________________ विभाग] नमस्कार स्वाध्याय / 307 गूर्जरात्रायाम् यल्लग्नं शुद्धयते यस्मात् , तच्छोध्यमुदयास्तयोः / शेषं त्रिंशद् धृतं लब्धं, धनं ऋण दिने दिने // उदयास्तशुद्धिः अयनादिगता दिवसाः सार्द्धद्विगुणिता द्वयक्षरकसहिताः। द्वि-मुनीन्द्रिय-रूपयुतो षष्टिहता दिन-निशामानम् // गूर्जरात्रायां च षड्गुणं, कर्कादेकमेकनृपं धनम् / छायापादैश्च मध्याह्नः, षड्युतैर्द्विगुणैर्हतम् // 1 // कर्क मृगाद्या भागा ये भुक्ता भास्करेण त्रिगुणाः / खानिलपञ्चकैर्युताः षष्टिहते रजनीदिनमानम् // 2 // सपादलक्षे यूने द्विशतं हीनं मध्यपादैश्च षड्गुणम् / छायापादैश्च मध्याह्नः षड्युतैर्द्विगुणैर्हरेत् // 3 // नवसारिकायां कोङ्कणे वा दिनषड्गुणे भागम् / मध्याह्ने शङछायया पौषे रव्यङ्गुलं मध्यम् // 4 // ततो द्रव्यं ऋणं धनम् // अवन्तिदेशश्रुतयोजनानि, संगुण्य वाणै रसभाजितानि / षडुत्तरे द्वे तु शता नियोज्याः // अग्नि-वेदभक्ते विषुवद् व्यङ्गुलानि 1, नव 9, तिथयो 15, अष्टादश 18 विभक्ताः / पञ्चरसाः 65, वसु 8, हृता दशः 10 विहता विषुवच्छायागुणिता स्वदेशज्ञा वरदलविनड्याः // लकोदयाद् द्विनाड्येव शुभानि छिद्रनवयामाः त्रिरदाः। 20 व्यस्ताव्यस्तयुता ते कार्याश्च स्वोदयविनाड्य आवन्त्याम् // आं. 5, व्यं. 20 पत्तने / आं. 4, व्यं. 48 भृगुकच्छे / आं. 4, व्यं. 54 कावी-जम्बूसरे। त्रि-पञ्च-राम-वेदाश्च, धृतिसंख्या तथैव च।। चरखण्डानि चैतानि, क्रमेण पत्तने बुधैः॥१॥ मूले बङ्गुलविपुलः, सूच्यग्रो द्वादशाङ्गुलोच्छ्रायः / शङ्कुस्तलाग्रविद्धोऽप्रवेधलम्बादरियुद्धार्यः // 2 // स्वक्षेत्रोपगतः स्थायी, परक्षेत्रे च यायिनः। नीचस्था हायनाः प्रोक्ताः, त्रिविधा ग्रहपद्धतिः॥ 3 // तथा चतुर्विंशतयः पूर्वकेतवः उदयन्ति हि / शरद्यशुभदुर्भिक्षरोगान् द्वि-षट् निर्यगोः // 1 // चतुर्विंशतयोऽग्नौ तु, हेमन्ते चाग्निरोगदाः। नवकाशसिरे याम्यां, दुर्भिक्ष-व्याधि-मृत्युदाः // 2 // अष्टादश वसन्ते च, मध्यमफलदायकाः / ग्रीष्मे वसन्ते यो वायुः, प्रचण्डवातविग्रहाः // 3 // वर्षायां दशवारुण्यां, महावृष्टिकरास्तथा / संक्षेपेण च केतूनामेवं पश्चोत्तरं स्मृतम् // 4 //