________________ 330.] श्रीजननंषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वशीकृतानि स्वाधीनीकृतानोति यावदिद्रियाणि मनःप्रधानानि यैस्ते जितेन्द्रिया मुनयस्तेषां चयो वृन्दम्, जितेन्द्रियचयस्तन्तथा, मुनिवर्गमित्यर्थः / सुतम्-पुत्रं शिष्यश्च, शिष्ये पुत्रवदाचारात् / सुषुवे-जनयामास, समुत्पादथामासेति यावत् / शीलविजय-कमलविजय-चारित्रविजयाख्य-भ्रातृत्रयरूपमुनिवर्गस्य समर्थसाधुपुत्रत्वात् , सौभाग्यदेवीकुक्षिरत्नत्वात् श्रीहीरविजयसूरिराजदीक्षितत्वाच्च / तचिन्तामणिमन्त्रचिन्तनफले-तदुक्तश्चिन्तामणिमन्त्रस्तच्चिन्तामणिमन्त्रः, तस्य चिन्तनमनुध्यानन्तत्फलं फलरूपम् तच्चिन्तामणिमन्त्रचिन्तनफलम् तस्मिँस्तथा / शङ्गारभङ्गया-शृङ्गेषु शिखरेषु आरों गतिः प्राप्तता यस्य स शृङ्गारो मेघस्तस्य शिखरेषु बहुवर्षित्वात् , नामसाम्यात् मेघविजयोपाध्यायस्तस्य भङ्गीवचनरचना तया तथा / चारुणि-रमणीये / नैषधीयचरिते-निषधानां तदाख्यजनपदानां राजा नैषधो नलस्तस्येदम् नैषधीयम् , नलसम्बन्धीत्यर्थः। तस्येव चरितमाचारः समस्यारूपो यत्र तन्नैषधीयचरितम्, श्रीनैषधीयचरिताद्यसर्गसमस्यापूर्तिरूपं श्रीशान्तिनाथचरित्रमिति यावत् , तस्मिस्तथा / महाकाव्य-लोकोत्तरनिपुणताशालिकविकर्म काव्यम् , तच्च “तददोषौ शब्दार्थों सगुणावनलडकृती पुनः क्वापि” इति मम्मटाचार्यमते ताशविलक्षणशब्दार्थशरीरम् “वाक्यं रसात्मकं काव्यम्" इति विश्वनाथलक्षितं रसात्मकवाक्यरूपम् “रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इति पण्डितराजजगन्नाथलक्षित-रमणीयार्थप्रतिपादकशब्दरूपम् वा महद्विशालं प्रधानश्च तत्काव्यम् महाकाव्यम् , तस्मिंस्तथा / यमादिः-यमा-अहिंसादीनि पश्च महाव्रतानि, सैव संख्या आदिर्यस्य स यमादिः षष्ठ इत्यर्थः / सर्गः-अध्यायः / गत:-पूर्णः चरमवर्णध्वंसरूपां समाप्तिमगादिति यावत् // 6-64 // इति-वाचकप्रवरश्रीमेघविजयजिद्गणिराजविरचिते श्रीनैषधीयमहाकाव्यप्रथमसर्गपादपूर्तिस्वरूपे श्रीशान्तिनाथचरित्रे शासनसम्राट्-सूरिचक्रचक्रवर्ति-तपागच्छाधिपति-भट्टारकाचार्य-महाराजाधिराजश्रीविजयनेमिसूरीश्वर-महाराजपट्टालङ्कारशास्त्रविशारदकविरत्न - पीयूषपाणि-पूज्यपादाचार्यमहाराज श्रीविजयामृतसूरीश्वर-विरचित-विद्वद्विनोदिनीनामवृत्तिविभूषिते // षष्ठः सर्गः समाप्तः //