________________ -आचार्यविजयामृतसूरीश्वरवायां विद्वदिनोदिन्यां प्रशस्तिः [ 333 शीलनामा-झीलविजयाभिधानः / अभूत् इति शेषः / (तदीयः-तत्सम्बन्धी) सिद्धिसंसिद्धिवीरःसिद्धेः कार्यनिष्पत्तेः, अणिमाद्यायाः, तन्नामिकाया देव्या वा संसिद्धिः-सम्यक् प्राप्तिः, साधना वा सिद्धिसंसिद्धिस्तत्र वीर:-शूरस्तथा / कमलविनयधीर:-अत्यन्तधैय्यशालिकमलविजयाभिधान इत्यर्थः / तदनुज:-तत्पश्चादीक्षितः / धर्मलघुभ्रातेत्यर्थः / वाचकश्रीशरीर:-उपाध्यायपदविभूषितः / चारित्रशब्दात विजयाभिधानः-चारित्रशब्दोत्तरविजयपदविशिष्टाभिधानः, चारित्रविजयनामेत्यर्थः / इह-अस्मिन् समुदाये, लोके वा / रेजे-शुशुभे / धृतशीलधर्मा-अङ्गीकृतसच्चारित्राचारा / त्रयीत्रितयी, शीलविजय-कमलविजय-चारित्रविजयात्मिकेतियावत् / सगर्भा-सोदरा, आसीदिति शेषः / एषाम्-पूर्वकथिताभिधानानाम् / समयाम्बुराशौ-समय आचारः, सिद्धान्तो वा अम्बुनिधिः-समुद्र इवेति समयाम्बुनिधिस्तत्र तथा / “उपमेये व्याघ्राद्यैः साम्यानुत्तौ” 3 / 1 / 102 / / इत्यनेन समासः / पद्यास्वरूपा:-मार्गरूपाः / कृपाद्या:-कृपाविजयाः / विनेया:-शिष्याः / बभूवुरिति शेषः // 3-4 // तत्पादाम्बुजभृङ्गमेघविजयः प्राप्तस्फुरद्वाचक ख्यातिः श्रीविजयप्रभाख्यभगवत्सूरेस्तपागच्छपात् / नुन्नोऽयं निजमेरुपूर्वविजय-प्राज्ञादिशिष्यैरिमां, ___ चक्रे निर्मलनैषधीयवचनैः श्रीशान्तिचक्रिस्तुतिम् // 5 // अन्वयः–तपागच्छपात् , श्रीविजयप्रभाख्यभगवत्सूरेः, पाप्तस्फुरद्वाचकख्यातिः, तत्पादाम्बुज• भृङ्गमेघविजयः, अयम् , निजमेरुपूर्वविजयप्राज्ञादिशिष्यः, नुन्नः, (सन्) इमाम् , श्रीशान्तिनाथचक्रिस्तुतिम् , निर्मलनैषधीयवचनैः, चक्रे // 5 // वृत्तिः-तपागच्छपात्-तपागच्छाधिपतेः / श्रीविजयप्रभाख्यभगवत्सरे:-आचार्यवर्यश्रीविजयप्रभसूरिभगवत्सकाशात् / प्राप्तस्फुरद्वाचकख्याति:-अधिगतविलसदुपाध्यायपदवीप्रसिद्धिः / तत्पादाम्बुजभृङ्गमेघविजयः-कृपाविजयचरणारविन्दमधुकरायमाणमेघविजयनामा / अयम्-मल्लक्षक्षणोऽयं जनः / निजमेरुपूर्व विजयप्राज्ञादिशिष्यैः-स्वीयमेरुविजयप्रमुखविनेयैः / नुन्नः-प्रेरितः / सन्निति शेषः / इमाम्-निनद्धामिमाम् / श्रीशान्तिनाथचक्रिस्तुतिम्-पञ्चमचक्रवर्तिभगवच्छीशान्तिनाथजिनवरस्तवनात्मिकाम् कृतिमित्यर्थः / निर्मलनैषधीयवचनैः-विशुद्धनैषधीयचरितवचनसमस्यापूर्तिप्रकारैः / चक्रे-कृतवान् / / 5 / /