________________ 10 नमस्कारव्याख्यानटीका। अथ वयसः प्रमाणं क्रियते तदा पञ्चभिर्भागः / बालः 1, कुमारः 2, युवा 3, ल्हसितः 4, वृद्धश्चेति 5 / अजजीवित-मरणे द्वाभ्यां भागः / जीव[न]म् 1, मृत्युः 2, लाभालामे 3 / एवं जीवाः षड्भिः-देवाः 1, मनुष्याः 2, पक्षिणः 3, चतुष्पदाः 4, अपदाः 5, पादसंकुलाश्चेति 6 / मनुष्याः पञ्चविधाः-ब्राह्मण १-क्षत्रिय २-वैश्य ३-शूद्र ४-अन्त्यजाश्चेति 5 / पुनखिभिःपुं १-स्त्री २-नपुंसकाश्चेति 3 / / पक्षिणो द्विविधाः-जलचराः 1, स्थलचराश्च 2 / नारकाः-कर्मजाः 1, योनिजाश्चेति 2 / चतुष्पदाश्चतुर्भिः-खुरी 1, नखी 2, दन्ती 3, शृङ्गी 4 / खुरी द्वाभ्यां ग्रामवासिनः 1, अरण्यवासिनश्च 2 / एवं नखी दन्ती शृङ्गी / अपदा द्वाभ्यां जलचराः 1, स्थलचराश्च 2 / जलचरा डुण्डुभ १-जलूकादयः 2 / स्थलचराः सर्प-घोणसादयः / पादसंकुलास्तथा अण्डजाः 1, स्वेदजाश्च 2 / अण्डजा भ्रमर-पतङ्गादयः / स्वेदजा यूका- . मत्कुणादयः। धातुषु द्वाभ्यां धाम्याधाम्यौ / ततोऽष्टधा-सुवर्ण १-रजत २-त्रपुः ३-ताम्र ४-सीसक ५-लोह 616 कांस्य ७-रीरिकादयः 8 / तत्र घटितं अघटितं च / घटितं षड्विधम्-शिरा(र आ )-भरणं १-कर्ण २-श्रीवा ३-हस्त ४-जघनं 5 पादाभरणं 6 चेति / तत्र दक्षिण १-वाम(मौ) 2 / अधाम्यानि नवविधानि-मृत्तिका १-पाषाण २-हरिताल ३-मणसि(शि)ला 4- शर्करा ५-वेलुका 6- मरक्त( रकत )पद्मराग ७-मौक्तिक 8- प्रवालानि 9 / / मूलं चतुर्विधम् वृक्ष 1- गुल्म 2- लता 3- वल्ली 4 / तच्चतुर्विधम्- त्वक् 1- पत्र 2- पुष्प 320 फलमिति 4 // तत्र खाद्यं 1, अखाद्यं च 2 / खाद्यं षड्विधम् तिक्तं 1, कटु 2, कषायं 3, अम्लं 4, लवणं 5, मधुरं च 6 / तत्र आर्द्र 1, शुष्कं च 2 / तच्च स्वदेशजं 1, परदेशजं च / एवं नाम चिन्ता-मुष्टि-लुका जीव-धातु-मूलानि कथितानि / सूचनामात्रं सूत्रम् // सेयारुण-पीय-पियंगुवण्ण-कसिणाइ विडविपत्ताई। अंबिल-महु-तिक्ख-कडुय-कसाय परमिट्ठिणो वंदे // 14 // पञ्चपरमेष्ठिनां वर्णस्वरूपमग्रे प्रतिपादितं किमन्न(न्य)भणनेन ? परं जीव-धातु-मूलानां वर्णानि तथा पञ्चरसा मुख्यतः प्रतिपादिताः / लवणरसोऽत्र गन्तव्यः। लवणविहूणा य रसा चक्खुविहूणा य इंदियग्गामा। धम्मो य दयारहिओ सुखं संतोसरहियं नो॥ [12] इति लवणरसबाया रसा न भवन्ति / तथा चक्रभेदैः नामप्रकरणम् , यथा पढममक्खरजं बीयं बीयस्स य जा तेरसी मत्ता। तह जं चउत्थसहियं तं चिय नामक्खरं भणियं // [13] 25 30