________________ विभाग] नमस्कार स्वाध्याय। 321 चन्द्रं च पुष्पसंकाशं, लग्नं फलसमं विदुः। पुष्ये नष्टे फलं नास्ति, तस्माच्चन्द्रबलं बलम् // 25 // कुज-शुक्र-ज्ञेन्द्धर्क-ज्ञ-शुक्र-जीव सौरि-शनि-गुरवः / मेषा नवांशकामज-मकर तुला-कुलीराद्याः (?) // 26 // स्वगृहाद् द्वादशभागा द्रेष्कोणाः प्रथम-पञ्च-नवकानाम् / होरा विषमेऽन्दोः समराशौ चन्द्रतीक्ष्णांशोः // 27 // कुजयमजीवशसिताः शरेन्द्रियवसुमुनीन्द्रियेशानाम् / विषमेषु समेषूत्क्रमेण त्रिंशांशकाः कल्प्याः // 28 // समराशिफूत्क्रमेण त्रिंशांशाः षड्वर्गशुद्धिः। पुष्णन्ति शुभा भावाः, मूर्त्या विघ्नन्ति संस्थिताः // पापाः सौम्याः षष्ठेऽरिष्टाः सर्वे नेष्टाः व्ययाष्टमगाः // 29 // लग्ने स्थितो दिनकरः कुरुतेऽङ्गपीडां, - पृथ्वीसुतो वितनुते रुधिरप्रकोपम् / छायासुतः प्रकुरुते बहुदुःखभाजं, जीवेन्दुभार्गवबुधाः सुखकान्तिदाः स्युः // 1 // दुःखावहा धनविनाशकराः प्रदिष्टाः, - चित्तस्थिता रविशनिश्वरभूमिपुत्राः / चन्द्रो बुधः सुरगुरुर्भृगुनन्दनश्च, / ___नानाविधं धनचयं वितनुते धनस्थः // 2 // भानुः करोति निरुजं रजनीकरोति, कीर्त्याऽऽश्रयं क्षितिसुतः प्रचुरप्रभावम् / 20 सिद्धिं बुधः सुधिषणः सुविनीतवेषः, स्त्रीणां प्रियं गुरुकवीन् रविजस्तृतीयः // 3 // आदित्य-भौम-शनयः सुखवर्जिताङ्गं, कुर्वन्ति जन्मनि नरं सुचिरं चतुर्थाः / सोमो बुधः सुरगुरु गुदेहजातः, सौख्यं धियं नृपरति यशसः प्रवृद्धिम् // 4 // भौमो रविः प्रचुरकोपगतं बुधोऽपि, निःसंततं शनिधरातनुजौ कुपुत्रम् / सौरीन्दुभार्गवगुरुः सुतधामसंस्थः, कुर्वन्ति पुत्रनिवहं सुखिनः सुरूपम् // 5 // 25 मार्तण्डभूमितनुजौ हतशुभ्रपक्षं, पॉर्नरं रिपुगृहे नृपपूजनीयम् / काव्येन्दुजो मतिविहीनमनल्परोगं, जीवः करोति निधनं विकलं शशाङ्कः // 6 // तिग्मांशु-भौम-रविजाः किल सप्तसंस्थाः, जायां कुकर्मनिरतां तनुसंततिं च / जीवेन्दु-शुक्र-विवुधा बहुपुत्रयुक्तं, धर्मान्वितं जनमनोहररूपशीलम् // 7 // सर्वे ग्रहा दिनकरप्रमुखा नितान्तं, मृत्युस्थिता विदधाति किल(?)दुःखवृद्धिम् / 30 शस्त्राभिघातपरपीडितगात्रयष्टिं बुद्ध्या विहीनमतिरोगगणैरुपेतम् // 8 // धर्मस्थिता रवि-शनिश्चरभूमिपुत्राः, कुर्वन्ति धर्मनिधनं जनयन्त्यपुण्यम् / चन्द्रो वुधो भृगुसुतश्च सुरेन्द्रमन्त्री, धर्मप्रधानधिषणं कुरुते मनुष्यम् // 9 // आदित्य-भौम-शनयः किल कर्मसंस्थाः, कुर्युर्नर बहुकुकर्मकरं दरिद्रम् / चन्द्रः सुकीर्तिमुशनाः बहुवित्तयुक्तं, रूपान्वितं बुध गुरुः शुभकर्मभाजाम् // 10 // 35 लाभान्वितो दिनपतिर्नुपलाभरूपं, तारापतिर्बहुधनं क्षतिजः शतारिः। सौम्यो विवेकवसतिं सुभगं च जीवः, शुक्रः करोति सुधनं रविजःसुकान्तिम् // 11 // सूर्यः करोति पुरुषं व्ययगो विशीलः, काणं शशी क्षितिसुतो बहुपापभाजम् / चन्द्रात्मजो गतधनं धिषणः कृशाङ्गं, शुक्रो बहुव्ययकरं रविजश्च तीव्रम् // 12 // 41