________________ 208 महोपाध्यायश्रीयशोविजयगणिविरचिता [ अष्टमः सर्गः / रुद्धो मार्गस्तदाऽऽगत्य सद्बोधसचिवस्य तैः / चारित्रधर्मसैन्यं चेदागत तावती भुवम् // 429 // घोरमायोधनं लग्नं ततश्च बलयोस्तयोः / परस्परसमाह्वानरोषनिर्घोषभीषणम् // 430 // एकतो विधुवच्छुभं भ्रमरच्छवि चान्यतः / बलद्वयं मिलद्गङ्गा-कालिन्दीजलवद् बभौ // 431 // भग्नयोधं हतगजं छिन्नच्छत्रं पतद्रथम् / बलयोस्तदभूद् युद्धं मिथः पौरुषशालिनोः // 432 // जयः स्यादिह कस्येति द्रष्टुं संशयसक्रमात् / जयश्रीः संशयारूढा मन्ये नैकमपि श्रिता // 433 // स कर्मपरिणामाख्यस्तदैवं पर्यचिन्तयत् / पक्षपातं स्फुटं कुर्वे कथं साधारणो ह्यहम् // 434 // मोहाद्या भिन्नचित्ताः स्युः सद्बोधस्य स्फुटे कृते / पक्षपाते तदा 'तैर्मे युक्तं नाकाण्डविड्वरम् // 435 / / न च तन्मम युक्तं यत् साम्प्रतं मेऽस्ति वल्लभम् / बलं चारित्रधर्मीयं भवजन्तुमनोरुचेः // 436 // दोषेष्वेव निबध्नी यदा मनः / तदा चिरन्तनस्थित्या गतिर्मोहादयो मम // 437 // तन्न तेषां मनो भेयं पोष्यं धर्मबलं च मे / इति तेन भवच्चित्ते वर्द्धिता वरभावना // 438 // यावत् त्वं भावनासौधमारूढो गुणधारण ! / तावत् सद्बोधसहितं बलं प्रबलतां गतम् // 439 // .. स्फीते त्वद्भावनामन्त्रे मोहाद्याः क्षीणतां गताः / ततः सद्बोधसैन्येन सर्वं मोहबलं जितम् / / 440 // दत्तः प्रहारः सर्वेषां महामोहादिविद्विषाम् / चूर्णितश्च विशेषेण ज्ञानसंवरणो नृपः // 441 // मन्दाक्षलक्ष्या निस्यन्दाः स्थिताः पापोदयादयः / पार्श्वे सविद्यः सद्बोधस्तव निर्विघ्नमागतः // 442 // हर्षोल्लासस्ततस्तेऽभूत् परिणीता च कन्यका / राजंस्त्वयाऽखिलं तत्वं ज्ञातमेव ततः परम् / / 443 // तदिदं भावनावृद्धः कारणं तव भूपते ! / हर्षोल्लासस्य चोत्पन्नं रजन्यां नात्र संशयः // 444 // मयोक्तमधुना किं ते कुर्वन्ति मम शत्रवः ? / भगवानाह भूमीश ! कुर्वते कालयापनाम् // 445 // उदीर्णास्ते परिक्षीणाः परे चोपशमं गताः / चित्तवृत्तिमहाटव्यां निलीयैवाखिलाः स्थिताः // 446 / / प्रस्तावे मत्सराध्माताः करिष्यन्ति रणं पुनः / सद्बोधवचनात् सर्वे हन्तव्यास्ते तदा त्वया // 447|| तत् प्रमाणीकृतं वाक्यं मया भगवतस्ततः / विद्वता मासकल्पे ते सम्पूर्णेऽन्यत्र सूरयः // 448 // ततस्तदुपदिष्टार्थो विशिष्यानुष्ठितो मया / प्रसादितं मनो बाढं शरीरं परिकर्मितम् // 449 // . विहितं चित्तवृत्तौ मे सद्बोधेन प्रवेशनम् / प्रदर्शितौ द्वौ पुरुषौ शुभ्रौ रम्यौ सुखावहौ // 450 // उक्तं च तेन द्वावेतौ धर्म-शुक्लाभिधौ नरौ ! तव प्रवेशको राज्ये कार्यस्तेनाऽऽदरोऽनयोः // 451 // ततश्च दर्शिताः पीत-पम-शुक्लाभिधाः स्त्रियः / विद्युत्-पद्म-स्फटिकभास्तेन तिस्रो मनोहराः // 452 // उक्तं च प्रथमस्येमास्तिस्रोऽपि परिचारिकाः / शुक्लैवैका द्वितीयस्य विज्ञेया पोषकारिणी // 453 // तदेतासु त्वया सम्यग् वर्तितव्यं महाशय ! / पुरुषौ दास्यतो राज्यमेताभिः पोषिताविमौ // 454 // ततस्तद्वचनं पथ्यं स्वीकृत्याहं पुनः पुनः / चित्तवृत्तौ विशन् सार्धं विलसामि स्म लीलया / / 455 / / सद्बोधेन सह स्मोचैर्मन्त्रयामि मुहुर्मुहुः / मानयामि स्म सम्यक्त्व-गृहिधर्म-सदागमान् // 456 // गतेषु कुर्वतश्चैवं किञ्चिदूनेषु पञ्चसु / मासेषु मे भृशं तुष्टः स कर्मपरिणामराट् // 457 / / 1. तैः स्यात् साद्धं चाका //