________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। शयस्य वा विधायिनी / न च स्थापनाविषये उत्कटतरे दोषे प्रतिसन्धीयमाना [ इति शेषः, ] स्थाप्य. स्थापकभावना फलवतीति शेषः, तथा च द्रव्यलिङ्गिदर्शनादपि न भावसाधुगुणाननुस्मृतिरेव, तन्नियामकप्रायिकसादृश्यरजोहरण-गोच्छक-पतद्ब्रहादिरूपस्य तस्याबाधित्वात् , किन्तूत्कटदोषवत्त्वेन प्रतिसन्धीयमानस्य सादृश्याद् गुणवदनुस्मृतिः सूत्रबोधितबलवदनिष्टानुबन्धिकैव इति न यथोक्तविशेषणविशिष्टं स्थापनालक्षणं तत्रेत्युक्तं भवति, अत एव वन्दनकनियुक्तो"तित्थयरगुणा पडिमासु णत्थि णिस्ससंयं वियाणंतो। तित्थयर त्ति णमन्तो सो पावइ णिजरं विउलं॥१॥ लिंगं जिणपण्णत्तं एव णमंतस्स णिज्जरा विउला / जइवि गुणविप्पहीणं वंदइ अझप्पसोहीए // 2 // " [ आवश्यके गा० 1142-43] शानम्, तस्मिन् सति अपरसम्बन्धिनः स्थाप्यस्य स्मृतितिरिति नियमबलेन स्थापनाज्ञानात् स्थाप्यस्मृतिः, ततश्च स्थाप्ये भावे आदरो भवतीत्येवं स्थापनाधीः स्थाप्यस्मृतिद्वारा भावादरस्य विधायिनीत्यर्थः। भावादरः को यस्य विधायिनी स्थापनाधीरित्यपेक्षायामाह-भावादरस्येति- अस्य विवरण-स्थाप्यगतगुणप्रणिधानोद्रेकस्य तजनितनिर्जरातिशयस्य वेति-स्थाप्यो भावस्तद्गतो यो गुणस्तत्र यत् प्रणिधानं चित्तस्यैकाग्रीकरणं तस्य य उद्रेकोऽतिशयितता तस्य, अस्य विधायिनीत्यनेन सम्बन्धः, वा अथवा, तजनित:-स्थाप्यगतगुणप्रणिधानोद्रेकजनितो यो निर्जरातिशयः- कर्मपुद्गलपरिशाटातिशयस्तस्य विधायिनी स्थापनाधीर्यतोऽतोर्हत्प्रतिमायामहतो धीरेवोक्तस्वरूपस्थापनया निरुतफलवतीत्यर्थः / द्रव्यलिङ्गिनि स्थापनया भावसाधोर्नि फलवतीत्युपदर्शयति-न चेति- अस्य फलवतीत्यनेन शेषविषयेणान्वयः / मूले उत्कटतरे दोषे इत्यस्ति विषयस्तु नोपात्त इत्यतो विषयोल्लेखेन योजयति-स्थापनाविषये उत्कटतरे दोषे इति- सति सप्तमीयम् / गुणवत्यपि. स्थाप्ये स्थाप्य-स्थापकभावनाऽप्रबुद्धा न तत्स्मृतिजनिकेत्यतो न तस्या अपि फलवत्त्वमिति स्थाप्ये उत्कटतरदोषे भवतु अप्रबुद्धायाः स्थाप्यस्थापकभावनायाः फलवत्त्वाभावो न स दोषावह इत्यतः स्थाप्यस्थापकभावनां विशिनष्टि-प्रतिसन्धीयमानेति / स्थापनाविषये स्फुटतरदोषे सत्यपि प्रतिसन्धीयमाना स्थाप्यस्थापकभावना भवत्येवेति न तनिषेधः कर्तुं शक्य इत्यत आह-फलवतीति शेष इति, तथा च यादृशं फलमत्राभिप्रेतं तादृशफलं निरुक्तस्थाप्यस्थापकभावनाया न सम्भवतीति तादृशफलवत्त्वेन तस्या निषेधो युक्त इत्याशयः / सूत्रबोधितेत्यादि स्थापनालक्षणं यत् प्रागुपदर्शितं तदेवोक'पंद्येन मूलकर्तुरभिमतम् , तदभावाच्च द्रव्यलिङ्गिनि भावसाधोः स्थापनाया न स्थापनात्वमित्युपदर्शयति-तथा चेति-स्थापनाविषये उत्कटतरदोषे सति प्रतिसन्धीयमानायाः स्थाप्यस्थापकभावनायाः फलवत्त्वाभावे व्यवस्थिते चेत्यर्थः / न भावसाधगुणा ननुस्मृतिरेवेत्यत्र निषेधद्वयतो भावसाधुगुणानुस्मृतिर्भवत्येवेत्यर्थः प्रतीयते / कुतो द्रव्यलिङ्गिदर्शनादपि भावसाधुगुणानुस्मृति- भवत्येवेत्याकाङ्खायामाह-तन्नियामकेति-"तन्नियामकप्रायिकसादृश्यरजो" इत्यस्य स्थाने "तन्नियामकप्रायिकसादृश्यस्य रजो" इति पाठो युक्तः, तन्नियामकप्रायिकसादृश्यस्य- भावसाधुगुणानुस्मृतिनियामकस्य भावसाधुना समं कतिपयधर्मप्रयुक्तसादृश्यस्य, किंरूपस्य तस्येत्यपेक्षायामाह- रजोहरणेत्यादि / " तस्याबाधित्वात्" इत्यस्य स्थाने " तत्राबाधित्वात् " इति पाठः सम्यक्, द्रव्यलिङ्गिनि निरुतसादृश्यस्य बाधितत्वाभावादित्यर्थः / पृच्छति-किन्विति / उत्तरयति-उत्कटेतिपार्श्वस्थादिव्यलिजयप्युत्कटदोषवत्त्वेन प्रतिसन्धीयमानोऽतस्तस्य यनिरुतसादृश्यं तस्माद् या गुणवद्धावसाधुस्मृतिः सा सूत्रबोधितफलवदनिष्टानुबन्धिकैव न तु सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताका, इति एतस्मात् कारणात् , यथोक्तविशेषणविशिष्ट स्थापनालक्षणं सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतगतगुणस्मृतिजनकसंस्कारोद्बोधकाभिप्राया-ऽऽकारान्यतरसम्बन्धवत्त्वखरूपं स्थापनालक्षणम्, न तत्र द्रव्यलिङ्गिनि भावसाधुस्थापनायां न भवति, इति एवं खरूपम्, उकं भवति “सा हि स्थाप्यस्मृतिद्वारा" इत्यादिपद्येन प्रतिपादितं भवति। उक्तार्थोपो(लकं प्रश्न-प्रतिविधानाभ्यां प्रवृत्तं वन्दनकनियुक्तिमतं गाथाकदम्बकं संवादकतयोपदर्शयति-अत एवेति- अर्हत्प्रतिमायामहतो धीः स्थापनया भावादरविधायिनी भवति, उत्कटतरदोषवति द्रव्यलिङ्गे स्थापनया भावसाधुधीर्भावादरविधायिनी न भवतीति विशेषादेवे.त्यर्थः। तित्थयर० इति- “तीर्थकरगुणाः प्रतिमासु न सन्ति निःसंशयं विजानन्तः। तीर्थकर इति नमन्तः प्राप्नुवन्ति