________________ [ 347 न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग यस्याः पतिरुज्झितस्थितिः / इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्रुशुरास्वैः खलु // 128 // न जातरूपच्छदजातरूपता, द्विजस्य दृष्टेयमिति स्तुवन्मुहुः / . अवादि ते नाथ स मानसौकमा, जनाधिनाथः करपञ्जरस्पृशा // 129 // धिगस्तु तृष्णातरलं भवन्मनः, समीक्ष्य पक्षान्मम हेमजन्मनः / तवार्णवस्येव तुषारसीकरैर्भवेद मीभिः कमलोदयः कियान // 130 // न केवलं प्राणिवधो वधो मम, त्वदीक्षणाद्विश्वसितान्तरात्मनः / विगर्हितं धर्मधनिबर्हणं, विशिष्य विश्वासजुषां द्विषामपि // 131 // पदे पदे सन्ति भटा रणोद्भटा, न तेषु हिंसारस एष पूर्यते / धिगीदृशं ते नृपते कुविक्रम, कृपाश्रये यः कृपणे पतत्त्रिणि / / 132 // फलेन मूलेन च वारिभूरुहा, मुनेरिवेत्थं मम यस्य वृत्तयः / त्वयाद्य तस्मिन्नपि दण्डधारिणा, कथं न पत्या धरणी हृणीयते // 133 // इतीदृशैस्तं विरचय्य वाङ्मयैः, सचित्रवैलक्ष्यकृपं नृपं खगः / दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः // 134 // मदेकपुत्रा जननी जगतुरा, नवप्रसूतिर्वरटा तपस्विनी / गतिस्तयोरेष जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि न // 135 / / मुहूर्तमानं भवनिन्दया दयासखा सखायः स्रवदश्रयो मम / निवृत्तिमेष्यन्ति परं दुरुत्तरस्त्वयैव मातः सुतशोकसागरः // 136 / / मदर्थसंदेशमृणालमन्थरः प्रियः कियद्र्र इति त्वयोदिते / विलोकयन्त्या रुदतोऽथ पक्षिणः, प्रिये स कीदृग्भविता तव क्षणः // 137 // कथं विधातर्मयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः / वियोक्ष्यते वल्लभयेति निर्गता, लिपिर्ललाटंतपनिष्ठुराक्षरा // 138 // अयि स्वयूथ्यैरशनिक्षतोपमं, ममाद्य वृत्तान्तमिमं बतोदिता / मुखानि लोलाक्षि दिशामसंशयं, दशापि शून्यानि विलोकयिष्यसि // 13 // ममैव शोकेन विदीर्णवक्षसा, त्वया विचित्राङ्गि विपद्यते यदि / हारिम ददे तोऽपि / तः. पु... ...':