________________ मयामृततरङ्गिणीतरक्षिणीतरणिभ्यां समलहतो भयोपदेया। पक्षपातित्वं नित्या-ऽमित्यशब्दवाच्यपुद्गलाभ्युपगमात् , ज्ञाना.ऽर्थलक्षणयोगपद्यरूपव्यञ्जनपर्यायप्रधानत्वाचावगन्तव्यम् , यौगाचार-माध्यमिकयोश्च शुद्धशुद्धतरत्वेन समभिरूदैवम्भूतपक्षवर्तित्वमिति // 120 / / नयसंयोगजः शब्दा-ऽलङ्कारादेश्च विस्तरः / कियान् वाच्यो वचस्तुल्यसङ्ख्या ह्यभिहिता नयाः // 121 / / नयामृत-नयेति / शब्दा-ऽलङ्कारादेः- व्याकरण-साहित्यादिशास्त्रस्य च विस्तरः, नय. संयोगज:- नानानयेमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायां उपजीवनात्, अन्यथा सार्वपार्षदस्वानुपपत्तेः, अंत एव मीमांसका अपि द्रव्य-पर्याययोः सार्वजनीनभेदा-ऽभेदाद्युपपत्तये व्यवहारनय. मानन्त्य-व्यभिचाराभ्यां बिभ्यन्तौ व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये सङ्घहनयं चाद्रियमाणाः स्वमतप्रवृत्तौ नयसंयोगमेवादावपेक्षन्ते, यत् तु मीमांसकमतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकस्वं शब्दनयादिपक्षपातित्वं कुतोऽवगम्यत इत्यपेक्षायामाह- अत्रेति-चतुर्णा बौद्धानां मत इत्यर्थः / यद्यपि बाह्यपदार्थाभ्युपगन्तृत्वादर्थनयपक्षपातित्वमेव युकं तथापि पुदलात्मकस्य नित्यानित्यशब्दवाच्यतयाऽभ्युपगमाच्छन्दनयपक्षपातित्वम् , वैभाषिकोऽपि क्षणिकमेवं वस्तु स्वीकरोति न नित्यमिति शब्दोऽपि न नित्यः, किन्तु नित्यमित्येवंस्वरूपोऽनित्यमित्येवंस्वरूपो यः शब्दस्तद्वाच्यस्य पुनर्लस्याभ्युपगमात्, न तु शब्दावाच्यं पुद्गलमभ्युपगच्छतीत्यर्थादवगम्यते, शब्दनयो हि व्यञ्जनपर्याय प्राधान्येनाभ्युपगच्छति, वैभाषिकोऽपि तथेत्यतोऽपि शब्दनयपक्षपातित्वमस्येत्याह-ज्ञानेति-ज्ञानार्थयोर्लक्षणसाधारणं यद् योगपद्यं तद्रूपो यो व्यञ्जनपर्यायस्तत्प्रधानत्वाच्च प्राधान्येन तदभ्युपगन्तृत्वाच्च वैभाषिकस्य शब्दनयपक्षपातित्वमवगन्तव्यं ज्ञातव्यमित्यर्थः / समभिरूढनयः शुद्धः, योगाचारमतमपि बाह्यार्थावगाहित्वलक्षणाशुद्धिविगमाच्छुद्धमिति शुद्धत्वेन योगाचारस्य समभिरूढनयपक्षपातित्वम् , एवम्भूतनयः शुद्धतरः, ज्ञानस्य साकारताऽप्यशुद्धिस्तदाभावादतिशुद्धं निराकारं निर्विषयक च ज्ञानं तदभ्युपगमगन्तृत्वान्माध्यमिकमतमपि शुद्धतरमतः शुद्धतरत्वेन माध्यमिकस्यैवम्भूतनयपक्षपातित्वमित्याह-योगाचारेति // 120 // शब्दा-ऽलङ्कारादीनां नयसंयोगजन्यत्वमित्यस्य यावन्तो वचनप्रकारास्तावन्तो नया इत्यस्य चोपदर्शकमेकविंशत्युत्तरशततमपद्यं विवृणोति-नयेतीति / "नानानयविवक्षायां" इत्यस्य स्थाने " नानानयविवक्षाया" इति पाठो युक्तः / अन्यथा शब्दा-ऽलवारादेः प्रथमतः प्रवृत्तौ नानानयविवक्षाया उपजीवनाभावे, नानानयविवक्षामनुपजीव्यापि प्रथमतः शब्दा-ऽलङ्कारादिप्रवृत्त्यभ्युपगमे इति यावत् / सार्वपार्षदत्वानुपपत्तेः सर्वपरिषझ्यवस्थितजनसम्बन्धित्वानुपपत्तेः, यद्येकनयजत्वमेव शब्दाऽलङ्कारादीनां स्यात् तदननुसरणकारिणामानन्दकारित्वं शब्दालङ्कारादीनां न भवेदतस्तेषां नयसंयोजत्वमेवेत्याशयः / अत एव शब्दाऽलङ्कारादीनां नयसंयोगजत्वादेव / मीमांसका अपीत्यस्य 'आद्रियमाणाः' इत्यनेन 'अपेक्षन्ते' इत्यनेन चान्वयः, द्रव्यपर्याययोः, सार्वेति- सार्वजनीन:- सर्वजनप्रसिद्धो यो मेदाभेदादिस्तदुपपत्तयेतत्सिद्धयर्थम् , व्यवहारनयमित्यस्य 'आद्रियमाणाः' इत्यनेनान्वयः / “बिभ्यन्तौ" इत्यस्य स्थाने "बिभ्यतीं" इति 'पाठो युक्तः, शब्दस्य व्यक्तौ शतरुपगमे व्यक्तीनामानन्त्याच्छक्तेरप्यानन्त्यं प्रसज्यते, यत्किञ्चिद्व्यक्तौ शब्दस्य शक्त्यभ्युपगमे तुं यत्रैव व्यक्ती पदस्य शक्तिस्तस्या एव व्यक्तेः पदादुपस्थितिर्न त्वन्यासां व्यक्तीनाम्, शाब्दबोधश्च व्यक्त्यन्तराणामपीत्युपस्थितिशाब्दबुद्धयोः समानविषयत्वप्रत्यासत्त्या कार्यकारणभावो न स्यादनुपस्थितव्यक्तौ शाब्दबोधस्य भावेन व्यतिरेकव्यंमिचारादित्येवमानन्त्य-व्यभिचाराभ्यां बिभ्यती व्यक्तिशक्तिं परित्यज्येत्यर्थः / जाती घटत्व-पटत्वादिसामान्ये / शक्तिव्युत्पत्तये घटपटादिशब्दशक्तिमहलक्षणशक्तिव्युत्पत्त्यर्थम् / सङ्गहनयं सामान्यरूपेण व्यक्तीनां सग्रहणादनुगमनात् सामान्यग्राहिसमहम् / चः समुच्चये। भाद्रियमाणा अपेक्षमाणाः। स्वमतप्रवृत्ती भेदाभेदसामान्याभ्युपगमप्रवणमीमांसाराद्धान्तप्रवृत्त्यर्थम् / नयसंयोममेव व्यवहार-सङ्ग्रहद्वयसंयोजनमेव / आदी प्रथमम् / नत्वेवं मीमांसामतस्य व्यवहार-सङ्ग्रहनयद्वयप्रकृति विरोधः, तत्र तस्थाशुद्धद्रव्यार्थिकनयप्रकृतिकत्वस्यैवाभिधानादित्यत आह-यत् त्विति / नामनिक्षेपा.