________________ 325 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समझड़तो नयोपदेशः। इति, आख्यातासमानाधिकरणव्यवहितपरामर्शसमर्थसुबन्तपरामृष्टानां कर्मणां फलसंवन्धमात्रविधानोपपत्तौ नान्यत् कल्पयितुं युक्तम् , आख्यातसमानाधिकरणो हि मासमनिहोत्रमिति शब्दस्तत्परतन्त्रत्वान्न व्यवहितमित्यग्निहोत्रं परामृशति, यज्ञेनेत्यादिसुबन्तस्त्वाख्यातसमानाधिकरणो. व्यवहितपरामर्श समर्थ इति परमार्थः / ननु किमत्र पशुकामस्योद्भिञ्चित्रादिष्विव विविदिषादिकामस्य यज्ञादिषु भिन्नपाक्योपात्तत्वाद् विकल्पः ?,यथा-दध्यादीनामग्निहोत्रहोमे, उत स्वर्गकामस्याग्नेयादिष्विव समुच्चयः 1 इति चेत् ? अन त्वेकवाक्योपात्तत्वाद् दर्शादिवत् समुच्चयः / तत्र कथमेकवाक्यतेति विचार्यते- अर्थैकत्वा इति पाठो युक्तः, कल्पनायां तु वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोगमात्रविधिकल्पनायां पुनः, लाघवम् अतिरिकयज्ञादितत्फलविविदिषादिसंयोगविधिद्वयकल्पनापेक्षया वचनान्तरप्राप्तस्य यज्ञादिकर्मणः केवलविविदिषादिफलसंयोगविधिकल्पने लाघवं सुव्यकमेव, जीवातुः जीवनं प्रमाणसहकारीति यावत् / नन्वन्यत्रापि वचनान्तरप्राप्तस्यैव कर्मणः फलविशेषसम्बन्धमात्रविधानं लाघवादुपेयताम् , नेत्थं चेत् किमपि विनिगमकमुपदर्शनीयमित्यत आह-आख्यातेति- आख्यातासमानाधिकरणो व्यवहितपरामर्शसमर्थश्च यः सुबन्तस्तत्परामृष्टानामित्येवमन्वयगमनिका / मासमग्निहोत्रं जुहोतीत्यादौ, नेदं विनिगमकमतस्तत्र कर्मान्तरविधानमित्युपदर्शयति-आख्यातसमानाधिकरणो हीति-हि- यतः, मासमंग्निहोत्रमिति शन्द आख्यातसमानाधिकरणः, जुहोतीत्याख्यातपदप्रतिपाद्यहवनाभित्रमासाधिकरणकाग्निहोत्ररूपार्थकत्वात् तथा / कथमाख्यातसमानाधिकरण इत्यपेक्षायामाह- तत्परतन्त्रत्वादिति- जुहोतीत्याख्यातपरतन्त्रत्वात् , अत एवाग्निहोत्रमपि न व्यवहितमित्यव्यवहितस्याग्निहोत्रस्य परामर्शक मासमग्निहोत्रमिति शब्दो न व्यवहितपरामर्शसमर्थ इति निरुक्तविनिगमकाभावान तत्र फलसम्बन्धमात्रविधानं किन्तु कर्मान्तरस्यापि विधानमित्यर्थः / प्रकृते तु निरुक्कविनिगमकसत्त्वात् फलसम्बन्धमात्र. विधानमित्याह-यक्षेनेत्यादीति-"यक्षेनेत्यादिसुबन्तस्त्वाख्यातसमानाधिकरणो" इत्यस्य स्थाने "यज्ञेनेत्यादि. सुबन्तस्त्वाख्यातासमानाधिकरणो" इति पाठः समीचीनः, आख्यातपदमत्र विविदिषन्तीति, तत्प्रतिपाद्यं न यज्ञादि, किन्तु विविदिषेति आख्यातप्रतिपाद्यार्थाप्रतिपादकत्वाद् यज्ञेनेत्यादिशब्दस्याख्यातासामानाधिकरण्यम् , व्यवहितं यद् दर्श-पूर्णमासाभ्यां यजेतेत्यादिवचनप्रतिपाद्यं दर्शादि तस्य परामर्शे समर्थोऽपीति तत्परामृष्टानां दर्शादिकर्मणां फलसम्बन्धमात्रविधानम् / इति परमार्थः एवंस्वरूपोऽत्र वास्तविकोऽर्थः। ननु तमेतमिति वचने यज्ञेन दानेन तपसेत्यनेन फलान्तरजनकतया विहिताना दर्शादियश-दान-तपसामशेषाणां परामर्शे विविदिषादिकामस्तेषामन्यतमं कश्चनैकं यज्ञं दानं तपो वाऽनुतिष्ठन् विविदिषादिफलमासादयति किम् ?, यथाऽग्निहोत्रहोमं केनचिद् दध्यायेकेनानुतिष्ठन् तत्फलमासादयतीति विकल्पोऽत्राभिप्रेतः, किं वा स्वर्गकाम आनेयादिषट्कमनुतिष्ठन्नेव तत्फलमासादयति यथा, तथा विविदिषादिकामो यज्ञ-दानादिकं सर्वमनुतिष्ठलेव तत्फलमासादयतीति आग्नेयादिसमुच्चयवद् यज्ञ-दानादिसमुच्चयोऽभिप्रेतः ? इति प्रश्नयति-नन्विति / किमोत्यस्य विकल्प इत्यनेन समुच्चय इत्यनेन चान्वयः। उद्धिश्चित्रादिष्विवेति-"पशुकाम उद्भिदा यजेत [..] इति “पशुकामश्चित्रया यजेत" इत्यादिमिन्नवाक्योपात्तत्वाद् उद्भिद्याग-चित्रायागादिषु पशुकामस्य यथा विकल्प:- उद्भिद्याग-चित्रायागादीनां मध्यादेकमनुतिष्ठन्नपि पशुकाम इष्टफलमवाप्नोति तथा यज्ञेन दानेन तपसेति भिन्नवाक्योपात्तत्वाद् यज्ञादिषु विकल्प:यज्ञादीनां मध्यादेकमनुतिष्ठन्नपि विविदिषादिकाम इष्टफलमनुभवतीत्यर्थः। विकल्पे दृष्टान्तमाह-यथेति-अत्र “यथा वा" इति पाठो भवितुमर्हति / द्वितीयपक्षमावेदयति-उतेति। आग्नेयादिष्विवेति-दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र दशै- अमावास्यायां क्रियमाणं यज्ञत्रयं दर्शयाग इति कथ्यते, पूर्णिमायां क्रियमाणं यज्ञत्रयं पौर्णमासयाग. इति कथ्यते, ततः षड्भ्यो दर्शपौर्णमासनामधेयेभ्यो यागेभ्यः स्वर्गकामस्य स्वर्गो भवति, न तु तन्मध्यादेकैकस्मादामेयादियागात् स्वर्गफलमुपजायते, तत्र मीमांसकानामियं प्रक्रिया- दर्श क्रियमाणयागत्रयमध्यादेकैकस्माद् यागादेकमपूर्वमुत्पद्यत इति तदपूर्वत्रितयमझापूर्वमिति कथ्यते, समुदितेभ्यश्च त्रिभ्यो यागेभ्य एकमपूर्वमुत्पद्यते तदपूर्व प्रधानापूर्वमुच्यते, एवं पूर्णिमा क्रियमाणयागत्रयात् प्रत्येकमपूर्वत्रयमुपजायते तदपूर्वमङ्गापूर्वशब्दव्यपदेश्यम्, समुदिताच यागत्रयादेकमपूर्वमुपजायते तदपूर्व प्रधानापूर्वमुच्यते, आभ्यां च प्रधानापूर्वाभ्यां यज्ञान्तक्रियमाणदक्षिणादानजन्याजापूर्वसहकृताभ्यामेकमपूर्वमुज्जयते तदपूर्व परमापूर्वमुच्यते, तदेव परमापूर्व स्वर्गादिफलमुपजनयतीति स्वर्गादिफलं जनयित्वैव विनश्यतीति, एवं च स्वर्गकामस्या