________________ % 3D 286 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः / "भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात्। स्वात्मन्येव परं यत् स्थापनमिह वचननीयोचः // 1 // बीजमिदं परमं यत् परमाया एव समरसापत्तेः / स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया" // 2 // ] इति / ___ नन्वेवं निश्चयतः स्थापनाया आत्मगतायाः प्राप्तौ प्रतिमायां तद्व्यवहारः कथम् 1 अत आहबिम्बे च सा- स्थापना, उपचारत:- स्वात्मनि स्थापितस्य भावस्यालम्बनतया समापत्तिविषयीक्रियमाणस्य परमात्मनः साकारयोगमुद्रानुकारितया वा लक्षणयैवेत्यर्थः // 102 // नन्वेवं यजमानगतादृष्टमेव प्रतिष्ठाफलं भवद्भिपपादितम् , तावता वन्दक-पूजकादीनां का सिद्धिः? सा हि तदा स्यात् यदि प्रतिष्ठाहित चाण्डालादिस्पर्शनाश्य-पूजाफलप्रयोजकः कश्चिदतिशयोऽभ्युपगतः परम्परया सम्बन्धस्तेन सम्बन्धेन “एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयति" इति न्यायबलात् स्मारितः स्वभावः स्थाप्यत इत्यर्थः। उक्कार्थसामनोपोदलकं प्राचीनपद्यद्वयमुपदर्शयति-तश्चेति- उक्कार्थसङ्गमनं चेत्यर्थः / देवतोदेशात स्वात्मन्येव निजमावस्यैव प्रतिष्ठा खलु भवतीत्यन्वयः, परं किन्तु, यत् यस्मात् कारणात स्थापनम् , इह प्रतिमायाम् , उौः परम्परया, पचननीत्या तीर्थकरवचनोपदर्शितनीया, भवतीति शेषः // 1 // यत् स्थाप्येन परमाया एव समरसापत्तेः परमं बीजमपीदं हन्त तत् एषैव मुख्येति विज्ञेयेति सम्बन्धः, यत् यस्मात् कारणात् , स्थाप्येन जिनेन सह, परमाया 'उत्कृष्टायाः, समरसापत्ते: एकस्वभावतायाः, परमं बीजमपि उत्कृष्टं निमित्तमपि, इदं जिनवचनम् . तत् तस्मात् कारणात्, एषैव स्थाप्येन सह प्रतिष्ठाकारयितुरुत्कृष्टसमरसापत्तिरेव, मुख्या स्थापनेति ज्ञातव्येत्यर्थः // 2 // 'बिम्बे सा चोपचारतः' इति तुरीयचरणं व्याख्यातुमवतारयति-नन्वेवमिति / एवम् उक्कप्रकारेण / निश्चयतः निश्चयनयतः। तद्वयवहारः स्थापनाव्यवहारः। बिम्बे चेति-प्रतिमायां चेत्यर्थः। सेत्यस्य विवरणं-स्थापनेति / उपचारतः इत्यस्य विवरण-लक्षणयैवेति / तत्र वैकल्पिकं निमित्तद्वयं क्रमेणोपदर्शयति-स्वात्मनि स्थापितस्य भाषस्यालम्बनतयेति-अस्य लक्षणयवेत्यत्रान्वयः, स्वात्मनि प्रतिष्ठाकारयित्रात्मनि, स्थापितस्य प्रतिष्ठाविधिना स्थापितस्य, भावस्य स्थाप्यजिनभावस्य, आलम्बनतयेति-जिनप्रतिमामालम्ब्यैव जिनप्रतिमया समं परम्परासम्बन्धेन सम्बदस्य जिनस्वभावस्य स्मारितस्य स्थापना भवतीत्येवमालम्बनतयेत्यर्थः / समापत्तिविषयीक्रियमाणस्य तात्स्थ्यतदखनत्वान्यतरलक्षणसमापत्त्या विषयीक्रियमाणस्य, परमात्मनः जिनस्य, साकारयोगमुद्रांनुकारितया साकारा या योगमुद्रा तस्या अनुकारिणी जिनप्रतिमा भवतीति तदनुकारितया // 10 // युत्तरशततमपद्यमवतारयति-नन्वेवमिति / तावता यजमानगतादृष्टलक्षणप्रतिष्ठाफलोपपादनेन / बन्दकपूजकादीनां प्रतिमावन्दनकर्तृ-प्रतिमापूजनकर्तृप्रभृतीनाम् / का सिद्धिः ? न काचित् सिद्धिः / सा वन्दनक-पूजकादीनामपीष्टसिद्धिः। हि यतः / प्रतिष्ठाहितः- प्रतिष्ठाजनितः, चाण्डालादिस्पर्शनाश्यः- चाण्डाल प्रभृत्यस्पृश्यजातिस्पर्शजन्यनाशप्रतियोगी, पजाफलप्रयोजकः पूजेत्युपलक्षणं वन्दनदर्शनस्तुत्यादीनामपि, पूजादिजन्यफलस्य प्रयोजकः, कश्चित् अनिर्वचनीयः शक्यादिशब्दवाच्यो वा, अतिशयः अप्रतिष्ठितप्रतिमाव्यावृत्तधर्मविशेषः प्रतिमागतः, अभ्युपगतः स्यात् वीकृतो भवेत् / “प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिना" इत्यस्य स्थाने "प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादीनां" इति पाठो युक्तः / इत्थमेव प्रतिष्ठया प्रतिमागतातिशयविशेषाभ्युपगमे सत्येव / ननु प्रतिष्ठया यजमानगतमदृष्टमेतादृशमेवोपजायते यत् प्रतिष्ठितप्रतिमावन्दन-पूजन-नत्यादिकर्तृणां फलविशेषमुपजनयतीत्याशा प्रतिक्षिपति-न चेति / तदाहितं प्रतिष्ठाक्रियाजनितम् / तथा प्रतिष्ठितप्रतिमावन्दनादिकर्तृणां फलविशेषजनकम् / निषेधे हेतुमाह-चाण्डालादिस्पर्शनेतिचाण्डालादिस्पर्शः प्रतिमागतः, अदृष्टं च यजमानगतमिति यजमानगतादृष्टस्य, व्यधिकरणेन विभिन्नाधिकरणवृत्तिना चाण्डालादिस्पर्शेन यजमानगतादृष्टस्य नाशासम्भवात् , तथा च प्रतिमायां चाण्डालादिस्पर्शे जातेऽपि तन्दनादिकर्तुणां यजमानगतादृष्टबलात् फलविशेषः स्यादेवेति तदानीमपि प्रतिमायां पूजनीयत्वादिकं स्यादेवेत्यर्थः / किच्छ यजमानगतं यदष्ट