________________ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समाहुतो नयोपदेशः। नयामृत-धयंश इति-धर्मिणः- आत्मनः, अंशे-नास्तित्वभागे, एको बाईस्पत्यः-चाको नास्तिकः प्रकीर्तितः धर्माणाम् - आत्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवत्व-सर्वज्ञजातीयत्वादीनाम् , अंशे-नास्तित्वपक्षे, सर्वेऽपि नैयायिक-वैशेषिक-वेदान्ति-साय पातञ्जल जैमिनीयादयःपरतीर्थिकाः, नास्तिकाः, ज्ञेयाः, यत्र यथा यदस्तित्वं तत्र तथा तदनभ्युपगमस्य स्वरसतो भगवद्वचना. श्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः, चार्वाकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुकम्पामात्रम् / / 126 // सम्यक्त्व-मिथ्यात्वस्थानकयोरुक्तमेव प्रकार क्रियावाद-तदितरवादेष्वतिदिशन्नाह इत्थमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति / मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रिया-विनयवादिषु // 127 // नयामृत-इत्थमेवेति / इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्त्वोक्तिः " सम्मः . ट्ठिी किरियावाइ" इत्यादिलक्षणा / अक्रियाऽज्ञानविनयवादिषु च मिथ्यात्वोक्तिः- " सेसा य मिच्छगा वा” इत्यादि, न दुष्यति० न दोषावहः भवति, फलत इत्थं विभागाभिप्रायस्याविरोधात्, जात्या चान्यत्र सर्वतौल्योक्तरुपपत्तेः // 127 / / क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयति- क्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् / अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता // 128 // नयामृत-क्रियायामिति / क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्य. . षद्विशत्युत्तरशततमपद्यमवतारयति- नन्विति। एतेषां नयानाम् / विवृणोति-धर्यश इतीति-धर्मिणोंऽशो धर्म्यश इति समासमवलम्ब्य धर्मिण इत्यस्य विवरणमात्मन इति, अंशे इत्यस्य विवरणं-नास्तित्वमागे इति / बार्हस्पत्यः बृहस्पति प्रणीतसूत्रानुसरणशीलः। स क इत्यपेक्षायामाह-चार्वाक इति- पृथिव्यादिचतुष्टयमेव तत्त्वम् , शरीरव्यतिरिक्त आत्मा नास्ति, प्रत्यक्षमेवैकं प्रमाणमित्याद्युपगन्ता चार्वाकनामा धर्माणामंशो धर्माश इति समासमवलम्ब्य धर्माणामित्यस्य विवरणमात्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवत्व-सर्वचजातीयत्वादीनामिति / अंशे इत्यस्य विवरण-नास्तित्वपक्ष इति- आत्मनः शरीरपरिणामित्वादिकं नास्तीति पक्ष इति तदर्थः / सर्वेऽपीत्यस्य पर्यवसितार्थकथन- नैयायिक वैशेषिक वेदान्ति-सालय पातअल-जैमिनीयादय इति / किं नास्तिकपदप्रवृत्तिनिमित्तं येन तद्भावाजैयायिकादयो नास्तिकपदव्यपदेश्या इत्यपेक्षायां तद्भावमुपदर्शयति- यत्र यथेति स्पष्टम् / तहि नैयायिकादीनां. लोकसत्याऽऽस्तिकव्यपदेश्यत्वं कथमित्यपेक्षायामाह - चार्वाकादिभिन्नेति / अनुकम्पामात्रमिति- अनुकम्पैव केवलम् , न तु वस्तुतो नैयायिकादय आस्तिका इति // 126 // सप्तविंशत्युत्तरशततमपद्यमवतारयति- सम्यक्त्वेति। उक्तमेव प्रकारं अनन्तराभिहितमेव मार्गप्रवेश-तत्यागलक्षणप्रकारम् / तदितरेति-क्रियेतरेत्यर्थः। विवृणोति- इत्थमेवेतीति / इत्थमवत्यस्य विवरण- मार्गप्रवेश-त्यागाभ्या. मेवेति / सम्म० इति- " सम्यग्दृष्टिः क्रियावादी" इति संस्कृतम् / सेसा० इति- " शेषाश्च मिथ्यात्वगा वा" इति संस्कृतम् / न दृष्यतीत्यस्य विवरणं- न दोषावहो भवतीति / तत्र हेतुमाह-फलत इति // 127 // ___ अष्टाविंशत्युत्तरशततमपद्यमवतारयति क्रियावादस्येति / विवृणोति-क्रियायामितीति / पक्षपात इत्यस्य विवरणमोक्षेच्छयाऽऽवेश इति / हि यतः। मार्गाभिमुख्य कृदित्यस्य विवरण- मार्गानुसारितास्थैर्याधायको भवतीति /