________________ 5 51 272 . नमस्कारव्याख्यानटीका। [प्राकृत सांप्रतं अरिहंतादिचक्रविधिमाह-उत्कृष्टस्थित्या सप्ततिशतं जिनानां चक्रं यथा"तिजयपहुत्तपयासय" [ इत्यादि स्तोत्रं संपूर्णमालेखितं, तच्च प्रसिद्धत्वान्नात्रोद्धियते / ] उपर्यधः शिखाकारं, लिख्यते दिशि युग्मकम् / बीजाक्षरयुतं द्वारकोणं स्वस्तिकसंयुतम् // 2 // तन्मध्ये लिख्यते नाम, चकारेण [च] वेष्टितम् / दिशि द्वये लिखेद् 'हूँ ह्रः' विदिशि भूत-शाकिनी // 3 // ॐ हूँ' पूर्वस्यां, 'ॐ ह्रः' पश्चिमायां, 'ॐ कुरु' अपरस्यां, 'कुल्ले स्वाहा' [उत्तरस्याम् / ] 'ॐ ह्री ग्राँ' एकत्र, 'हँ फट् स्वाहा' अन्यत्र, इति मध्यन्यासः / बहिःकोणान्तरं प्रतिपत्रद्वयं लिखेत् 'खरः मयः ही हूँ फट् फट् स्वाहा'। यथाक्रमं द्वादशपत्रेषु पत्रान्ते त्रिशूलानि, ततः पर्यन्ते माया10 बीजेन त्रिगुणं वेष्टनीयम् , शाकिनीभूतन्यासः / ____ अथ खटिकया शरावे इदं यन्त्रं लिखित्वा जलमध्ये अधोमुखं निक्षितं दाघ(ह)ज्वरं नाशयति / दाघ(ह)ज्वरोपशमनानन्तरं मन्त्रेण पूजयित्वा दुग्धेन प्रक्षाल्यते, स्वस्थो भवति / इदं यन्त्रं कर्पूरेण लिखित्वा . चूल्ह्यां तापयेत्, शीतज्वरं नाशयति / xxx अथ द्वादशयन्त्रिकाः // क्लीकाररुद्धं लिख कूटपिण्डं, नामान्वितं द्वादशपत्रपद्मम्।। ब्रह्मादि-होमान्तपदे नियुक्ताः, पूर्वादिपत्रेषु जयादिदेव्यः // 4 // ज-भ-म-हपिण्डसमेताः, जम्भाधाः प्रणवपूर्व-होमान्ताः / विदिशि दलेषु नियोज्याः, स्मरबीजं शेषपत्रेषु // 5 // त्रिधा मायया वेष्टितं क्रॉनिरुद्धं, लिखेदू रोचना-कुङ्कमैजपत्रे / मधु स्थापितं रक्तसूत्रैर्वशं याति रम्भाऽपि सप्ताहमध्ये (?) // 6 // "ॐ क्षम्यूँ क्ली जये विजये अजिते अपराजिते जम्भे मोहे स्तम्भे स्तम्भिनि स्वाहा यूं।" . क्ष् म् ल् व् र यूँ मध्ये साध्यनाम क्लीकारवेष्टितम् , ततो वलकं, तदुपरि द्वादशपत्राणि पूर्वादिपत्रेषु यथाक्रमं लिखेद् , यथा 'ॐ जये स्वाहा' 1 / 'ॐ जम्यूँ जम्भे स्वाहा' 2 / 'क्ली' 3 / 'ॐ विजये स्वाहा' 4 / 'ॐ इम्ळ मोहे स्वाहा' 5 / 'क्ली' 6 / 'ॐ अजिते स्वाहा' 7 / 'ॐ म्यूँ स्तम्भे स्वाहा' 8 / 'क्ली' 9 / 'ॐ अपराजिते स्वाहा' 10 / 'ॐ हम्ळ स्तम्भिनि स्वाहा' 11 / 'क्ली' 12 / हीकारेण त्रिधा वेष्टयेत् क्रोनिरुद्धम् / / द्वादशयन्त्रिकाया आदियन्त्रं द्वादशसहस्र जपेत् , दशांशेन गुग्गुल-मधुर-रक्तकणवीरपुष्पैः दशांशेन होमं कारयेत् , ततः सिद्धिं यान्ति द्वादशयन्त्राणि, तथा सर्वाणि कार्याणि करोति यन्त्रं, कुङ्कम-गोरोचनया श्वेतपट्टे जातिलेखिन्या लिखेत् , ततः साध्यते // 25 xxx मारणप्रयोगस्यानुपयोगित्वान्नात्रोल्लिखितः /