्वरूपसत्तायाः तेन क्रियापक्षपातस्य मार्गानुसारितास्थैर्याधायकत्वेन, अस्य मुख्यतेत्यनेन सम्बन्धः / अन्त्यपुद्गलभावित्वादित्यस्य विवरणं-चरमपदलपरावर्तनमात्रसंभावित्वादिति / अन्येभ्य इत्यस्य विवरणं- अक्रियावादादिभ्य इति. आदिपदादज्ञान-विनयवादादीनां ग्रहणम् / तस्येत्यस्य विवरणं-क्रियावादस्येति / उक्कार्थे दशाचूर्णिवचनसम्मतिमुपदर्शयति-तदुक्तमिति / जो० इति-“योऽक्रियावादी स भविकोऽभविको वा, कृष्णपक्षिकः, शुक्लपक्षिको वा; यः क्रियावादी स नियमभविको नियमाच्छुक्लपक्षिकोऽन्तःपुद्गलपरावर्तस्य सिद्धयति " इति संस्कृतम् / अत्र च क्रियावादादिविचारे च / प्रतिपादिकेत्यस्य गाथेत्यनेनान्वयः / असिय० इति-" अशीत्युत्तरशतं क्रियाणामक्रियावादिनो भवति चतुरशीतिः / अज्ञानिनश्च सप्तषष्टिवैनयिकानां तु द्वात्रिंशत्" इति संस्कृतम् / इति गाथा उक्तस्वरूपा गाथा / विनेय. जनानुग्रहार्थ शिष्यादिजनानुग्रहार्थम् / इह अस्मिन् ग्रन्थे / व्याख्यायते वित्रियते / क्रियावादिनः स्वरूपं सङ्खयां चोपदर्शयति-तत्रेति-क्रियावाद्यादिषु मध्ये इत्यर्थः / “नाम्ना" इत्यस्य स्थाने " नाना" इति पाठो युक्तः / तंच्छीलाच नानात्मसमवायिनी क्रियां वदितुं शीलं स्वभावो येषां ते तच्छीलास्ते च। ते पुनः क्रियावादिनः पुनः / आत्माद्यस्तित्वप्रतिपत्तिलक्षणा: आत्मादीनां पदार्थानां यदस्तित्वं तदभ्युपगमस्वरूपाः / अमुनोपायन जीवा-ऽजीवेत्याद्यनन्तरोपदर्यमानोपायेन / परिपाट्या लेखन भावयति-जीवपदार्थस्याध इति- जीवः स्वतः परतश्च नित्योऽनित्यः कालेश्वराऽऽत्म-नियति-स्वभावभेदतः, एवमुट्टङ्कनम् / तयोरधः स्व-परयोरधः / तयोरप्यधः नित्या-ऽनित्ययोरप्यधः / ततश्च एवं परिपाट्योपन्यासतश्च / इत्थम् अस्ति जीव इत्याद्यनन्तराभिधीयमानप्रकारेण / तदर्थश्च अस्ति जीवः स्वतो नित्यः कालत इत्यभिलापार्थश्च / अत्र अस्मिन् विकल्पे / अवच्छेदकीभूय विशेषणम् अस्तित्वे अवच्छेदकतया विशेषणं स्वतस्त्वमित्यतः स्वरूपावच्छिन्नास्तित्ववानित्याकारता प्रयोगस्य निष्पद्यते। कालतो नित्य आत्मेत्यपि प्रयोगघटकम्, तत्र नित्यत्वमुपरजकविशेषणम् , कालत इति चास्तित्व एव नियामकतयाऽन्वेतीत्याह- नित्यत्वमिति / कथं कालत इति नियामकमित्यपेक्षायामाह- विद्यमानत्वेति- एतेन नित्य आत्मा कालनियम्यत्वासाधारणात्मत्वाद्यवच्छिन्नविद्यमानत्वरूपा