________________ मयामृततरङ्गिणी-तरङ्गिणीतरणियों समतो गयोपदेशः। 55 न्याय:, संयोगो विधिस्तत्पृथक्त्वमेकस्योभयरूपत्वे हेतुरिति तदर्थः, सद्वि]दिह तत्तत्फलार्थान्यपि कर्माणि तमेतमित्यादिवचनाद् विविदिषार्थानि वेदनार्थानि वा दृष्टव्यानीति / कथं पुनरत्र प्रकरणान्तरन्यायेम न कर्मान्तरत्वम् , प्रकरणान्तरे ' प्रयोजनान्यत्वम् ' इत्यत्र ह्येतत् सिद्धम् , यत्र प्रकरणान्तरमनुपानेय. गुणश्च तत्र कर्मान्तरत्वम् , ' सायं प्रातर्जुहोति [ ] इत्यादौ ' यदाहवनीये जुहोसि' [कठश्रु-४] इत्यादौ [च] कर्मान्तरविधिवारणाय विशेषणद्वयम् , तदिह 'मासममिहोनं जुहोति' ___] इत्यत्रेवोभयसत्त्वात् कर्मान्तरत्वं दुर्वारमिति चेत् ?, उच्यते- न तावदन यज्ञादिसंबन्धो विधिः 'जुहोति' इतिवच्छ्रयते, येनापूर्व यज्ञादिर्विधीयते, कल्पनायां तु लाघवम् / ‘जीवातुः' कर्मादेरेकस्य / उभयरूपत्वे विभिन्नफलजनकतयोभयस्वरूपत्वे / हेतः एकमपि कर्म यद् विभिन्नफलजनकत्वेनोभयरूपं तद्विभिन्नफलविधायकविधिद्वैविध्यादेव / इति एवंस्वरूपः। तदर्थः संयोग-पृथक्त्वमिति न्यायस्यार्थः। उपसंहरति-तदितितस्मात् , एकस्य कर्मणो विधि-पृथक्त्वतो विभिन्नफलजनकत्वेनोभयरूपत्वात् / इह प्रकृते / तत्तत्फलार्थान्यपि प्रतिनियतस्वस्वफलार्थान्यपि / कर्माणि यज्ञादीनि कर्माणि / तमेतमित्यादिवचनात् तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यशेन तपसा कर्मणा नाशकेनेत्यादिवचनात् / ननु दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादीनि प्रतिनियतफलसम्बन्धबोधकप्रकरणगतानि, तमेतमित्यादिवचनानि तु ब्रह्ममात्रतत्त्वावबोधकप्रकरणगतानि, तथा च विभिन्न प्रकरणपठितत्वेन दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिविधिविहितदर्शादिकर्मभ्यो भिन्नान्येव तमेतमित्यादिविधिविहितकर्माणि विविदिषाद्यर्थानीति नैकस्योभयरूपत्वं संयोग-पृथक्त्वन्यायेनेति शङ्कते-कथं पुनरिति-अस्य न कर्मान्तरत्वमित्यनेनान्वयः, तथा च प्रकृते कर्मान्तरत्वं स्यादेवेत्यर्थः / प्रकरणान्तरन्यायेन कर्मान्तरत्वं कुत्र व्यवस्थापितमित्यपेक्षायामाह-प्रकरणान्तर इतिप्रकरणान्तरे 'प्रयोजनान्यत्वम्' इत्यस्य प्रकरणान्तरे प्रयोजनान्यत्वम् , इत्येवं चिह्नित उल्लेखः कर्तव्यः / इत्यत्र एवंस्वरूपमीमांसाधिकरणे / एतत् कर्मान्तरत्वम्, सिद्धं व्यवस्थापितम् / निरुक्ताधिकरणविचारमेवावेदयति-यत्रेति / प्रकरणान्तरमिति अनुपादेयगुणश्चेति विशेषणद्वयव्यावृत्तिमुपदर्शयति-सायमिति-"सायं प्रातर्जुहोति" इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति" इति पाठो युक्तः / एकस्मिन्नेव प्रकरणे सायं जुहोतीति प्रातर्जुहोतीति च पठितमस्ति, तत्र सन्ध्याकालीनहवनतः प्रातःकालीनहवने न कश्चिद् गुणोऽधिकोऽस्ति येन यदेव प्रातःकाले क्रियते हवनं तत्रैव गुणान्तरविधायक विध्यन्तरं स्यादतोऽनुपादेयगुणत्वात् प्रातःकालीनहवनतोऽन्यदेव सायंकालीनं हवनमित्येवं कर्मान्तरत्वं मा प्रसाक्षीदित्येतदर्थ-प्रकरणान्तरमिति,-" सायं प्रातर्जुहोति" इत्यस्य स्थाने " सायं जुहोति प्रातर्जुहोति " इतिपाठो युक्तः, एवं च प्रकरणान्तराभावादेकमेव हवनकालविकल्पस्तत्रेयाशयः। सायं जुहोतीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरण एव यदाहवनीये जुहोतीति पठितम् , तथा च प्रकरणान्तरत्वात् सायंकालीनहवनत आहवनीयाग्न्यधिकरणकवनस्य कर्मान्तरत्वं प्रसक्तमिति तद्वारणाय अनुपादेयगुणश्चेति द्वितीय विशेषणम् , एवं चाहवनीयाग्न्यधिकरणकत्वलक्षणो गुणोऽत्रोपादेय इत्यनुपादेयगुणत्वाभावान कर्मान्तरत्वम्, किन्तु यदेव हवनं सन्ध्याकालादौ क्रियते तत्रैवाहवनीयाधिकरणकत्वलक्षणो गुणो विधीयत इति / प्रष्टा स्वाभिप्रेतमुपसंहरति-तदिति-तत्- तस्मात् , प्रकरणान्तरपठितत्वादनुमादेवगुणत्वाच / इह प्रकृते, अस्य उभयसरवादित्यनेनान्वयः / मासमग्निहोत्रं जुहोतीत्यत्रवति- सायं जुहो. तीत्यादि यत्प्रकरणे पठितं तदन्यप्रकरणे मासमग्निहोत्रं जुहोतीति प्रकरणान्तरमस्ति, गुणान्तरं च न किञ्चिदुपादेयमित्यनुभादेयगुणश्चास्तीत्येवमुभयसत्त्वाद् यथा तस्य कर्मान्तरत्वं तथा दर्श-पूर्णमासंप्रकरणभिन्नप्रकरणगतत्वादनुपादेयगुणत्वाच्च समेतमित्यादिवचनविहितस्य यज्ञादिकर्मणः कर्मान्तरत्वं वारयितुमशक्यमित्यर्थः / समाधत्त-उच्यत इति / नत्रः श्रयत इत्यनेनान्वयः / " यज्ञादिसंबन्यो" इत्यस्य स्थाने " यज्ञादिसम्बद्धो" इति पाठो युक्तः / जुहोतीतिवदितिनुहोतीसत्र हुधात्वर्थहवनक्रियासंबद्ध आख्यातार्थविधिर्यथा वचनेन प्रतिपाद्यते न तथा तमेतमित्यत्र यज्ञादिसंबद्धो विधि. मंचनेन प्रतिपाद्यत इत्यर्थः / तर्हि वचनान्तरप्राप्तयज्ञादेर्विविदिषादिसंयोगमात्रविधिकल्पना कुतः समागतेत्यत आहकल्पनायां स्विति-"कल्पनायां तु लाघवम् / 'जीवातुः' इत्यस्य स्थाने " कल्पनायां तु लापवं जीवातः "