________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अपि चेन्द्रियसन्निकर्षादुपलभ्यमाने भूतलेऽभावज्ञानमपि भवति 'अघटं भूतलम्' इति, तत्र भूतलस्येवाभावस्यापि प्रत्यक्षता कि नेष्यते ? भावांशेनैवेन्द्रियस्य सम्बधः, योग्यत्वादिति चेत् ? नेदमनुपपादितं सिध्यति / कार्यगम्या हि योग्यता, यथेन्द्रियान्वयव्यतिरेकानुविधायि कार्य भावे दृश्यते, तद्वदभावेऽपीति भाववदभावोऽपि इन्द्रियग्रहणयोग्य एव / कार्यदर्शनादेव चास्येन्द्रियसम्बन्धोऽपि कश्चित् कल्पयिष्यते / ___अथ मतम्-निरधिकरणो न कस्यचिदभावः प्रतीयते, देशादिनियमेन प्रवृत्तिनिवृत्तिदर्शनात् / यदधिकरणश्चायं प्रतीयते तस्य प्रतीताविन्द्रियव्यापारो नामावग्रहणे, इन्द्रियव्यापारोपरमेऽप्यभावप्रतीतिदर्शनात् / तथाहि-कश्चित् स्वरूपेण देवकुलादिकं प्रतीत्य स्थानान्तरं गतो बेवकुले देवदत्तोऽस्ति नास्तीति केनचित् पृष्टः तवानीमेव शातजिज्ञासो 'नास्तीति प्रत्येति प्रतीत्य च व्याहरति नास्तीति / न च पूर्वमेव' [टि०] 'ज्ञानं ज्ञेयस्य कार्यमिति ज्ञेयकायंत्वं प्रत्यक्षज्ञानापेक्षयोक्तं, शब्दज्ञानस्य भूतभविष्यविषयस्यापि सम्भवात्, तयोश्वाविद्यमानयोनियमप्राककालभावाभावेन साक्षाज्जनकत्वा भावात् / [पं०] योग्यानुपलभ्मस्येत्यध्याहारः। ततश्चायमर्थ.। यदि योग्यानपलम्मोऽविनाभावग्रहणमन्तरेण प्रवर्तते तदा अविशेषेण घटाभावमिव पटाभावमपि ज्ञापयेत् अत एवाह 'दुनिवारः प्रसङ्ग इति (कं. 2264) / नेदमिति (कं. 226.7) इदं योग्यत्वम् / कार्यमिति (कं. 226.8) ज्ञानम् / अस्येति (क. 226.9) "अभावस्य / इन्द्रियसम्बन्धोऽपि कश्चिदिति (कं. 226.9) सम्बन्धविशेषणीभावाख्यः। इन्द्रियेण हि सम्बधं घटादि तस्य विशेषणम् अभावः, यथा 'अघटं भूतम्' एष सम्बन्धविशेषणीभावसम्बन्धः। निरधिकरण इति (कं. 226.10) भूतलाद्याश्रयनिरपेक्षः। कस्यचिदिति (कं. 226.1.) घटादेः / प्रवृत्तिनिवृत्तिदर्शनादिति (क. 226.11) यत्र हि घटाभावः प्रतीयते तत्र देशेऽस्खलितचक्रामणादिका प्रवृत्तिः [कु०] अभावागमनिमित्तमिति (कं. 225) अभावज्ञाननिमित्तमित्यर्थः / अस्त्वेवं ततः किमित्यत आह न चेति (कं. २२५)निरतिशयत्वादिति (कं. 225) ज्ञानोत्पत्तोपयिका(?)तिशयाभावादित्यर्थः / तहि कोऽतिशय इत्यत माह कित्विति (कं. 225) - अव्यभिचारग्रहणमेवातिशय इत्यर्थः / उपसंहरति एवं सतीति (कं. 226) - मनुकूलतमाह तदनपेक्षत्व इति (कं. 226) सर्वस्येति (?) अयोग्यानुपलम्भस्येत्यर्थः / भाष्ये विद्यादनुमानमेवेत्युपलक्षणम् / इन्द्रियव्यापारानुविधानात्प्रत्यक्षमप्यभावज्ञानमस्तीत्याह अपि चेति (कं. 226) / परस्य सिद्धान्तथशाजाघमाशंकते भावांशेनवेति (कं. 226) / 1 नास्य ग्रहणे-जे. 2 / 2 न्तरगतो-कं. 1, कं. 2 / 3 नास्तीति प्रतीत्याभावं व्यवहरति -कं. 1, कं. 2 / 4 प्रतीकमिदं मु. पुस्तके नास्ति किन्तु तत्रैव (6) पादटिप्पणे-जे. 1; जे. 2, जे. 3, इत्यत्रास्ति / 5 भावत्पात् - क। 6 दुनिवारण-कं. 1 / 7 भावस्य - ब /