________________ 213 श्लो० 542-599 ] वैराग्यरतिः। पुरे तेनैकाक्षवासे प्रेषितोऽहं ततश्च तौ / तीव्रमोहोदयात्यन्ताबोधावाकारितौ द्रुतम् // 572 // वेदनीये च कुपितश्चक्रेऽकिञ्चित्करं स तम् / त्वया मया च नेयोऽसौ तत्र ताभ्यां समं ततः / / 573 // अस्य त्रिभागमात्रेह स्थितिरद्यापि तिष्ठति / तत् सिंहः कार्यतां पूर्णां सामग्री गमनोचिताम् // 574 // स्वीकृत्य तद्वचस्तस्य भवितव्यतया तथा / शेषैश्चारिभिरत्यन्तं मार्गेऽहं शिथिलीकृतः // 575 / / अलक्षितात्मा शारीरैर्दोषैरन्ते ततस्ततैः / जीर्णप्राचीनगुटिकः समासाद्य परां गुटीम् // 576 // अलक्षितात्मा यातोऽहं वनस्पत्याख्यपाटके / सौधापवरकन्यायात् तत्राहं सुचिरं स्थितः // 577 / / आनीतोऽहं ततः शेषपाटकान्यपुरेषु च / पल्या कदाचित् पञ्चाक्षपशुस्थाने ततो धृतः // 578 // ततो विशुद्धभावत्वाद् गतोऽहं विबुधालये / भूयो गमागमास्तत्र बहवो विहितास्ततः // 579 // तथाहि - पश्चाक्षपशुसंस्थानाद्. व्यन्तरादिषु भूरिशः / अकामनिर्जराजन्यभावशुद्धेरहं गतः // 580 // विशिष्टपरिणामेन गतः कल्पोपगेष्वपि / सम्यक्त्व-श्राद्धधर्माभ्यामष्टौ कल्पा मयेक्षिताः // 581 // तथाक कर्मान्तरद्वौपभूमिजेषु नृषु स्थितः / आगत्य मानवावासे स्वलॊके बहुशो गतः // 582 // अकार्ष कृत्यमज्ञानादुत्पन्नः कर्मभूमिषु / पञ्चाग्नितपनाचं यद् यच्चाम्बुपतनादिकम् // 583 / / धर्मबुद्धयाऽन्यथा चान्तर्भावशुद्यनुवेधतः / ततोऽहं किल्बिषावासे गतो व्यन्तरपाटके // 584 // कृत्वा बालतपः क्रोधी तपोगौरवभाग गतः / भवनस्येषु भूत्वा च ज्योतिश्चारिषु तापसः // 585 // प्राप्य भागवती दीक्षां क्रियाभ्यासपरायणः / ध्यान-मौन-तपो-योग-शील-संयमयत्नवान् // 586 // गतोऽश्रद्धानदुष्टात्मा सर्वप्रैवेयकेष्वपि / आगतो मनुजावासं भूयो भूयोऽन्तराऽन्तरा // 587 / / इयतो भ्रमणस्यैव विद्धि पद्माक्षि ! कारणम् / तत् सिंहाचार्यभावे यत् कृतं चारित्रखण्डनम् // 588 // शैथिल्यं नाकरिष्यं चेत् सिंहाचार्यपदस्थितः / तदैव हत्वाऽरिततीरगमिष्यं शिवालयम् // 589 // इयभ्रमणदुःखं यन्मम जातं वरानने ! / तदेतन्निजदुर्भार्याप्रेरणाजनितं फलम् / / 590 // अथागृहीतसङ्केता प्राह तात ! न केवलम् / इयत् किन्तु त्वया प्रोक्तमखिलं त्वद्विजृम्भितम् / / 591 // पूर्वमेवाभविष्यश्चेत् सुस्थिताज्ञास्थिरादरः / ततो दीर्घाऽभविष्यत् ते नैषाऽनर्थपरम्परा // 592 // प्राह संसारिजीवोऽथ सुभ्रु ! चारूदितं त्वया / नाम्नाऽगृहीतसङ्केता भावतस्त्वसि पण्डिता // 593 // अथाऽऽकर्णय तद् येन जातोऽहं तस्कराकृतिः / प्राहाऽगृहीतसङ्केता निवेदय महाशय ! // 594 // संसारिजीवो न्यगददन्त्यप्रैवेयकात् ततः / आनीतोऽहं नृगत्यन्तःस्थितां क्षेमाभिधां पुरीम् / / 595 / / मध्ये महाविदेहस्य हट्टमार्गस्य सा स्थिता / रम्ये सुकच्छविजयस्थाने विस्तारशालिनि // 596 // युगन्धरस्य नृपतेः पुत्रस्तत्रोरुविक्रमः / नलिनीनन्दनश्चक्री पितरि द्यां गतेऽभवम् // 597 // क्षेमपुर्यां स्थितेनैव मया धाम्ना जिता मही / भुक्ताश्च विपुला भोगा बिभ्रता चक्रवर्तिताम् // 598 // अशीतिं पूर्वलक्षाणि चतुर्भिरधिकाम(न्य)हम् / भुक्त्वा राज्यसुखं काले पश्चिमे चारुलोचने ! // 599 //