________________ 358 ... नयाभूततरङ्गिणी-तरङ्गिणीतरणिभ्यां समतो नयोपदेशः / ऋजुसूत्रादितः सौत्रान्तिकवैभाषिको क्रमात् / अभूवन् सौगता योगाचारमाध्यमिकाविति // 120 // नयामृत०-ऋजुसूत्रादित इति / ऋजुसूत्रादितः- ऋजुसूत्र-शब्द-समभिरूढवम्भूतेभ्यः, क्रमात् सौत्रान्तिको वैभाषिको योगाचारो माध्यमिकश्चेति चत्वारः, सौगता अभूवन्- उदपद्यन्त, एतेषां स्वरूपमेतेन काव्येन ज्ञेयम्"अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणेष्यते, प्रत्यक्षो नहि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः / / योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् // 1 // एतद्विशेषावगमपुष्पमदार्थिना तु मत्कृतलताद्वयं परिशीलनीयम् / अत्र वैभाषिकस्य शब्दनय तथाऽस्तु पार्थक्यबीजमस्त्वित्यर्थः / तथा च उक्तदिशा सग्रह-व्यवहाराभ्यां नैगमस्य पार्थक्ये च। तत एव नैगमादेव / स्वतन्त्रेतीति- स्पष्टार्थत्वादिदं पद्यं न व्याख्यायत इत्याह- स्पष्टार्थ इति / अत्र चाथै एतत्पद्यप्रसिद्धार्थे / प्रदर्शितन्यायेन अनन्तरोपदर्शितयुक्त्या / एकत्र एकस्मिन् धर्मिणि / उक्कार्थे सम्मतिवृत्तिस्वारस्यं दर्शयति- नैगम इति // 119 // ऋजुसूत्रादिपर्यायार्थिकनयचतुष्टयतो बौद्ध चतुष्टयस्य सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकाभिधस्य दर्शनानि जातानीत्यावेदकं विंशत्युत्तरशततमपयं विवृणोति- ऋजुसूत्रादित इतीति / ऋजुसूत्रादित इत्यस्य विवरणम्ऋजसुत्रशब्दसमभिरूढवम्भूतेभ्य इति / क्रमादिति * ऋजुसूत्रात् सौन्नान्तिकः, शब्दाद वैभाषिकः, समभिरूढाद योगाचारः,एवम्भूतान्माध्यमिक इत्येवं चत्वारः सौगताः-बौद्धाः, अभवन् उदपद्यन्तेत्यर्थः। सौत्रान्तिकादिपदं सौत्रान्तिकदर्शनादिपरम् / संक्षेपतश्चतुणा बौद्धानां स्वरूपमावेदयितुमाह- एतेषामिति- अनन्तरमुपदिष्टानां सौत्रान्तिकादीनां चतुर्णी बौद्धानामित्यर्थः / एतेन अनन्तरमेव वक्ष्यमाणेन / ज्ञानसमन्वितोऽर्थः यदैव ज्ञानं तदैव तद्विषयोऽर्थः / ज्ञानविषययोः समकालमेवोत्पत्तिरिति मतिमता सूक्ष्मबुद्धिशालिना, वैभाषिकेण वैभाषिकसंज्ञकेन बौद्धविशेषेण, इष्यते स्वीक्रियते, सौत्रान्तिकैः, सौत्रान्तिकाख्यैबौद्धविशेषैः, बाह्यवस्तुविसरः बाह्यवस्तुविषयकः, प्रत्यक्षः प्रत्यक्षात्मकबोधः, नाश्रितो नैव स्वीकृतः, वैभाषिकमते समानकालीनसामग्रीतो बाह्यवस्तु-तज्ज्ञानयोरुत्पत्तिरिति तयोविषयविषयिभावसम्बन्ध इष्यते, तेन निराकारमेव ज्ञानं तद्विषयकत्वात् तत्सिद्धिनिबन्धनम्, सौत्रान्तिकमते प्रथमक्षणे प्रत्यक्षकुद किं क्षणिकं स्वलक्षणाभिधेयं बाह्यवस्तु ततो द्वितीयक्षणे तन्नाशस्तदाकारज्ञानोत्पत्तिश्चेति तदाकारमेव ज्ञानं न तु तद्विषयकं तयोर्मिनकालत्वात् , किन्तु तदाकारं ज्ञानं तदन्तरेण न सम्भवतीति तदाकारज्ञानात् तस्य सिद्धिरित्यवमनयोर्विशेषः, योगाचारमतानुगैः योगाचारमतानुसरणशीलः, परा उत्कृष्टा बाह्यवस्त्वमावेन बाह्यवस्तुजन्यत्वाभावात् , साकारबुद्धिराश्रिता स्वीकृता, पूर्वपूर्वविज्ञानक्षणेनोत्तरोत्तां तत्तदाकारं विज्ञानं जायते, तस्य तत्तदाकारत्वं च वासनाविशेषबलादेव न बाह्यवस्तुबलादिति न तत्तदाकारबलाद् बाह्यवस्तुसिद्धिरुपेयत इति बाह्यवस्त्वभ्युपगन्तृत्व-तदनभ्युपगन्तृत्वाभ्यां साकारविज्ञानाभ्युपगन्त्रोरपि सौत्रान्तिक-योगाचारयोर्विशेषः। मध्यमाः माध्यमिकबौद्धविशेषमतानुयायिनः, कृतधियो निर्मलबद्धिमन्तस्स्वच्छामाकारविषयविषयिभावरहितामत एव परामुत्कृष्टां, संविदं बुद्धि, मन्यन्ते स्वीकुर्वन्तीत्यर्थः / विस्तरभयादत्र सौत्रान्तिकादीनामृजुसूत्रादिप्रकृतिकत्वपल्लवनं न क्रियते, किन्तु मत्कृतलताद्वये विस्तरेण तदुपपादनं समस्ति तदवलोकनीयं तद्विशेषाभिज्ञानार्थिनेति प्रन्थकृदुपदिशति-एतद्विशेषेति- एतस्य-अनन्तरमुपदर्शितस्य बौद्धमतचतुष्टये ऋजुसूत्रादि. पर्यायार्थिकनयचतुष्टयप्रकृति कत्वस्य यो विशेषोऽवान्तरवैलक्षण्यं तदवगमात्मकं यत् पुष्पमदं- मधु तदर्थिना- तदभिलाषुकेन, मल्कतलताद्वयं श्रीयशोविजयोपाध्यायनिर्मितलतानामकग्रन्थद्वयम् , परिशीलनीयं सर्वतोऽभ्यसनीयमित्यर्थः / ऋजुस्ननयाभ्युपगतक्षणिकात्मकपर्यायाभ्युपगन्तृत्वात् सौत्रान्तिकानामृजुसूत्रपक्षपातित्वस्य स्पष्टं प्रतीयमानत्वेऽपि वैभाषिकादीनां