________________ न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली रोपितानामाकाराणां भेदग्रहणाय पर्याप्नुवन्ति, तस्योभयग्रहणाधीनत्वात् / तदग्रहणाच्च विकल्पारोपितानामाकाराणामेकत्वमारोप्य विकल्पानामेको विषय इत्युच्यते। तदेव च सामान्यं बहिरारोपितेभ्यो विकल्पाकारेभ्योऽत्यन्तभेदाभावेना'भावरूपं स्वलक्षणज्ञानतदाकारारोपितैश्चतुर्भिः सहाभिः समस्या पञ्चमाकार इत्युच्यमानमारोपितबाह्यत्वशब्दाभिधेयं शब्दसंसर्गविषयः / तदध्यवसाय एव स्वलक्षणाध्यवसायः, तदात्मतया तस्य समारोपात् / अन्यव्यावृत्तिस्वभावं भावाभावसाधारणं चेदम्, गौरस्ति नास्तीति प्रयोगात् / भावात्मकत्वे ह्यस्य गौरस्तीति प्रयोगासम्भवः, पुनरुक्तत्वात् / नास्तीति च न प्रयुज्यते, विरोधात् / एवं तस्याभावात्मकत्वे नास्तीति पुनरुक्तम्, अस्तीति विरुध्यते / यथोक्तम् 'घटोऽस्तीति न वक्तव्यं सन्नेव हि यतो घटः / . नास्तीत्यपि न वक्तव्यं विरोधात सदसत्त्वयोः / / इति / एतस्मादेव च भिन्नानामपि व्यक्तीनामेकतावभासः / इदं हि सर्वेषामेव विकल्पानां विषयोऽस्य 'चकत्वाद्विकल्पानामप्येकत्वम् / तेषामप्येकत्वाच्च तत्कारणानां 'प्रतिपिण्डभाविना निर्विकल्पकानामप्येकत्वम् / तेषामेकत्वाच्च तत्कारणानां व्यक्तीनामेकत्वावगमः / यथोक्तम् ___आरोप्य विकल्पयतीति (कं. 318) का(?) निर्देशः कथमिति पर एव पृष्टव्याः / न हि क्षणिकस्य क्रमभाविव्यापारा त्वय (त्त्वयं) संभवः / 'विकल्पैकाधीनस्वभावादिति (कं. 318) एकमेव विकल्प्यं प्रत्यसाधारणत्वादित्यर्थः / अपारमाथिकस्वजन्मविनाशयोरसंभवाज्जायमानया इवेत्यक्तं अत्यंतभेदाभावेनेति (कं. 319) तद्धर्मितयाऽऽरोपितस्य तेभ्योऽत्यन्तमभेदेनेत्यर्थः / अर्थरूपं वाच्यरूपमेतच्च सामान्यमित्यस्य विशेषणं कथमस्य वाच्यमित्यत आह-स्वलक्षणज्ञानतदाकारारोपितैरिति (कं. 319) स्वलक्षणं ज्ञानं चानुभवविकल्परूपम्, उभयमप्याकारविकल्पस्यारोपितत्वं तस्यैव बाह्यत्वमति / 'चतुर्भिः सहाभिसमस्य एकीकृत्यार्धपंचमाकार इति (कं. 319) अर्ध-एकत्वरूपं सामान्यं पंचम आकारो यस्मिन्नध्यवसीयमाने तच्छब्दाभिधेयमित्यन्वयः / आरोपितबाह्यत्वं शब्देति (कं 319) तु वचनं शब्दस्याप्येवंभूतसामान्यद्वारा वाचकत्वमिति दर्शयितुम् / 1 नाभाव-कं. 1, कं. 2 / 2 बाह्यत्वं-कं. 1, कं. 2 / 3 घटो नास्तीति-कं. 1, कं. 2 / 4 स्यैकत्वाद-कं. 1, कं 2, जे. 2 / 5 तेषामेकत्वात-कं 1, कं. 2 / 6 'प्रतिपिण्डभावानाम्' इति जे. 1 पुस्तके नास्ति / 7 विकल्पाकार एकाधीनस्वाभावादिति कं। 8 समस्यार्धपं.-कं /