________________ 3 नयामुखतरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / प्रवादस्य सङ्ग्रहनयाभिप्रायेणैव समर्थयितुं शक्यत्वात्, तथा च देशतया कालतया चैकस्यैवाहेतुत्वं लघवादयुक्तमित्येवम्भूवनयाभिप्रायेण ताहगवस्थं भव्यत्वमेव तथाभव्यत्वनामशालि तादृशतत्तत्कार्यजनकमवश्यमास्थेयम् , इत्थमेव सकलातिप्रसङ्गभङ्गसम्भवात् / अथैवमतिविशेषेण कार्यकारणभावविनामे असिद्धसाध्यविशेषार्थ [ साधनविशेषार्थ ] साधनविशेष प्रवृत्त्यनुपपत्तिस्ताहशतव्यक्तिविशेषावच्छिन्न कारणतायाः पूर्व दुर्महत्वात् , इष्ट साधनताज्ञानस्य च प्रवृत्ति हेतुत्वादिति चेत् ? मैवम्- कार्य. कारणभावो हि व्याप्तिविशेष एव, सा च सामान्यतो विशेषतश्चास्त्येव किन्त्वगृहीतसाध्यसाधनविशेषावछिन्नायास्तस्या अबुभुक्षितानुमानस्थले दुर्घहत्वेनानुमियप्रयोजकतया सामान्यावच्छिन्नव्याप्त्य. " चैकस्यैवाहेितुत्वं" इत्यस्य स्थाने " चैकस्यैव हेतुत्वं" इति पाठो युक्तः, लाघवाद् देशतया कालतया चैकस्यैव हेतुत्वं यत् सङ्ग्रहनयाभिप्रेतं तदयुक्तमित्याकारको य एवम्भूतनयाभिप्रायस्तेनेत्यर्थः। ताहगवस्थं यद् यदा यद्यद्वयुत्पत्ति. निमित्तक्रियाविष्टयावद्धर्मशालि तथाभूततावद्धर्माकान्ततझ्यक्ति प्रति तथाभूततावद्धर्मविशिष्टतद्वयक्तिनिरूपितम्। ननु तादृगवस्थं भव्यत्वं कार्यजनकमितीदानीमुपेयते पूर्व तु तथाभव्यत्वं कार्यजनकमिति प्रतिज्ञातमिति भेदान्न तन्निंगमनमित्यत . आह-तथाभव्यत्वनामशालीति एवं च तादृगवस्थभव्यत्वस्यैव तथामव्यत्वमिति नामेति भवति तन्निगमनमिति / ताडयतत्तत्कार्यजनकं तथाभूततावद्धर्माकान्ततत्तद्वयक्त्यात्मककार्यजनकम् / इत्थमेव नैगमनयाभिप्रायेणातिविशेषरूपेण कारणत्वपर्यवसायितथाभव्यत्वकारणत्वसमर्थनेनैव / सकलातिप्रसङ्गभङ्गसम्भवादिति- कार्येक्य-कार्यककालत्व-कायैकदेशस्वादिप्रसङ्गमङ्गसम्भवादित्यर्थः / परः शङ्कते- अथेति / एवम् एवम्भूतनयाभिप्रायेण तथाभव्यत्वकारणत्वस्याश्रयणे / अतिविशेषेणेति- यतः परं विशेषान्तरं न समस्ति स स्वापेक्षया विशेषान्तराभावेन विशेषमतिक्रान्तत्वादतिविशेषोऽन्त्यविशेष इति यावत् , तेनेत्यर्थः / कार्यकारणभावविश्रामे तत्तद्व्यक्किं प्रति तत्तद्वयक्तिनिरूपिततथाभव्यत्वकारणत्वस्यान्त्यविशेषरूपेण कार्यकारणभाव एव पर्यवसाने / असिद्धसाध्यविशेषार्थ तत्तद्वयक्तिरूपकार्यमपूर्वमेव जायते, तत् प्रति कारणविशेषस्यान्वय-व्यतिरेकाग्रहान्न स कार्यविशेषः कारणविशेषस्य कार्यतया सिद्धो निश्चित इत्यसिद्धसाध्यविशेषस्तदर्थ तदु. त्पत्त्यर्थम् / साधनविशेषे यस्य साधनविशेषस्य तत्कार्यविशेष प्रति कारणत्वं न निश्चितं तस्मिन् कारणविशेषे / प्रवृत्त्यनुपपत्तिः तदानयनाद्यनुकूलयत्नानुपपत्तिः / कुतस्तत्र प्रवृत्त्यनुपपत्तिरित्यपेक्षानिवृत्त्यर्थ तत्र हेतुमाह- तादृशेति- विशेषातिकान्तेत्यर्थः / “तद्वयक्तिविशेषावच्छिन्नकारणतायाः" इत्यस्य स्थाने " तद्वयक्तिविशेषावच्छिन्न कार्यतानिरूपिततयक्तिविशेषावच्छिन्नकारणतायाः" इति पाठो युक्तः, भवतु तादृशकारणताया दुग्रहत्वं तेन कस्य प्रवृत्तिकारणस्याभावात् प्रवृत्त्यनुपपत्तिरित्यत आह-इष्टसाधनताज्ञानस्य चेति / समाधत्ते- मैवमिति / हि यतः / कार्यकारणभावो व्याप्तिविशेष एवेति- यत्र यत्र धूमस्तदव्यवहितप्राक्क्षणावच्छेदेन तत्र वहिनरिति वनर्ययापकत्वं यच्च धूमस्य व्याप्यत्वं तदेव बहिन-धूमयोः कार्यकारणभाव इति भवति कार्यकारणभावस्य व्याप्तिविशेषरूपतेति / सा च व्याप्तिश्च / सामान्यतः यत्र यत्र धूमस्तत्र तत्र वहिनरिति सामान्यतो व्याप्तिः / विशेषतश्च यत्रायं धूमस्तत्रायं वहिनरिति विशेषतो व्याप्तिः / पृच्छति-किन्त्विति / उत्तरयति- अगृहीतेति- अगृहीतः पूर्वमज्ञातो यः साध्यविशेष एवं साधनस्य विशेषस्तदेवच्छिन्नायाः तस्या व्याप्तः, अस्य दुर्ग्रहत्वेनेत्यनेन अनुमित्यप्रयोजकतयेत्यनेन चान्वयः / कुत्र तस्या दुर्ग्रहत्वेनानुमित्यप्रयोजकत्वमित्यपेक्षायामाह- अबुभुक्षितानुमानस्थल इति- समानविषयत्वप्रत्यासत्त्या ज्ञानेच्छयोः कार्यकारणभावाद् यस्यैव ज्ञानं तस्यैवेच्छा भवति, विषयनिरूप्यं हि ज्ञानमिति निरूपकस्य विषयस्य ज्ञाने सत्येव निरूप्यस्य तज्ज्ञानस्य ज्ञानमित्यन्स्यः विशेषविशिष्टस्य विषयस्य पूर्वमग्रहे तद्विषयकस्य ज्ञानस्याप्यग्रह इत्यन्त्यविशेषविशिष्टः स्वविषयकज्ञानेच्छाया अभावाद् बुभुक्षितो बोमिष्टो न भवतीत्यबुभुक्षितस्तस्यानुमानस्थले इत्यर्थः, एतेन यत्र साध्य-साधनयोर्विशेषौ शब्दादिना पूर्व गृहीतो, ततध तादृशविशेषविशिष्टसाध्यव्यक्तेरनुमितिमें जायतामितीच्छालक्षणाबुभुत्सा, तत्र बुभुत्सिततादृशविशेषविशिष्टसाध्यव्यक्त्यनुमान: स्थले गृहीतसाध्यसाधनविशेषावच्छिन्नाया व्याप्तेः सुप्रहत्वेनानुमितिप्रयोजकत्वसम्भवेन तद्रह एव कारणं न तु सामान्यावच्छिन्नपात्यन्तरप्रहः कारणमित्यावेदितं भवतीति बोध्यम् / सामान्यावच्छिन्नव्याप्त्यन्तरग्रह इत्यस्य कारणमित्यनेन सम्बन्धः / चा अथवा / तासामेव अगृहीतसाध्यसाधनविशेषावच्छिन्नानामेव / तत्र विशेषव्याप्तीनां प्रत्येकं विशेष