________________ प्रलो० 300-359 ] वैराग्यरतिः। 155 राज्यानि द्रष्टुमेतेषां वितर्कोऽनुचरस्त्वया / प्रेष्यः षट्स्वपि राज्येषु सर्वोऽथों बुध्यते यथा" // 330 // प्रजिघायाप्रबुद्धोऽथ प्रमाणीकृत्य तद्वचः / वितर्क स समायातो वर्षषट्के तिलचिते // 331 // प्रोवाच " सोऽन्तरङ्गायां राज्यभुक्तावहं गतः / उद्घोष्यमाणः पटहः श्रुतस्तत्र पुरादिषु // 332 // निकृष्टो वर्त्तते राजा सुखं पिबत खादत / यथेष्टं स्वस्वकृत्यानि जनाः ! कुरुत निर्भयाः // 333 // तां श्रुत्वा धोषणां क्षोभं राजाद्याः समुपागताः / मन्त्रयन्ति हि कीदृक्षो दत्तो भूपतिरेष नः" // 334 // ततो जगौ महामोहं सचिवो निर्निमित्तकः / " क्षोभोऽयमागतो भाग्यादस्माकं हीदृशः प्रभुः // 335 // यो न नः पीडने शक्तो योऽस्मन्निर्देशकारकः / अस्मत्पदातिवर्गेऽपि भृत्यवद् यो भविष्यति // 336 // स कर्मपरिणामेन कुरूपो दुर्भगः कृतः / क्रूरो लोकद्वयभ्रष्टश्चतुर्वर्गविवर्जितः // 337|| दोनो देवगुरुद्वेषी दोषाणामेकमास्पदम् / निर्गुणः शक्तिशून्यात्मा सोऽस्माकं किं करिष्यति ? // 338 // तपस्वी नैष जानीते स्वराज्यबलसम्पदः / स्वरूपमपि भावेन नाप्यस्मान् राज्यहारकान् // 339 // मन्यते बन्धुभूतान्, नस्तदस्मिन् हर्षकारणे / महावर्द्धनकं कत्तुं युज्यते जनतुष्ट ये " // 340 // अकारयद् वर्दनके महामोहोऽथ तद्गिरा / गायन्ति स्म च तद्भुत्या विपुलानन्दपूरिताः // 341 // येनेदमीदृशं राज्यं सम्प्राप्तं भूरिभूतिभृत् / अहो ! सोऽस्मदधीनोभूदिदं राज्यं हितं हि नः // 342 / / महोत्सवो ययौ स्फातिमेकं तन्नगरादिषु / मुदिता घातिचरटाः प्रभविष्याम इत्यलम् // 343 // हरिष्याम इति प्रीतिं दधुरिन्द्रियतस्कराः / कषायल्लषकाः स्फातिं लूषयिष्याम इत्यधुः // 344 // नोकषायाख्यलुण्टाका उपसर्गपरीषहाः / भुजङ्गाश्च प्रमादाख्या षिङ्गाश्च ननृतुस्तराम् // 345 / / चारित्रधर्मसैन्ये च श्रुत्वा तां राज्यघोषणाम् / जातः क्षोभो महानचे सद्बोधः सचिवस्तथा // 346 // देव ! राजा निकृष्टोऽयं राज्यनामापि वेत्ति न / द्विषां नः पक्षपात्येष संवित्ते जातु नैव नः // 347 // महामोहादिभिस्तावदेकं वित्रासिता वयम् / द्वितीयमीदृशः स्वामी देवो दुर्बलघातकः // 348 // उपप्लवाय तदसौ धूमकेतुर्न उत्थितः / इति मन्त्रिवचः श्रुत्वा वित्रस्तास्ते नरेश्वराः // 349 // श्रुत्वा निकृष्टराज्यं तत् सञ्जाता दीनविह्वलाः / लोकाः सात्त्विकचित्तादिनगरेषु च भूरिषु // 350 // महदन्तरमुद्वीक्ष्य सैन्ययोरथ तादृशम् / आनन्द-शोकसम्पत्तेर्जातं मे कौतुकं महत् // 351 // चिन्तितं च मया प्रेक्षे निकृष्टोऽसौ क तिष्ठति ? / यद् वा द्रक्ष्यामि राजानं राज्यार्थं तमिहागतम् // 352 // तावत् तस्य स्वयं राज्यं महामोहादितस्करैः / अधिष्ठितं ततस्तत्र प्रवेष्टुं न शशाक सः // 353 // सैन्यं चारित्रधर्मस्य जित्वा तत् तैर्वशीकृतम् / निकृष्टस्तु बहिस्तस्थौ तैोर्ट गलहस्तितः // 354 // अहं जनेषु बाह्येषु तं दिदृक्षुस्ततो गतः / राज्यभ्रष्टस्तत्र दृष्टो निकृष्टो नृपतिर्मया // 355 / / पापकर्मरतः क्रूरो मत्सरी लोकनिन्दितः / पुरुषार्थपरिभ्रष्टो मलक्लिन्नकलेवरः // 356 // तृणकाष्ठादि विक्रीय लेखानयनतोऽथवा / निन्द्यकर्मा करोत्येष दुष्पूरोदरपूरणम् // 357 // ये केऽपि क्रूरकर्माणः श्वपाकाद्याः सुदुःखिताः / तेषां रूपं भजत्येष तथाप्याद्रियते द्विधः // 358 // महामोहाभिभूतेन राज्यं दुष्पालितं त्वया / इति तत्र नृपः कर्मपरिणामचुकोप च // 359 //