________________ 278 नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः। कम्-सिद्धान्तवचनमनुल्लङ्घयाक्षादावेवाभिप्रायसम्बन्धं प्रतिमादावेव चाकारसम्बन्धं पुरस्कृत्य स्थापनाऽऽद्रियते, अन्यतः- अन्यस्थले च नामनिक्षेप इति कातिप्रसङ्गः ? तथा च सूत्रबोधितबलवदनिष्टाननु. बन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोबोधकाभिप्रायाऽऽकारान्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमिति फलितं भवति // 99 // उक्तविशेषप्रयोजनमेवोपदर्शयितुमाह अत एव न धीरर्हत्प्रतिमायामिवार्हतः / भावसाधोः स्थापनया, द्रव्यलिङ्गिनि कीर्तिता // 10 // नयामृत-अत एवेत्यादि / अत एवोक्तविशेषणनिवेशध्रौव्यादेव, अर्हत्प्रतिमायामहंत इव, द्रव्यलिङ्गिनि-प्रकटप्रतिषेविणि पार्श्वस्थादौ, स्थापनया भावसाधोर्धी सिद्धान्ते न कीर्तिता // 10 // कुत इत्याह सा हि स्थाप्यस्मृतिद्वारा, भावादरविधायिनी। ... न चोत्कटतरे दोषे, स्थाप्य-स्थापकभावना // 101 // नयामृत-सा हि- स्थापनाधीहि, स्थाप्यस्मृतिद्वारा- एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मृतिरिति नियमविधया स्थाप्यस्मृतिव्यापारेण, भावादरस्य- स्थाप्यगतगुणप्रणिधानोद्रेकस्य तजनितनिर्जरातिस्थापनात्वापत्तरित्याशङ्कायामाह- यदिति- यस्मात् कारणादित्यर्थः / श्रुतोकमित्यस्य विवरणं-सिद्धान्तवचनमिति / अनुल्लवयेति अभिप्रायाकारयोगतः इत्यस्याप्यन्वयं समालम्ब्य विवरणम्- अक्षादावेवाभिप्रायसम्बन्धं प्रतिमा दावेव चाकारसम्बन्धं पुरस्कृत्येति। अनुल्ल येत्यस्य समानकर्तृकक्रियान्तरसाकासवादाद्रियत इति पूरणम् , अन्यत इत्यस्य विवरणम्- अन्यस्थले चेति / नामेत्यस्य विवरण- नामनिक्षेप इति / इति एवमुपगमे / कातिप्रसङ्गः? . अतिप्रसाजो न भवतीत्यर्थः / एतावता स्थापनायाः किं लक्षणं निष्टङ्कितं भवता येनातिप्रसङ्गस्तस्य न स्यादित्यपेक्षायामाहतथा चेति-सिद्धान्तवचनं पुरस्कृत्य स्थापनाया आदरणे चेत्यर्थः / सुत्रबोधितेति-सूत्रंबोधितो यो बलवदनिष्टाननुबन्धीष्टसाधनताकस्तद्गतगुणस्मृतिजनकसंस्कारोद्बोधकोऽभिप्राय आकारश्च तदन्यतरसम्बन्धवत्त्वं तत्स्थापनात्वमित्येवं स्थापनालक्षणं निष्कृष्टं भवतीत्यर्थः, यस्य स्थापनात्वं यस्मिन् सङ्गमनीयं तत् तद्गतगुणेत्यत्र तत्पदेन प्राह्यम्, तन्नामादावभिप्रायश्च न बलवदनिष्टाननुबन्धीष्टसाधनताकत्वेन तद्वतगुणस्मृतिजनकसंस्कारोद्बोधकतया सूत्रबोधित इति नोक्तलक्षणस्य नामादावतिव्याप्तिरित्याशयः // 99 // शततमपद्यमवतारयति- उक्तविशेषप्रयोजनमिति- बलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोदोधनलक्षणप्रयोजनमित्यर्थः / विवृणोति- अत एवेत्यादीति / अत एवेत्यस्य विवरणम् - उक्तविशेषणध्रौव्यादेवेतिअभिप्रायाऽऽकारान्यतरसम्बन्धे सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृतिजनकसंस्कारोद्बोधकत्वविशेषणनिवेशस्यावश्यकत्वादेवेत्यर्थः। अहत्प्रतिमाया अर्हत इवेति- अर्हत्प्रतिमायामहतो धीर्यथा सिद्धान्ते कीर्तिता तथेत्यर्थः / द्रव्यलिविनीत्यस्य विवरणं-प्रकटप्रतिषेविणि पार्श्वस्थादाविति / स्पष्टत्वादन्यन्न व्याख्यातम् // 10 // एकोत्तरशततमपद्यमवतारयति-कुत इति- अर्हत: प्रतिमायामहतो धीः स्थापनया सिद्धान्ते कीर्तिता, द्रव्यलिङ्गिनि स्थापनया भावसाधो(सिद्धान्ते न भणितेत्येतद्वैलक्षण्यं कुत इत्यर्थः / विवृणोति-सा हीति, अस्य विवरणं-स्थापनाधीहीति / स्थाप्यस्मृतिद्वारेत्यस्य विवरणं-स्थाप्यस्मृतिव्यापारेणेति, एतस्योपोदलकं च- एकसम्बन्धिवाने परसम्बन्धिस्मृतिरिति नियमविधयेति-स्थाप्य स्थापनयोः स्थाप्यस्थापनभावसम्बन्ध इति स्थापनाज्ञानमेकसम्बन्धि