________________ ग्लो० 345-402 ] वैराग्यरतिः। 175 मुनयस्तानुपेक्षन्ते निश्चित्यासाध्यतां ततः / न दोहने भवेद् भावो गोर्वन्ध्यात्वे हि निश्चिते // 37 // श्राद्धानां भद्रकाणां च भव्यमिथ्यादृशां ततः / भवेत् कृतार्थता नूनं दिशा साधूपदिष्टया // 375|| मूढास्तु सरुषा कर्मपरिणामेन भूभुजा / रत्नद्वीपाद् नरभवाद् निर्वास्यन्ते तमोभृताः // 376|| पात्यन्ते भवपाथोधौ लभन्ते दुःखसन्ततीः / इमं कथानकस्यार्थ बुवाऽसौ विरतो मुनिः // 377 // हेतावीदग्विवेकस्य कर्मवज्रविभेदने / श्रुते कथानके ह्यत्र को वा न मुनितां व्रजेत् // 378 // - को वा भृत्वाऽऽत्मबोहित्थं भावरत्नैः शिवालयम् / न गच्छेन्नृभवं प्राप्य रत्नद्वीपसमं कृती // 379 // भद्रेऽगृहीतसङ्केते ततस्तच्छृण्वतो मम / अकलङ्कवचो हासं बह्वी कर्म स्थितिर्गता // 380 // भद्रकत्वमभूत् तन्मे वचः किञ्चित् सुखायितम् / स्थितस्तथाप्यहं तूष्णीमकलको मदन्वितः // 381 // सप्तमस्य मुनेः पार्श्व गतस्तं प्रणनाम च / प्रस्तावे सोऽपि वैराग्यहेतुं पृष्टो जगाद तम् // 382 // संसृति म नगरी विद्यतेऽनादिरक्षया / हट्टमार्गस्तदीयो मे जातो वैराग्यकारणम् // 383 / / योऽयं ध्यानस्थितः साधुस्तेन मेऽसौ प्रदर्शितः / दीर्घस्थित्यापणश्रेणिर्जन्मसन्ताननामकः // 38 // सुखदुःखाभिधैः पण्यैः परितः स्वार्थतत्परैः / आश्रितः सञ्चयोद्युक्तैर्जीववाणिजकैः सदा // 385 // मूल्यैः पण्यानि लभ्यन्ते जघन्योत्कृष्टमध्यमैः / भावैस्तदनुरूपाणि तत्रोद्घाटापणे सदा // 386 // तत्र नाम्ना महामोहो बलाधिकृत उच्यते / कामादयश्च तभृत्या रोरा निष्पुण्यका जनाः // 387 // तत्र जीवाधमर्णानां धनिकैः कर्मनामकैः / वितन्यते धरणकं दुर्मोचं खेदकारणम् // 388 // मत्ताः कलकलायन्ते कषायास्तत्र डिम्भकाः / भ्रमन्ति च प्रमादाख्या नानाश्चर्यविलोकिनः // 389 // अनेन मुनिना नेत्रे स्थितस्यात्र ममाञ्जिते / सुखाभिमानिनोऽप्यत्र ततो दृष्टा मयाऽन्यथा // 390 // ज्ञानाञ्जनस्य माहात्म्यात् दृष्टो दूरे स्थितो मया / हट्टवीथिमतिक्रम्य शिवसमाभिधो मठः // 391 // तत्र दृष्टा मयाऽनन्ताः सिद्धा व्याधिविवर्जिताः / सर्वातिशयितानन्दा उपयोगस्वलक्षणाः // 392 // ततो मे हट्टमार्गेऽभूद् निर्वेदो मठरागतः / उक्तश्चायं महाभागो मया साधुः कृपापरः 393 // जायते क्षणमप्यत्र हट्टमार्गे रतिर्न मे / त्यक्त्वैनं तत् त्वया सार्द्ध मठे यामः शिवालये // 394 // मुनिनोक्तं यियासुश्चेन्मठे दीक्षां गृहाण तत् / मयोक्तं दीयतां नाथ ! तेन दत्ता प्रसेदुषा // 395 // उपदिष्टा मठप्राप्तेरितिकर्तव्यता च मे / तिष्ठामि तामहं कुर्वन्नकलङ्कस्ततोऽभ्यधात् // 396 // कीदृशी गुरुणोक्ता ते मठस्य प्रापिका क्रिया ? / मुनिराह महाभाग ! गुरुरिस्थं ममादिशत् // 397 // परिग्रहेऽस्ति ते सौम्य ! वासापवरकस्तव / कायाभिधानः पञ्चाक्षगवाक्षकृतविभ्रमः // 398 // तत्र कार्मणतन्वाख्यमस्ति गर्भगृह बृहत् / गवाक्षाभिमुखानेकक्षयोपशमरन्ध्रभृत् // 399 / / तत्रास्ति कपिरूपं च चित्ताख्यमतिचञ्चलम् / सहैव तेन भवता दीक्षा ग्राह्या सुखेच्छुना // 40 // नाकाण्डे शक्यते त्यक्तुं तत् कर्तव्यं सुरक्षितम् / विद्यन्ते गर्भगृहके भूयांसोऽस्य ह्युपद्रवाः // 401 // तत्रेदं भक्ष्यते दीनं कषायैर्दुष्टमूषकैः / वृश्चिकै!कषायैच दशद्भिः परिपीड्यते // 402 // 1. ज्ञानाञ्जनेन तेनात्र दृष्टाः सर्वेऽपि दुःखिताः //