________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो गयोपदेशः / भूतोत्पत्तौ केषाश्चिन्मते तेभ्य एव पश्चीकृतभूतोत्पत्तौ संप्रदायमते च तेषामेव संयोगविशेषावस्थानां तत्त्वस्वीकारे तेभ्यो ब्रह्माण्डभूधरादिचतुर्दशभुवनचतुर्विधस्थूलशरीरोत्पत्तेः, अत एव सिद्धाभिधानात्. ___"तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद् द्विधा / मनो विमर्शरूपं स्याद् बुद्धिः स्यानिश्चयात्मिका // " सत्त्वांशानां प्रत्येकमसाधारणकार्याण्यभिधाय सर्वेषां साधारणं कार्यमाह-तैरिति-तैः सह- सत्त्वांशः सर्वैः सम्भूय वर्तमानरन्तःकरणबुद्धयुपादानभूतं द्रव्यमुपजायत इत्यनुषङ्गः, तस्यावान्तरभेदं सनिमित्तमाह- वृत्तीति- तदन्तःकरणं वृत्तिमैदेन- परिणामभेदेन, द्विधा- द्विप्रकारं भवति, वृत्तिभेदमेव दर्शयति- मन इति- विमर्शरूपं-विमर्शः संशयात्मिका वृत्तिः सा स्वरूपं यस्य तत् तथा, तन्मनः स्यात् , निश्चयात्मिका- निश्चयोऽध्यवसायः स आत्मा स्वरूपं यस्याः सा निश्चयाल्मिका वृत्तिर्बुद्धिः स्यात् // "रजोशैः पञ्चभिस्तेषां क्रमात् कर्मेन्द्रियाणि तु / वाक्-पाणि-पाद-पायूपस्थाभिधानानि जज्ञिरे // " क्रमप्राप्तानां रजोंऽशानां प्रत्येकमसाधारणकार्याण्याह- रजोशैरिति- तेषां-वियदादीनामेव, पञ्चभी रजोंशः- रजोभागैस्तूपादानभूतः, वाक्-पाणि पाद पायूपस्थाभिधानानि- एतन्नामकानि, कर्मेन्द्रियाणि- क्रियाजनकानि इन्द्रियाणि जज्ञिरे // "तैः सर्वैः सहितः प्राणो वृत्तिभेदात् स पञ्चधा। प्राणोऽपानः समानश्चोदान-व्यानौ च ते पुनः // " - रजोशानामेवं साधारण कार्यमाह-तैः सर्वैरिति - सहितः सम्भूय कारणतां गतः, प्राणो जायत इति शेषः, तस्यावान्तर. भेदमाह-वृत्तिभेदादिति- स प्राणो वृत्तिभेदात् प्राणादिव्यापारभेदात् पञ्चधा- पञ्चप्रकारको भवति, वृत्तिभेदानेव दर्शयतिप्राण इति, ते पुनः-से तु भेदाः प्राणादिशब्दवाच्या इत्यर्थः // “बुद्धि-कर्मेन्द्रिय-प्राणपञ्चकर्मनसा धिया / शरीरं सप्तदशभिः सूक्ष्म तल्लिङ्गमुच्यते // " - यदर्थमाकाशादिप्राणान्तानां सृष्टिरका तदिदानी दर्शयति-बद्धीति- बुद्धयो ज्ञानानि कर्माणि व्यापारास्तज्जनकानीन्द्रियाणि, बुद्धीन्द्रियाणि कर्मेन्द्रियाणि चेत्यर्थः, बुद्धिकर्मेन्द्रियाणि च प्राणश्च बुद्धिकर्मेन्द्रियप्राणास्तेषां पञ्चकानि तैः, मनसाविमर्शात्मकेन, धिया- निश्चयरूपया बुद्धया च सह, सप्तदशभिः-सप्तदशसंख्यकैः, सूक्ष्मशरीरं भवति, तस्यैव संज्ञान्तरमाहतल्लिामिति, उच्यते-वेदान्तेष्वित्यर्थः // एवं च पश्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रिय-पञ्चप्राण-मनो-बुद्धयेतत्सप्तदशसमष्टयात्मकलिङ्गशरीरात्मकापश्चीकृतभूतोत्पत्तावित्यर्थः / केषाधिन्मते केषाश्चिद् वेदान्तिप्रकाण्डानामाचार्याणां मते, एभ्य एव आकाशादिपञ्चसूक्ष्मभूतेभ्य एव, पञ्चीकृतभतो. त्पत्चाविति- एतत्तत्वप्रतिपादकं तत्त्वविवेकप्रकरणस्थं पद्यद्वयं क्रमेण वृत्तिसनाथमुपदर्यते "तद्भोगाय पुनर्नोग्यभोगायतनजन्मने / पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम् // 1 // " . एवं लिङ्गशरीरं तदुपाधिको तैजस-हिरण्यगौं च दर्शयित्वा स्थूलशरीराद्युत्पत्तिसिद्धये पञ्चीकरणं निरूपयितुमाहतद्भोगायेति- भगवान्- ऐश्वर्यादिगुणषट्कसम्पन्नः परमेश्वरः, पुनः-पुनरपि, तद्भोगाय-तेषां जीवानां भोगायैव, भोग्यभोगायतनजन्मने- मोग्यस्यानपानादेः, भोगायतनस्य जरायुजादिचतुर्विधशरीरजातस्य च जन्मने उत्पत्तये वियदादिकमाकाशादिभूतपञ्चकं प्रत्येकमेकैकं पञ्चीकरोति अपश्चात्मकं पञ्चात्मकं संपद्यमानं करोति // “द्विधा विधाय चैकैकं चतुर्धा प्रथम पुनः / स्वस्वेतरद्वितीयांशोजनात् पञ्च पञ्च ते // " . कथमेकैकस्य पञ्चपञ्चाकत्वमित्यत आह-द्विधेति-वियदादिकमेकैकं द्विधा द्विधा, तन्त्रेणोचारितो द्विधाशब्दः, विधायकृत्वा, भागद्वयोपेतं कृत्वेत्यर्थः पुनश्च-पुनरपि. प्रथम-प्रथमभागम् , चतुर्धा-भागचतुष्टयोपेतं विधायेत्यनुषज्यते. स्वस्वेतरद्वितीयांशैः-स्वस्मात् स्वस्मादितरेषां चतुर्णा चतुर्णा भूतानां यो यो द्वितीयः स्थूलो भागस्तेन तेन सह प्रथमप्रथमभागांशानां चतुणां चतुर्णा मध्ये एकैकस्य योजनात् ते वियदादयः प्रत्येकं पञ्च पञ्चात्मका भवन्तीति // . इत्थं पञ्चीकृतभूतोत्पत्तावित्यर्थः / संप्रदायमते च प्राचीनवेदान्तिमते पुनः / तेषामेव अपञ्चीकृतानामाकाशादिपञ्च. भूतानामेव / संयोगविशेषावस्थानां संयोगविशेषान्वितानाम् / तस्वस्वीकारे पञ्चमहाभूतत्वस्वीकारे / तेभ्यः पचमहाभूतेभ्यः / ब्रह्माण्डेति- एतत्प्रतिपादकं तत्त्वविवेकगतपद्यं सविवरणं यथा- " ..... "तेरण्डस्वत्र भुवनं भोग्यभोगाश्रयोद्भवः / हिरण्यगर्भः स्थूलेऽस्मिन् देहे वैश्वानरो भवेत् // " .....