________________ 294 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। अत एवोक्तां निक्षेप-नययोजनां सम्प्रदायशुद्धिमनुरुध्य निगमयन्नाह-... तस्माद् यथोक्तनिक्षेपविभागो भाष्यसम्मतः। इतीयं मुहुरालोच्या, निक्षेप-नययोजना // // 109 // नयामृत-तस्मादिति / स्पष्टम् // 109 // उक्ता निक्षेप-नययोजना / अथ दर्शन-नययोजनामभिधित्सुराह जातमित्यादिना जातं द्रव्यार्थिकाच्छुद्धाद्, दर्शनं ब्रह्मवादिनाम् / तत्रैके शब्दसन्मात्र, चित्सन्मात्रं परे जगुः // 110 // नयामृत-शुद्धाद् द्रव्यास्तिकाद् ब्रह्मवादिनां दर्शनं जातम् , तदाह वादी-" दवट्ठियणयपयडी सुद्धा संगहपरूवणाविसउ" [ सम्मतिकाण्डगाथा- त्ति, तत्रैके ब्रह्मवादिनः शब्दसन्मात्रमिच्छन्ति, अन्ये च चित्सन्मात्रम् / तत्राद्यमतावलम्बी शब्दस्वभावं ब्रह्म सर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिरित्यभ्युपैति, तदाह तदभियुक्तो भर्तृहरिः-.. . .. .......... . . " अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् / विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः // 1 // " [ . .. ] इति / ... अस्यार्थः-' आदिः-उत्पादः, निधनं-विनाशः, तदभावादनादिनिधनं ब्रह्म, शब्दतत्त्वं-शब्दात्म नवोत्तरशततमपद्यमवतारयति-अत एवेति- साम्प्रदायिकानां सम्प्रदायविरोधाद् भयभीतत्वादेवेत्यर्थः / उकाम अनन्तरमेव व्यावणिताम् / स्पष्टत्वाद् व्याख्यानस्याकरणीयत्वेऽपि पूर्वापरपद्यव्याख्यानसन्दर्भेकीकरणार्थ प्रतीकं गृहाति-तस्मा दितीति / पदार्थस्य सुगमावबोधान्न व्याख्यानापेक्षेत्याशयेनाह- स्पष्टमिति // 19 // ___ दशोत्तरशततमपद्यमवतारयति- उक्तति- येन नयेन यस्य निक्षेपस्याभ्युपगमस्तेन नयेन तस्य निक्षेपस्याभ्युपगमोपदर्शनलक्षणा निक्षेपनययोजनाऽभिहितेत्यर्थः। अथ निक्षेपनययोजनाभिधानानन्तरम् / दर्शन-नययोजनाम् अनेन नयेनास्य दर्शनस्य प्रवृत्तिरित्येवंस्वरूपां दर्शन-नययोजनाम् / अभिधित्सुः वक्तुमिच्छुर्मूलकारः / आह कथयति / विवृणोतिशुद्धादिति / द्रव्यार्थिकादित्यस्य विवरणं-द्रव्यास्तिकादिति / शुद्धद्रव्यास्तिकसङ्ग्रहनयप्रसूतं. ब्रह्मवादिदर्शनमित्यत्र सम्मतिकृतो वचनं प्रमाणयति-तदाहेति / वादी श्रीसिद्धसेनदिवाकरः। दव्वट्रियं इति- “द्रव्यार्थिकनयप्रकृतिः शुद्धा सङ्गप्ररूपणाविषयः" इति संस्कृतम् / तत्र सङ्ग्रहनयावलम्बनप्ररूपणप्रवृत्तानां ब्रह्मवादिनां मध्ये / अन्ये च शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिभिन्ना ब्रह्मवादिनः पुनः। तत्र शब्दसन्मात्राभ्युपगन्तृ-चित्सन्मात्राभ्युपगन्तृब्रह्मवादिनोर्मध्ये / आद्यमतावलम्बी शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बी, अस्य 'अभ्युपैति' इत्यनेनान्वयः / शब्दस्वभावमितिसर्वेषां शब्दानां सर्वेषां चार्थानां प्रकृतिः-मूलकारणं शब्दस्वभावं- शब्दात्मकं ब्रह्मेत्येवमभ्युपैति- स्वीकरोति, शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बीत्यर्थः / उक्तार्थे भर्तृहरिवचनं प्रमाणयति-तदाहेति / तदभियुक्तः शब्दसन्मात्राभ्युपगन्तृब्रह्मवादिमतावलम्बिनामाप्तः। अस्यार्थः अनन्तरमभिहितस्य "अनादिनिधनम्" इत्यादिपद्यस्यार्थः, उपदर्यत इति शेषः। आदिश्च निधनं चादिनिधने, न विद्यते आदिनिधने यस्य, तदनादि निधनमिति समासः, तदर्थ प्रत्येकसमास. घटकपदार्थकथनद्वारा स्पष्टयति- आदिरिति। तदभावात् उत्पादविनाशयोरभावात् / शब्दतत्वमित्यस्य विवरणंशब्दात्मकमिति / वैखरी-मध्यमा-पश्यन्तीभेदेन शब्दस्य त्रैविध्यम्, तत्र वैखरी स्पष्टा, यतो व्यवहारप्रवृत्तिः, मध्यमाऽन्तर्गता, याऽन्तर्मुखजल्पाकारा नोच्चारणपथमुपगच्छति, अथापि किञ्चिद् विचारयति पुरुषस्तत्र सर्वत्र ज्ञानस्वरूपसन्निविष्टा, पश्यन्ती त्वत्यन्तसूक्ष्मा निर्विकल्पकज्ञानस्वरूपसन्निविष्टा, इत्थं त्रिविधेन शब्देन प्रत्येकं सर्वार्थब्यापनाद् व्यापकस्य ब्रह्मणस्तत्स्वरूपत्वमुपपद्यतेतरामित्याशयेनाह- वैखर्यात्मकशब्देनैवेति- सर्वेऽप्यर्थाः शन्देनोलिख्यामानाः सन्त एव व्यव