________________ नमस्कारान्तर्गत-पदविशेषानेकार्थाः। [प्राकृत "जस्स समयाइवासिय, वित्ताहरिणोवि सुकयपरिणामो। रहकारमुणीण गई, पासू' सो जयउ राममुणी // 19 // " 14. सव्याः / पूडौच् प्राणिप्रसवे' सूयन्ते जन्यन्ते जनन्या नरजन्मना एते एव महासत्त्वाः स्वप्राणप्रहाणमप्यादृत्य षड्जीवनिकायरक्षापरत्वेन भुवनोपकारिण इति सव्याः वरदत्तादिसाधुवत् / "तह होज्जेरियासमिओ, देहे वि अमुच्छिओ दयापरमो। जह संथुओ सुरेहिं वि, वरदत्तमहाभागो // 20 // " 15. सव्याः। 'सूं प्रसवैश्वर्ययोः, सूयन्ते दुःखाकारकाः सन्तः देवेन्द्रादिभिरपि वन्द्यत्वेन ईश्वरीक्रियन्ते इति सव्याः / दशार्णभद्रराजर्षिवत् / "वंदे दसण्णभदं, समसीसाए अहो सुरिंदस्स / ___ गहिऊण तहा विरई, जेण पइन्ना सुनिव्वूढा // 21 // " 16. सार्वाः / सां लक्ष्मी चक्रवर्त्यादिसंपदमपि / 'अ भत् शत् हिंसायाम्' अर्वन्ति हिंसन्ति दूषयन्ति त्यजन्तीति सार्वाः / स्वयमाभरणोत्तारणसमये श्रीभरतचक्रयादिसाधुवत् / "भरहमहारायरिसिं, गिहिवेसुप्पन्ननाणवररयणं / / दसहिं सहस्सेहि समं, निक्खंतं वंदिमो सिरसा // 22 // "(1-4) 15 17. शर्वाः। 'शोंच तक्षणे' शानं शा तनूकरणं, जीवानां परितापजननं तमर्वन्ति स्वदेह‘बाधयाऽपि स्फेटयन्तीति शार्वाः / मेतार्यादिसाधुवत् / "नवपुव्वी जो कुंचगमवराहिणमवि दयाइ नाइक्खे / तं नियजीयनिरविक्खं, नमामि मेयज्जमंतगडं // 23 // " (5-86) 18. एवं सार्वाः। 'पोंच् अन्तकर्मणि' सानं सा किप् , अन्तकर्म प्राणिनां हिंसेत्यर्थः। तामप्यर्व20न्तीति सार्वाः / कटुतुम्बकमोजिधर्मरुचिमुन्यादिवत् / / "गुट्ठीभत्ते मासस्स, पारणए रोहिणीइ कडुतुंबं / दिन्नं दयाइ भुत्तु(तं), धम्मरुई मुत्तिमणुपत्तो // 24 // " (5-123) 19. शर्वाः। 'अ भ शत् हिंसायाम्' शर्वन्ति हिंसन्ति परीषहादिशत्रूनिति शर्वाः / रुद्रवा चीति शर्वशब्दः 'शृ हिंसायाम्' वे प्रत्यये सिद्धः / दृढप्रहारिसाधुवत् / "छम्मासनिराहारो, तवसोसियघोरकम्मपन्भारो। सिद्धिसुहं संपत्तो, दढप्पहारी महासत्तो // 25 // " 20. शाः / शरं बाणं कुर्वन्ति व्यापारयन्तीति णिजि विपि प्रथमा-बहुवचने जसि शरः, बाणक्षेपेण युद्धकारका इत्यर्थः / तान् व्ययन्ति संवृण्वन्तीति शाः / सङ्ग्रामनिषेधका इत्यर्थः / द्रविडवालि(रि)खिल्लनृपयुद्धवारकचारणश्रमणवत् / 1 पासू-अपश्यत् 25