________________ श्लो० 256-312 ] वैराग्यरतिः / 203 तस्य सेनापती द्वौ स्तः पाप-पुण्योदयाभिधौ / प्रतिकूलः स्वभावेन तत्र पापोदयस्तव // 284 // यत् कर्मपारणामस्य सैन्यं विद्वेषि ते दृढम् / तदेवाधिकरोत्येष हितः पुण्योदयस्तु ते // 285|| यत् कर्मपरिणामस्य सैन्यं ते बान्धवाधिकम् / तदेवाधिकरोत्येष पूर्णिमाविधुनिर्मलः // 286 // पुण्योदयः क्वचिद्दत्तो भवितव्यतया तव / स च पापोदयोऽनादिरूढस्त्वामन्ववर्त्तत // 287 // अनन्तकालभ्रमणदुःखं तेन व्यधायि ते / हिंसादिषु हितत्वं च तेनैव परिकल्पितम् / / 288 // पुण्योदयश्च तदोषाद् हितकारी न लक्षितः / तेनैव चित्तवृत्तेस्त्वं महाराज्याद् बहिष्कृतः // 289 // छादितं तेन चारित्रधर्मादिबलमाणिकम् / महामोहादि सैन्यं च पोषितं दुःखकारि ते // 290 // पुण्योदयोऽपि नो तेनानुबद्धोऽनुबबन्ध ते / सुखौघमन्तःसंलोनज्वरानुद्भवसन्निभः // 291 // दोषः पुण्योदयस्यास्य तन्न कश्चन विद्यते / किन्तु पापोदयस्यैव दोषः सर्वोऽप्ययं द्विषः // 292 / / मयोक्तं भगवन् ! पापोदयोऽसावधुना कथम् ? / तूणीमास्ते गुरुः प्राह स्वतन्त्रोऽयं न कहिंचित् // 293 // यत्कर्मपरिणामादिनिर्देशेन प्रवर्त्तते / दूरीकृतोऽसावधुना तैर्दुरात्मा त्वदन्तिकात् // 294 // यतः प्रभृति पावें ते समायातः सदागमः / अमीभिस्तत आरभ्य तत्प्राबल्यं निराकृतम् // 295 // ईषदूरे स्थितस्तेऽसौ प्राप्तः पुण्योदयोऽन्तिके / ततः सदागमे प्रीतिः सञ्जाता तेऽन्तराऽन्तरा // 296 // तन्माहात्म्यात् सुखं लब्धं त्वया तैस्त्वं कचित् पुनः / कृतः पापोदयं दत्त्वा दुःखी त्यक्तसदागमः // 29 // आलोच्याऽऽलोच्य तैरेवं मीलितोऽनन्तशस्तव / पापोदयान्तरात् पुण्योदययुक्तः सदागमः // 298 // यदा वेतैस्तवाऽऽनीतः पार्थे सम्यक्त्वनामकः / महत्तमो दूरतरीकृतः पापोदयस्तदा // 299 // नीतस्त्वं विबुधावासे ततः पुण्योदयान्वितः / आनीतो मनुजावासे कृता कल्याणसन्ततिः // 30 // पुनः पापोदयो दत्तस्त्याजितास्ते सुबान्धवाः / एवं चासंख्यवारास्ते कृतौ विरह-सङ्गमौ // 301 // त्वत्तोऽधुना तु तैर्दूरतमः पापोदयः कृतः / मधुवारणपुत्रत्वे तूष्णीमास्ते ततो ह्यसौ // 302 // . आसन्नास्ते कृतास्तैश्च सातपुण्योदयोऽधुना / पापानुबन्धविरहाद् दिव्याः पुण्यानुबन्धिनः // 303 // तेन ते वर्धते नित्यं लौल्यमुक्ता सुखावलिः / हिते ते स्वप्नदृष्टानि मानुषाण्येव जाग्रति // 304 // यदा हि प्रतिकूलानि तान्यभूवंस्तवोपरि / तदा पापोदयद्वारा दुःखं तैस्तव दर्शितम् // 305 // अनुकूलैस्तु तैः पुण्योदयद्वारा सुखासिका / दत्ता ते तेन तान्येव कारणं ते शुभाशुभे // 306 // मयोक्तं तत् किमत्रार्थे वर्तेऽकिञ्चित्करोऽन्वहम् / सूरिराह महासत्त्वमैवं मंस्थाः कदाचन // 307|| अमूनि परिवारस्ते त्वमेवाखिलनायकः / त्वद्योग्यतामपेक्ष्यैव तेषां तास्ताः प्रवृत्तयः // 308 // ततस्ते कारणं मुख्यं सुन्दरेतरवस्तुषु / योग्यताऽनादिशक्त्याख्या परे तु सहकारिणः // 309 // हेतुस्त्वं परिणामित्वात् कार्याणामात्मभाविनाम् / तन्मुख्यः प्रतिपद्यन्ते गौणत्वं चान्यहेतवः // 310 // मयोक्तं नाथ ! यद्येवं कार्यसम्पादको मम / किमियानेव हेत्वोघः किं वाऽस्त्यधिकमप्यतः ? // 311 // सूरिराह महाराज ! शृणु या निर्वृतिः पुरी / अस्ति निर्द्वन्द्वसुखभूनिरातङ्का निरामया // 312 // 1. सविधे गृहिधर्मयुग् //