________________ 48 महोपाध्यायश्रीयशोविजयगणिविरचिता [तृतीयः सर्गः इयं हि लक्ष्मीः पुरुषोत्तमोचिता श्रुताम्बुराशेर्मथनात् किलोत्थिता / न सङ्गमस्यास्तदुपैत्यभाग्यभृत् क हारहूरारतिभाक् क्रमेलकः ? // 538 // इमां विना संसृतिपारदायिनो न लोकलोकोत्तरशास्त्रविभ्रमाः / / कलां विना किं करनर्तनश्रमाः सुशिक्षितां नृत्यरहस्यपारदाः ? / 539 // . तमो-भय-द्रोह-शठत्व-मत्सरैर्विषाद-पैशून्य-विपर्ययानृतैः / प्रभेव भानो रजनीतमोभरैः कदापि नैषाऽत्र सहावतिष्ठते // 540 // दयाऽभिधाऽस्या दुहिता हितावहा कृतोत्सवा बान्धवसन्ततेः सदा / जयत्यविद्यावनवतिसन्निभाऽनवद्यविद्याम्बुनिधौ विधुप्रभा // 541 // अदः कटाक्षादपि रूपमाप्यते पुलोमजालोचनभृङ्गलोभकृत् / सहस्रजिह्वोऽपि कथं नु वर्णयेत् तदेतदङ्गाद्भुतरूपसम्पदम् ! // 542 // विशालमस्या विजितेन्दुमण्डलं विभाति सत्त्वाभयदानमाननम् / नितान्तदीर्घ च सरोजसुन्दरं विवेक-बोधाभिधमीक्षणद्वयम् // 543 // सुदानदुःखप्रणिघातसंज्ञितौ स्तनावमुष्या द्रढिमानमाश्रितो / शमाभिधानं जघनस्थलं दमस्थितिश्च नाभिस्तनुते जगन्मुदम् // 544 // अधर्मधर्मार्थपरीक्षणाभिधं मनोज्ञमस्यास्ततमूरुयामलम् / अगण्यलावण्यसुधाऽस्य वर्ण्यतां कियत्यभेदानुभवं विना बुधैः ! // 545 / / सदाऽङ्गदोषैः परिवर्जिताऽप्यसावनङ्गदुष्टा न कदापि वीक्ष्यते / ,. अचिन्त्यशक्तिर्जगदद्भुतावहा गतातिचाराऽपि शिवाध्वधाविनी // 546 // यदेष धीरः परिणेष्यति प्रियामिमां कुमारः कमनीयविग्रहः / विधाय वक्त्रं मलिनं किलाऽन्तिकात् तदाऽस्य हिंसा स्वयमेव यास्यति // 547|| इयं हि पापा धृतदाहसाहसा स्वभावतः सा हिमशीतलाऽमला / विरोधनिष्ठा तदिहानयोर्बुवा सदातनी तोय-हुताशयोरिव / / 548 // विरोधमैकाधिकरण्यमुद्रयाऽनियम्य धत्ते ननु साऽनया स्मयात् / न धैरितां सिद्धदयावतां मिथो व्रजन्ति पार्श्वेऽपि हि हिंस्रजन्तवः // 549 // तदाह तातः परिणेष्यति प्रियां कदा दयां तां वद नन्दिवर्धनः ! / निमित्तवित् प्राह यदा शुभाशयः प्रदास्यति प्राप्स्यति तामयं तदा // 550 // कदा स दातेति नृपेण भाषिते जगावयं दापयिता यदा स्वयम् / विचारयन् कालविलासिताप्रियाधियाऽथ पृष्ट्वा भगिनी जनस्थितिम् // 551 // 1. वहा महाप्रतादिस्वकबन्धुसन्ततेः / जय // 2. कालपरीणतिप्रिया //