________________ नमस्कारव्याख्यानटीका। रैर्निरीक्षितः शूद्रो, द्वारस्थो यदि जायते / खण्डिस्तत्र भवेत् तस्य, गृह्यते कोटमद्भुतम् // 22 // अष्टकविचक्रम् त्रिकोपं नवशृङ्ग च, दण्डरेखाविभेदतः। कृत्तिकादीनि धिष्ण्यानि, ग्रहास्तत्र प्रदापयेत् // 23 // चन्द्र-रव्येकरेखायां, युद्धं-तदिने भवेत् (?) / मन्देन च तथा ज्ञेयं, रौद्रं च कुजराहुणा // 24 // नामतारं यदा विद्धं, पापग्रहैश्च चन्द्रजम् / तन्नाना चन्द्रऋक्षेच, विद्धे मारणमाहवे // 25 // विवाहे चैत्र वैधव्यं, प्रवासिभिः फलं वदेत् / विद्यारम्भे च मूर्खत्वं, कृषिर्वा निष्फला भवेत् // 26 // वर्जयेत् सर्वकार्येषु, यदीच्छेद् वृद्धिरुत्तमा / कविचक्रं मया ख्यातं, चक्राणामुत्तमं सदा // 27 // शनिपुरुषः यस्मिन् ऋक्षे शनिस्तद् वास्ये वर्य दक्षिणे करे। त्रीणि त्रीणि च पादौ तु, वामहस्ते चतुर्थकम् // 28 // हृदये पञ्चऋक्षाणि त्रीणि शीर्षे द्विलोचने / गुह्ये च द्वितयं दत्त्वा, निरीक्षेत शुभाशुभम् // 29 // मुखे वामकरे पीडा, देशत्याग-पादयोः (1) / गुह्ये मृत्युभवेत् प्राप्तिः, फलस्य मस्तके हृदि // 30 // , नयनयोश्च सौभाग्य, लाभः प्रदक्षिणे करे। प्रयोजने समुत्पन्ने, शनिचके निरीक्ष्यते // 31 // दृष्टं श्लिष्टं ग्रहैर्दुष्टैः, सौम्यैरप्रेक्षितं यदि / सजस्यापि तथा मृत्युः, का कथा रोगिणः पुनः॥ 32 // . त्रैलोक्यदीपकं चक्रम् सर्वतोभद्रचक्रम् अथातः संप्रवक्ष्यामि, चक्रं त्रैलोक्यदीपकम् / विख्यातं सर्वतोभद्रं, सद्यः प्रत्ययकारकम् // 1 // ऊर्ध्वगा दश विन्यस्य, तिर्यरेखास्तथा दश / एकाशीतिपदं चक्र, जायते नात्र संशयः॥२॥ अकारादीन् स्वरान् कोष्ठेष्वीशानादिदिशि क्रमात् / सृष्टिमार्गेण दातव्या, षोडशैवं चतुर्भमम् // 3 // कृत्तिकादीनि धिष्ण्यानि, पूर्वाशादि लिखेत् ततः। सप्तसप्तक्रमेणैवमष्टाविंशतिसंख्यया // 4 // अवकहडादिप्राच्यामटपरतावर्णपञ्चकं याम्याम् / नयभजखान वारुण्यां, गसदचलांश्चोत्तरे दद्यात् // 5 // राशयो द्वादशैवं तु, मेषाद्याः सृष्टिमार्गगाः। अयस्त्रयो वृषाद्याश्च, पूर्वादिक्रमतो बुधैः // 6 // 25