________________ नयामततरङ्गिणी-तरहिणीतरणिभ्यो समबहतो गयोपदेशः। न्तरमहस्तासामेव वा विशेषव्याप्तीनां वविनिरूपितधूमनिष्ठव्याप्तित्वेनानुगतीकृतानां धूमत्ववतित्वावच्छेदेन प्रहः कारणमास्थीयत इत्येतावत् , एवमिहाप्यसिद्धसाध्यविशेषाय साधनविशेषे प्रवर्तमानस्य तत्तव्यक्ति. विशेषावच्छिन्नकार्यकारणभावग्रहः सम्भवतीति सामान्यावच्छेदेन कारणताग्रहप्रवृत्त्यर्थमिष्यते, न तु प्रतिव्यक्तिविशेषकारणत्वं त्यज्यते / अत एव गङ्गेशेनापि तत्तन्नतित्वेन तत्तद्विघ्नध्वंसे हेतुत्वमुक्तमित्यनुपपत्त्यभावात् / केवलमेकत्रर्जुसूत्रादिशुद्धनयस्य अपरत्र व्यवहारनयस्य प्रवृत्तिः, व्यवहारे च " जो तुल्लसाहणाणं " [ ] इत्याद्युक्तोपपत्त्या पूर्वकृतस्यानन्यथासिद्धस्यान्वय-व्यतिरेकाभ्यां पूर्वपुरुषकारस्य च हेतुत्वमिष्यते, पुरुषकारपदं च स्व-स्वविषयान्यतरपरतया दण्डादेरप्युपलक्षणमिति न तदसम्हः, तथा च संकलनयदृष्ट्या मुद्पत्यादिदृष्टान्तेन सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र सङ्गतिमङ्गति, तत्पक्षस्य सर्वनयमत्वेन सम्यगरूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिध्यारूपत्वात् , तदाहुराचार्या:व्याप्तित्वेन ग्रहो न सम्भवतीत्यत:-वह्निनिरूपितेति- वह्निनिरूपिता धूमनिष्ठा या व्याप्तिः / तत्र वह्नित्वेन सर्वेषां. नां धूमत्वेन सर्वेषां धूमानामनुगमनात् सर्वा अपि तत्तद्वहिनिरूपितास्तत्तद्र्मनिष्ठा व्याप्तय इति तत्त्वेन तादृशव्याप्तित्वेनानुगतीकृतानामेकीकृतानाम् , यद्यपि तत्तद्वयाप्तित्वेन तासां तत्तद्वयक्तिष्वेव सत्त्वतो धूमत्व-वह्नित्वावच्छेदेन ग्रहो न सम्भवति तथापि यद्रूपेणैकीकृतास्तास्तद्रपेण तासां धूमत्व-वहित्वावच्छेदेन प्रहः सम्भवतीति तथाग्रहः कारणमास्थीयते स्वीक्रियते इति / एवं चोक्कदिशा प्रकृते इष्टसाधनत्वग्रहः सम्भवतीति ततः साध्यविशेषार्थ साधनविशेषे प्रवृत्तिः सम्भवतीत्याह- एवमिहापीति / “ग्रहप्रवृत्त्यर्थ" इत्यस्य स्थाने "प्रहः प्रवृत्त्यर्थ" इति पाठो युक्तः / न त्वित्यस्य त्यज्यत इत्यनेनान्वयः, प्रवृत्त्यर्थ सामान्यावच्छेदेन कारणताग्रहस्य स्वीकारेऽपि प्रतिव्यक्तिविशेषकारणत्वं न तु त्यग्यते इत्यर्थः / विशेषरूपेण कार्यकारणभावे चिन्तामणिकृत्सम्मतिमुपदर्शयति-अत एवेति-विशेषरूपेण कार्यकारणभावस्याभ्युपगमादेवेत्यर्थः / गढ़ेनापि चिन्तामणिकृता गङ्गेशोपाध्यायेनापि, अस्योकमित्यनेनान्वयः। एवं सति चिन्तामणिन्मतर्जुसूत्रमतयोः को विशेष इत्यपेक्षायामाह-केवलमिति- एकत्र तत्तत्क्षणत्वेन हेतुत्वमिति कालवेन हेतुत्वमिति प्रागभावसमवायिकारणविधया . ' हेतुत्वमिति तथामव्यत्वस्य तत्तकार्य प्रति हेतुत्वमिति च मतेषु / ऋजुसूत्रादीति- आदिपदात् संग्रहैवम्भूतनययोः परिग्रहः / अपरत्र सामान्यतोऽपि च कार्यकारणभावो विशेषतोऽपि च कार्यकारणभाव इति चिन्तामणिकृन्मते। व्यवहारे चेत्यस्य हेतुत्वमिष्यते इत्यनेनान्वयः / जो तुल्ल० इति- " यस्तुल्यसाधनानाम् ' इति संस्कृतम् / इत्याधुक्तोपपत्त्या इत्याद्यागमोक्तोपपत्तितः / पूर्वकृतस्येत्यस्य हेतुत्वमित्यनेनान्वयः, ' पूर्वजन्मार्जितं कर्म देवमित्यभिधीयते' इत्यादिवचनाद् दैवापराभिधानस्य पूर्वजन्मार्जितस्य पुण्य-पापान्यतरात्मकस्य कर्मण इत्यर्थः। तस्य नियतपूर्ववर्तित्वं निर्विवादमेवानन्यथासिद्धत्वमपि तस्येत्यावेदनाय तद्विशेषणम्- अनन्यथासिद्धस्येति / एवं चानन्यथासिद्धत्वे सति नियतपूर्व वर्तित्वलक्षणं कारणत्वं तत्र सङ्गतिमश्चतीति पूर्वकृतस्य कर्मणोऽतीन्द्रियत्वात् तत्रोक्कदिशैव कारणत्वलक्षणाकान्तत्वात कारणत्वम्, पुरुषकारस्य तु प्रयत्नविशेषरूपस्य प्रत्यक्षविषयत्वात् तत्रान्वय-व्यतिरेकयोः सम्भवेन ताभ्यामप्यवधार्यते कारणत्वमित्याशयेनाह- अन्वय-व्यतिरेकाभ्यामिति कार्याव्यवहितपूर्ववर्तिन एव पुरुषकारस्य कारणत्वमित्यावेदनाय पूर्वति / ननु देव-पुरुषकारयोरेवेत्थं कारणत्वमायाति न तु दण्डादेरित्यत आह-पुरुषकारपदं चेति / स्व-स्वविषयान्यतरपरतयेत्यत्र स्वपदं स्वसम्बन्धिपरम्, प्रयत्नविशेषश्च पुरुषकारपदस्य वाच्यत्वात् सम्बन्धी भवतीति स्वं प्रयत्नविशेषः, स्वविषयव प्रयत्नविशेषविषयश्च तदन्यतरपरतयेत्यर्थः / न तदसङ्कहा न दण्डादेरसङ्ग्रहः / पञ्चकारणीति' पश्चानां कारणानां समाहारः पञ्चकारणी, काल स्वभाव-नियति-पूर्वकृत-पुरुषकारभेदेन पञ्चकारणानि / तत्पक्षस्य सिद्धान्तसिद्धपथकारणाभ्युपगमपक्षस्य / एककारणपरिशेषपक्षस्य चेति-काल एव कारणं स्वभाव एव कारणं नियतिरेव