________________ ग्लो० 2051-1110] वैराग्यरतिः / 101 बलं तेजश्च लावण्यमालिङ्गयेयं विलुम्पति / गाढाश्लेषान्मनो नृणामस्या वीर्यमदः स्मृतम् // 1082 // वलीपलित-वैकल्य-बाधिर्या-ऽऽध्य-कुवर्णताः / कम्प-कार्कश्य-शैथिल्य दीनता-दन्तहीनताः // 1083 // जरायाः परिवारोऽयमनेन परिवारिता / मत्तेव गन्धकरिणी जरा प्रविलसत्यसौ // 1084 // अस्ति योऽनुचरः कालपरिणत्या महाबलः / यौवनाख्यस्तदादेशात् प्रविष्टोऽङ्गेषु देहिनाम् // 1085 / / संयुतो वल्गनोल्लास-धावनोद्भम-सम्मदैः / गर्व-शौण्डीर्य-षिङ्गत्व-धैर्यायैश्च पदातिभिः // 1086 // मूर्तिस्फूर्तिस्मरावेशसन्निवेशविधायकम् / क्रुद्धा कृत्येव तमियं मृद्नाति सपरिच्छदम् // 1087 // ततो भवन्ति जरसा जना मर्दितयौवनाः / भार्ययाऽपि पराभूतास्तनयैरप्युपेक्षिताः // 1088 // यो वेदनीयनृपतेर्वयस्यो रसनाभिधः / वर्णितस्तत्प्रयुक्तेयं रुजाऽपि नृपतेर्भुजा // 1089 // रजस्तमोऽभिसम्पातः सम्प्राप्तिः कालकर्मणाम् / वात-पित्त-कफक्षोभो हेतुः सर्वो रुजामयम् // 1090 // बाह्यान्यपि निमित्तानि प्रयुङ्क्तेऽसात एव यत् / हेतुः प्राणिषु संलीनस्तत्त्वतस्तदयं रुजाम् / / 1091 // स्वास्थ्यं निहत्य वीर्येण करोत्यातुरतामियम् / ज्वरा-ऽतिसार-कुष्ठा-ऽर्शः-प्रमेह-प्लीह-धूमकाः // 1092 / / अम्लक-ग्रहणी-शूल-हिक्का-श्वास-क्षय-भ्रमाः / गुल्म-हृद्रोग-सम्मोह-कण्डून्माद-जलोदराः // 1093 // शिरो-नेत्रार्ति-वीसर्प-च्छदि-शोष-भगन्दराः / सर्वेऽप्यस्याः परीवारस्तेनेयं भुवि दुर्जया // 1094 // हन्ति नीरोगतां सातनियुक्तां पाटवावहाम् / इयमाधि वितनुने व्याधि चाखिलदेहिनाम् // 1095 // रुदन्ति दीर्घपूत्कारैर्दीनं जल्पन्ति मानवाः / लुठन्तीतस्ततो मूढा अनया विह्वलीकृताः // 1096 // मृतिरायुर्नृपस्याऽस्तसमयेन प्रयोजिता / विषा-ऽग्नि-शस्त्र-पानीय-गिरिपाताद्यपेक्षिणी // 1097|| हरत्युच्छ्वासनिःश्वासं चेष्टां भाषां च चेतनाम् / क्षणेन देहिनामेषां वीर्यमस्या वदन्त्यदः // 1098 // इयं न वीर्यवत्येका परिवारमपेक्षते / इन्द्रोपेन्द्रादयोऽप्यस्याः कम्पन्ते नाममात्रतः // 1099 / / भार्यामायुर्नृपस्यैषा जीविकास्थानदायिनीम् / हत्वा स्वस्थानतोऽन्यत्र जनान्नयति लीलया // 1100 // अस्ति पापोदयो नाम सेनानीर्मूलभूपतेः / तेनैषा खलता वत्स! नियुक्ता भवचक्रके // 1101 // बाह्यं निमित्तमप्यस्या विद्यते खलसङ्गमः / पापोदयोद्भवः सोऽपि विज्ञेयः परमार्थतः // 1102 // शाठ्य-पैशुन्य-दौःशील्य-मित्रद्रोह-कृतघ्नताः / मर्मोद्घट्टन-वैयात्य-नैर्लज्ज्य-मद-मत्सराः // 1103 // गुरुविप्लवरोषादीन् यदियं कुरुतेऽङ्गिनाम् / अन्तर्विग्रहमालीना वीर्यमस्यास्तदुच्यते // 1104 // इयं पुण्योदयाख्येन सेनान्या मूलभूपतेः / नियोजितं द्वितीयेन हन्ति सौजन्यपूरुषम् // 1105|| गाम्भीर्य-प्रश्रय-स्थैर्य-दाक्षिण्यादिपदातिभिः / युतं लोके च कुर्वाणं सद्विश्रम्भसुखासिकाम् // 1106 // खादन्तो वर्गमात्मीयं खलतानिहता जनाः / बध्नन्तः परनिन्दास्थि गले नीचाः शुनोऽपि हि / / 1107 // सन्तोषकृतवृत्तीनां सतां प्रत्यर्थिनः खलाः / वानेयतृणवृत्तीनां मृगाणामिव लुब्धकाः // 1108 // कचिदण्णाः कचिच्छीताः क्वचिन्मध्यमवृत्तयः / नैकरूपाः खलाः क्रूराः सन्निपाता इव ज्वराः // 1109 // नामनामा महीनाथो यो मया पूर्ववर्णितः / भवचक्रे युनक्त्येनां स क्रौर्येण कुरूपताम् // 1110 // 1. गुरुविप्लवरोषाद्याः खलतापरिचारकाः / एतद्युताऽङ्गिनां चेतो मनातीयं स्ववीर्यतः // 1104 //