________________ 102 महोपाध्यायश्रीयशोविजयगणिविरचिता [ सप्तमः सर्गः. प्रज्ञाविशालाऽपि निशम्य वाचं तां तादृशीं चिन्तयति स्म चित्ते / अहो ! महामोह-परिग्रहौ द्वौ दोषौ दुरन्तावनिवार्यवीर्यो / / 851 // क्रोधादिदोषाद् गदितैरनथैः सम्यक्त्वहीनान्न हि विस्मयः स्यात् / तत्संयुताभ्यां भवपातमाभ्यां श्रुत्वा तु चित्रीयत एव चेतः / / 852 / / ते के नु दोषा ननु ये भवन्ति सम्यक्त्वसूर्यस्य पुरस्तमांसि / इमौ तु ही दुष्टतरौ पेयोदराहुप्रभौ द्रुचिनाशदक्षौ // 853 // इमो समस्ताः समुदायरूपौ क्रोधादिदोषा अपि वाऽनुयान्ति / तदेतयोरीदृशदुःखजातसम्पादकत्वं न हि चित्रकारि // 854 // क्रोधादयोऽपि प्रभवन्ति घाते सतां गुणानामनिवार्यमाणाः / तथापि चासावनयोर्विशेषोल्लेखार्थमेवेत्थमुदाजहार // 855 / / इत्थं महामोह-परिग्रहोत्थं फलं निशम्यापि न पापलोकः / प्रबुद्धयते सद्गुरुवाक्यलक्षैः किं कुर्महे तत्र वहूपचारैः ? // 856 // एषाऽप्यशेषाऽपनयप्रसूतिः श्रुतिः श्रुता कोविदसूरिवाक्यैः / तथापि मोहान्धतया जनोऽस्याः कथं वृथा धावति लालनाय / / 857 // उन्नीतभावामिति धीविशाला सम्प्रेक्ष्य भव्यो वदति स्म मातः / ध्यातं त्वया किं निजगाद साऽपि निराकुला त्वां निखिलं प्रवक्ष्ये // 858 // दत्तावधानः शणु तावदस्य वाक्यं कृथा मा तरलत्वमन्तः / सङ्कीर्तितप्रायमनेन वृत्तं सर्वं तदस्य द्रुतमस्तु पूर्तिः // 859 // .. ततस्तत्र स्थिते तूष्णीं नृपपुत्रे स सादरम् / संसारिजीवः प्रोवाच शिष्टमात्मकथानकम् // 860 // नीतोऽहमन्यदा पत्न्या भदिलाख्यपुरे तया / कृतः स्फटिकराजस्य सुतोऽहं विशदाहयः // 861 / / विमलाकुक्षिजो रम्ये यौवने वर्तमानकः / सुप्रबुद्धमुनिं दृष्ट्वा प्रतिबोधमुपागतः // 862 / / भूयस्तत्र मया दृष्टौ महत्तम-सदागमौ / पालितो तो मया सम्यग् गृहिधर्मेण संयुतौ // 863 // श्रद्धायुक्तः स्थितस्तत्र सूक्ष्मज्ञाने तु नाश्रयम् / गृहीधर्मानुभावाच्च जातः पुण्योदयोऽनधः // 864 // ततस्तृतीयकल्पेऽहं भोगसम्मर्दसुन्दरे / तया पल्या सदानन्दे धृतः सागरसप्तकम् // 865 // ततश्च मनुजावासे ततश्च विबुधालये / गमनागमनं भूरिवारमित्थं च कारितः // 866 // द्वादशापि मया स्वर्गा बान्धवत्रयसंयुजा / प्रत्येकं प्रेक्षिता भद्रे ! क्वचित् त्यक्तश्च बान्धवैः // 867|| तयाऽथ द्वादशस्वर्गान्मनुजावाससम्मुखम् / प्रस्थापितो विशालाक्षि ! पुण्योदयसुहृद्युतः // 868 // भवति विगतस्वान्तध्वान्तः परिग्रह-मोहयोः, परिणतिमिमां श्रुत्वा दुष्टां श्रुतेरपि यः सुधीः / स इह लभते धर्मध्यानप्रथाप्रसरज्जिन-प्रवचनकथानीतस्वात्मानुभूतियशःश्रियम् // 869 // // इति वैराग्यरतौ सप्तमः सर्गः॥ 1. पयोदराहूपमौ त // 2. छादयतस्तमेव // 3. न्तः। अनेन सर्व स्वचरित्रमुक्तप्रायं तदस्य // 5. मया शुद्धश्रादधर्मेण सं०, श्राद्धधर्मरत्नेन सं.॥ इति पाठान्तराणि प्रन्थकारेणैवोल्लिखितानि //