________________ 318 नयामृततरङ्गिणी-तरक्षिणीतरणिभ्यां समलहतो नयोपदेशः / तेनान्योऽन्याध्यासाचिदचिदन्थिरूपोऽयमध्यासः समूहालम्बनभ्रमवदवश्यमत्रेतरेतराध्यासस्याभ्युपगन्तव्यत्वात् / अयमेव संसारो मायाशबलाञ्चिदात्मना आकाशादिक्रमेण लिङ्गशरीरात्मकापश्चीकृत स्वात्, यः परमानन्दरूपो न भवति नासौ परमप्रेमास्पदमपि, यथा घटः, तथा चायं परमप्रेमास्पदं न भवतीति न, तस्मात् परमानन्दरूपो न भवतीति न / नन्वात्मनि धिमामिति द्वेषस्योपलभ्यमानत्वात् प्रेमास्पदत्वमेवासिद्धम्, कुतः परप्रेमास्पदत्वमित्याशा तस्य दुःखसम्बन्धनिमित्तकत्वेनान्यथासिद्धत्वात् प्रेम्णश्चात्मन्यनुभवसिद्धत्वान्मैवमिति परिहरति-. मा न भूवमिति / हि- यस्मात् कारणादात्मनि विषये मा न भूवम्- अहं मा भूवमिति न, ममासत्त्वं कदापि मा भूत, किन्तु भूयासमेव सदा सत्त्वमेव मम भूयादित्येवंविधं प्रेमेक्ष्यते- सर्वैरनुभूयते. अतो नासिद्धिरित्यर्थः / तत्प्रेम्णः परमत्वप्रतिपादनपरमिदं पद्यम् "तत् प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि / अतस्तत्परमं तेन परमानन्दताऽऽत्मनः।"[ ] तपाख्यानं यथा- ननु मा भूत् स्वरूपासिद्धिः प्रेम्णः, परत्वे भानाद् विशेषणासिरितोरित्याशमाह- तत्प्रेमेति, अन्यत्र- स्वातिरिके पुत्रादौ, यत् प्रेम तद् आत्मार्थम् , तेषामात्मशेषत्वनिमित्तकमेव न स्वाभाविकम् , एवमात्मनि विद्यमानं . प्रेमान्यार्थ न.. आत्मनोऽन्यशेषत्वनिमित्तकं न भवति, किन्त्वात्मत्वनिमित्तकमेव, अतो निरुपाधिकत्वात् तत् परमं निरतिशयम् / फलितमाह- तेनेति- तेन निरतिशयप्रेमास्पदत्वेनात्मनः परमानन्दता निरतिशयसुखस्वरूपत्वं सिद्धम् // . ... पति-जायादीनां सर्वेषामात्मभोगार्थत्वादात्मन एव परमप्रेमास्पदत्वमित्यत्रेदमपि तृप्तिदीपप्रकरणगतं पद्यं साक्षिभावमाश्रयति पति-जायादिकं सर्व तत्तद्भोगाय नेच्छति / किन्त्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु // 1 // " - एतव्याख्यानं यथा- नन्वात्मनो भोकृत्वप्रतिषेधस्तत्प्रसक्तिपूर्वको वक्तव्यः, सा तु न विद्यत असावादात्मन इत्या शाय तस्याः स्वानुभवसिद्धत्वान्मवमित्यभिप्रेत्य तदनुवादिकां श्रुतिमर्थतोऽनुकामति- पतिजायेति- " नवा पत्युः कामाय पतिः प्रियो भवति" इत्यारभ्य “आत्मनस्तु कामाय सर्व प्रियं भवति" इत्यन्तन [ ] वाक्यसन्दर्भण : पति-जायादिकस्य प्रपञ्चस्यात्मनो भोगायतनत्वं प्रतिपाद्यते. तत आत्मनो मोक्रत्वप्रसक्तिरित्यर्थः // तेनेति-चैतन्येऽहवारादेः, अवारादौ चैतन्यस्य चाध्यासेनेत्यर्थः। अन्योऽन्याभ्यासात् परस्पराध्यासात् / चिदचिन्थिरूपोऽयमध्यासः अयमनन्तराभिहितोऽन्योऽन्याध्यासः, आत्मा चित्, अहवारादिकमचित्, तयोप्रन्थिरूपोऽतिकठिनबन्धरूपः, चैतन्येऽहकारादेरध्यासो भ्रमोऽहङ्कारादौ चैतन्याध्यासोऽपि भ्रमः, सोऽयं भ्रमद्वयात्मकः समूहालम्बनम्रमवदवश्यमेषितव्य इत्याह-समूहालम्बनेति। अयमेव संसार चिदचिद्वन्धिरूपो योऽयमध्यासोऽनन्तरमुपदर्शितः स एव संसारः, तत्र कस्य कुत उत्पत्तिर्यतोऽयं विस्तृतस्वरूपश्चकारतीत्यपेक्षायामुत्पत्तिकममुपदर्शयति-मायाशबलादिति- मायासमन्वितादित्यर्थः। “चिदात्मना" इत्यस्य स्थाने " चिदात्मनो" इति पाठः समुचितः / आकाशादिक्रमेणेति-मायासंवलिताच्चिदात्मन आकाशः सम्भूतः, आकाशाद् वायुस्सम्भूतः, वायोस्तेजस्सजातम् , तेजसो जलमुत्पन्नम् , जलात् पृथिवी समुत्पनेत्येवं क्रमेणेत्यर्थः। लिङ्गशरीरात्मकापञ्चीकृतभूतोत्पत्ताविति- एतत्तत्वावबोधनाय पश्चदशीगततत्त्वविवेकप्रकरणस्थानि कानिचित् पद्यानि सव्याख्यानान्युपदर्यन्ते "तमःप्रधानप्रकृतेस्तद्भोगायश्वराज्ञया। वियत्-पवन-तेजो-ऽम्बु-भुवो भूतानि जज्ञिरे // " क्रमप्राप्त सूक्ष्मशरीरं तदुपाधिकं जीवं व्युत्पादयितुं तत्कारणाकाशादिसृष्टिमाह-तमःप्रधानेति- तेषां प्राज्ञानां भोगायसुख-दुःखसाक्षात्कारसिद्धये, तमःप्रधानप्रकृतेः- तमोगुणप्रधानायाः प्रकृतेः पूर्वोकाया उपादानकारणभूतायाः सकाशादीश्वराशया-ईशनादिशक्तियुक्तस्य जगदधिष्ठातुराज्ञया ईक्षापूर्वकसर्जनेच्छारूपया निमित्तकारणभूतया वियदादिपृथिव्यन्तानि पञ्च भूतानि जज्ञिरे-प्रादुर्भूतानि, उत्पन्नानीत्यर्थः / "सत्त्वांशः पञ्चभिस्तेषां क्रमादीन्द्रियपञ्चकम् / श्रोत्र-त्वगक्षि-रसन-घ्राणाख्यमुपजायते // " भूतसृष्टिमभिधाय भौतिकसृष्टिमभिदधान आदौ ज्ञानेन्द्रियसृष्टिमाह-सत्त्वांशैरिति-तेषां वियदादीनां पञ्चभिः सत्त्वांश:सत्त्वगुणभागैरुपादानभूतैः, श्रोत्र स्वगक्षि-रसन-घ्राणाख्यधीन्द्रियाणि ज्ञानेन्द्रियाणि तेषां पञ्चकं क्रमादुपजायते, - एकैकभूतसत्वांशादेकैकमिन्द्रियं जायत इत्यर्थः // .