________________ 1 प्रशस्तिः / जयति जगति जाग्रज्ज्ञानयोगाद् युगादौ, जिनवरनवरश्मिारुदेवादिदेवः / तदनु दिनपकान्तिः शान्तिरर्हन स चक्री, जिनपतिरपि पावः शाश्वतश्रीविवस्वान् // 1 // अन्वयः-- युगादो, ज्ञानयोगात् , जगति, जाग्रत् , जिनवरनवरश्मिः, मारुदेवादिदेवः, जयति, तदनु, दिनपकान्तिः, चक्री, सः, शान्तिः, अर्हन् , (जयति) शाश्वतश्री:, विवस्वान् , जिनपतिः, पार्श्व:, अपि, (जयति) // 1 // ____ वृत्तिः—युगादौ-युगस्य युगाना वा आदिः प्रथमावयवो युगादिस्तस्मिंस्तथा / युगप्रारम्भकालावच्छेदेनेत्यर्थः / ज्ञानयोगात-केवलादिबोधसम्पर्कात् / जगति-लोके, जातावेकवचनम्, जगत्स्वित्यर्थः / भुवनत्रयेष्विति यावत् / जाग्रत्-विलसत् , समुद्बुद्ध इति यावत् / जिनवरनवरश्मि:नवा नूतना रश्मयः किरणानि यस्य स नवरश्मिः सूर्यः, जिनवराणां जिनेश्वराणां मध्ये नवरश्मिः सूर्यो जिनवरनवरश्मिः / मारुदेवादिदेवः-मरुदेवाया अयं मारुदेवः स चासावादिदेवः प्रथमदेवो मारुदेवादिदेवः ऋषभस्वामीति यावत् / जयति-सर्वोत्कर्षेण विजयते / तदनु-तदनन्तरम्, तत्पश्चादित्यर्थः / दिनपकान्तिः-दिनं दिवसं पाति रमत्यात्मलाभदानेनेति दिनपः सूर्यास्तस्य कान्तिः प्रभेव कान्तिः प्रभा यस्य स तथा, सूर्य्यसमानतेजस्वीति यावत् / चक्री-पञ्चमचक्रवर्तीत्यर्थः / सः-प्रसिद्धः / शान्तिः शान्तिनाथः / अर्हन्-जिनेश्वरः / (जयति-सर्वोत्कर्षेण वर्ततेतराम्) शाश्वतश्री:-नित्यलक्ष्मीकः / विवस्वान्-सूर्य असमस्तं रूपकमिदमवसेयम् / वस्तुतस्तु-शाश्वतश्रीविवस्वानिति समस्तः पाठः साधीयान् , शाश्वता या श्रीलक्ष्मीः पद्मा वा तस्या विवस्वान् सूर्य: प्रकाशकत्वादित्येवमर्थोऽपि तत्पक्षीयो बोध्यः / जिनपति:-जिनाधिनाथः / पार्श्व:-पार्श्वनाथः / अपि-सम्भावनायाम् / (जयति-सर्वोत्कृष्टतया विजयते) // 1 // तदनु दनुजपूज्यस्तीर्थकृद्वीरनामा, निरुपममहिमान्यः सर्ववित्सार्वभौमः। तदनु गणधरालीपूर्वदिग्भानुमाली, विजयपदमपूर्व हीरपूर्व दधानः / / 2 / /