________________ 7 महोपाध्यायश्रीयशोविजयगणिविरचिता चितुर्थः सर्गः दोषैर्विरूपां च परापवादजलोपनीतैस्तृणकाष्ठपुजैः / कृताद्भुतं भूरिनिजप्रशंसाक्षणप्रसर्पद्गुणबुबुदोघैः // 381 / / अभङ्गनिद्रातटसन्निवेशां क्लेशादिभिः सत्त्वगणैश्च पूर्णाम् / तटान्तभूयोविकथाप्रचारस्थलीभविष्णुस्फुटवालुकौघाम् // 382 // जलस्क(स्ख)लद्वयक्तकुयुक्तिशुक्तिपुटप्रवृद्धस्फुटतोत्थशब्दाम् / अलब्धमध्यां मंदिरामदोरुग्रावप्रवेशाद्विषमप्रदेशाम् // 383 // बद्ध्वा किलाशामठमस्तबुद्धिर्दुःखावटे तिष्ठति यस्तटेऽस्याः / अस्या रयानिश्चित एव नाशस्तपाऽत्यये तस्य महाकषाये // 384 // गत्वा पतन्तीयमहो ! भवाब्धौ निपातयत्येव जनं निमग्नम् / बुधा भवाम्भोधिनिपातभीता व्रजन्ति दूरात् तदिमां विहाय // 385 / / इदं पुरस्ताद् विपुलं प्रमादविलासरूपं पुलिन प्रतीहि / अस्तोकविब्बोककटाक्षलीलोपहासभूयःसिकताभिरामम् // 386 / / . उदीतसङ्गीतकलाविलासस्फुटीभवत्सारसहंसलीलम् / . . विकासिकाशोपमरागपाशविस्तारसंछन्नविशुद्धशीलम् // 387 / / औत्सुक्यहालामदघूर्णमानाविवेकिलोकैः कृतविभ्रमौषम् / विस्तारिसंज्ञापवनोर्मिलालातरङ्गितं क्षौममिवोज्ज्वलश्रि // 388 // उज्जीवयत्येव विकारमेतन् महामुनीनामपि शान्तमेतद् / द्रुमं वनानां वनवह्निदग्धं विशिष्टवृष्टेरिव सन्निपातः // 389 // . यमीक्षसे मण्डपमेष चित्तविक्षेपनामा हृदयाभिरामः / प्रविष्टमात्रस्य किलात्र जन्तोः सन्तोषगन्धोऽपि रतिं न दत्ते // 390 // विष्णोरिवाब्धिर्गिरिकन्दरेव सिंहस्य कैलाश इवेश्वरस्य / शृङ्गं त्विषां पत्युरिवोदयाद्रेरौनत्यकृन्मोहमहीभृतोऽयम् / / 391 // अत्र प्रविष्टं यदपीन्द्रजालं पुनः पुनः कल्पयतीन्द्रजालम् / / महेन्द्रजालं तदसावनिष्टा निष्ठानभूः किं न जगज्जनानाम् ? // 392 // सरागतोद्यत्परभागनागद्युमर्त्यलोकेषु यदस्ति वस्तु / अत्र स्थितैरेव जनोऽनुभावात् सर्वत्र तत्र भ्रमतीति चित्रम् // 393 // गतोऽत्र लोको ग्रहचक्रगत्या न चक्रमेभ्यो यदुपैति खेदम् / तदेष धत्ते नभसो विलासं शून्यस्य चान्तर्बहिराततस्य // 394 // 1. मदिराविकारमा //