________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् ___ न्यायकन्दली कल्पे सान्तरयोरन्तराभावे संयोगादन्यः को हेतुरिति वाच्यम् / योव भवतामसंयुक्तयोः संयोगे कारणं तदेव नः सान्तरयोरन्तराभावे कारणमिति चेत् ? अस्तु काम किन्त्विदं स्वाश्रयं देशान्तरं 'प्रापयत् तदन्तराभावं करोति ? अप्रापयद्वा ? अप्राप्तिपक्षे 'तावदन्तराभावो दुर्लभो पूर्वावष्टब्धे एव देशेऽ'वस्थानात् / देशान्तरप्राप्तिपक्षे तु तस्याः को नामान्यः संयोगो यः प्रतिषिध्यते ? अविरलदेशे 'द्रव्ययोरुत्पादे संयोगव्यवहार इति चेत् ? न उत्पादमात्रे संयोगव्यवहारः, किन्त्वविरलदेशोत्पादे, यवेयमुत्पाद्यमानयोरविरलदेशता स एव संयोगः / स च द्रव्यगुणकर्महेतुः। तन्तुसंयोगो द्रव्यस्य पटस्य हेतुः, आत्ममनःसंयोगो बुरयादीनां गुणानां हेतुः / एवं भेर्याकाशसंयोगः शब्दस्य गणस्य हेतुः, प्रयत्नवदात्महस्तसंयोगो हस्तकर्मणो हेतुः, तथा वेगवद्वायुसंयोगस्तृणकर्मणो हेतुरित्यादिकमूह्यम् / [टिक धर्माद्यपेक्षत्वम् इति :-नन्वदष्टस्य सर्वोत्पत्तिमग्निमित्तत्वाद् धर्माद्यपेक्षस्वं 'निरपेक्षस्य “पटादिद्रव्यारम्भकः संयोगस्याप्यस्तीति कथमत्र सापेक्षत्वम् ? कथं वा पटसंयोगेऽपि निरपेक्षत्वम् ? सत्यम्, पटादौ हि तन्तुसंयोगपर्यन्तसामग्री कारणत्वेनावृष्टमपेक्षणीयं, न पुनस्तन्तुसंयोगे उत्पन्ने सति पूनरन्यपटोत्पत्ति प्रत्यपेक्षणीयम् , अन्त्यतन्तुसंयोगेऽवश्यं [पं०] स्वाभयमिति (कं. 142.9) तन्तुलक्षणम् / "स्वनिमित्तकारणमिति (कं. 142.9) तुरिवेमादिकम् / व्योमशिवव्याख्यां दूषयति न त्वयमनपेक्षार्थः पश्चाद्धाविनिमित्तान्तरं नापेक्षत इति (कं. 142.9) / यतः पश्चाद्भावि निमित्तान्तरनिरपेक्षवं पाकजगणारम्भेऽपि संयोगस्य वर्तते ततस्तेषामप्यारम्भः व्योमशिवव्याख्या सिद्धयति [इति] भावः / अमुमेवार्थ हेतुना स्पष्टयन्नाह श्यामादोत्यादि (कं. 142.10) अत्र गद्ये पाकजानां गुणानामप्यारम्भे [कु०] इत्यादिकमिति (कं. 142.7) अग्निसंयोगः पाकजादीनां, प्रचय: परिमाणस्येत्यादिग्रहणेन गृह्यते / इदं च यदि संयोगो न स्याद् द्रव्यादयो नोत्पद्यरन्नित्यनकलतर्कप्रदर्शनम् / नन् यदि संयोगो द्रव्यारम्भे निरपेक्षः स विनश्यवस्थानं (ने) तु संयोगोऽपि पटमारभते / अथ चरमभावि निमित्तान्तरमपेक्ष [ते] तहि श्यामादिनिवृत्त्युत्तरभावी वह्निसंयोगो रक्तादिगुणोत्पत्तो निरपेक्ष: स्यादत आह द्रव्यारम्भ इति (कं. 142.8) / अस्यायमर्थ इति (कं. 142.15) व्याख्यानेन सूत्रकारानुमतिमात्रं प्रदर्श्यते / 1 प्रापयदम्तराभावं-जे.१। 2 त्वन्तराभावो-जे. 1, जे. 2 / 3 व्यवस्थानात -जे.२ / 4 द्रव्यस्योकं. 1, कं. 2 / 5 गुणानाम् / एवं - कं. 1, कं. 2 / 6 गुणस्यप्रयत्न - जे. 1; शब्दगुणस्य - जे. 3 / 7 निरपेक्ष्यस्य - अ%; 8 घटादि - ड; 9 घटपटसंयोगे निरपे...य पटसंयोगे निरपे...ब; 10 कारणधों - अ, ब, 11 स्वनिमित्तं च-कं /