________________ थकाकर्तुः -प्रशस्तिः / [ 335 सूरेस्तस्य विनेयतां विनयतः सम्प्राप्य तत्सेवया, न्यायव्याकरणागमादिषु लसत्-काव्येष्वधीती भृशम् / सूर्यन्तं क्रमशः पदं पुनरल-कुर्वन्नपूर्वामृतं, ... पाणौ नाम्नि वचस्सु धारयति यो, लब्धप्रतिष्ठो भुवि // 5 // तेनेह तेने वरवाचक्रश्री-मेघाभिधानस्य कवीन्द्रकीर्तेः / साहित्यसौहित्यसुधाकरस्य, मेघादिपादैः कृतकाव्यपूर्तेः // 6 // श्रीनैषधीयादिमसर्गपूौ, श्रीशान्तिनाथाभिधसच्चरित्रे / टीका नितान्तं विदुषां विनोदं, वितन्वती नन्दतु नव्यनन्दा // 7 // टीकेयं वैक्रमीयेऽब्दे, नन्देन्दुखाक्षिसङ्ख्यके / आश्विने मासि पूर्णाऽभू-दोलतनगरे वरे // 8 //