________________ 34 देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ माथाः बादरगुणस्थाने निजनिजबन्धव्यवच्छेदसमये प्रतिपादितप्रमाणैव स्थितिर्बध्यत इति / यासां द्वाविंशतेः प्रकृतीनां स्वबन्धव्यवच्छेदसमये जघन्या स्थितिरन्तर्मुहूर्तादिका सम्भवति तासां तथैव सा प्रतिपादिता / आहारकद्विक-तीर्थकरलक्षणप्रकृतित्रयस्य तदुत्कृष्टस्थितिप्रतिपादनप्रस्ताव एव जघन्याऽप्यसावभिहिता / आयुश्चतुष्टयस्य स्वामित्वप्रस्तावे वैक्रियषट्कस्य च जघन्यस्थितिर्वक्ष्यते / शेषपञ्चाशीतेः प्रकृतीनां बादरपर्याप्तैकेन्द्रियेष्वेव प्राप्यमाणजघन्यस्थितिबन्धानां जघन्यस्थितिनिरूपणार्थ करणमाह-"सेसाणुक्कोसाओ" इत्यादि गाथार्धम् / 'शेषाणां' भणितवक्ष्यमाणपञ्चत्रिंशत्प्रकृतिभ्योऽवशिष्टानां निद्रापञ्चकादीनां पञ्चाशीतिप्रकृतीनाम् 'उत्कृष्टात् ' सर्वप्रकृतीनां निजनिजोत्कृष्टस्थितिबन्धाद् 'मिथ्यात्वस्थित्या' सप्ततिकोटीकोटीरूपया भागे हृते 'यद् लब्धं' यद् अवाप्तं सा जघन्यस्थितिः / एवं च सति निद्रापञ्चकेऽसाते च [सागरोपमस्य] त्रयः सप्तभागाः / मिथ्यात्वस्य सागरोपमम् / संज्वलनवर्जद्वादशकषायाणां चत्वारः सप्तभागाः / स्त्रीवेद-मनुष्यद्विकयोस्त्रयश्चतुर्दशभागाः 3, यतः पञ्चदशानां पञ्चमे भागे त्रयः, सप्ततेश्च / पञ्चमे भागे चतुर्दश लभ्यन्ते / सूक्ष्मत्रिके विकलेन्द्रियजातित्रिके च नव पञ्चत्रिंशद्भागाः 33, यत एतेषामष्टादशकोटीकोट्य उत्कृष्टा स्थितिरुक्ता तस्याः सप्तत्या भागे हृते लब्धा अष्टादश सप्ततिभागाः, अनयोश्च भाज्य-भागहारकराश्योरुभयोरप्यर्धीकरणे सम्पन्नाः 3 / एवमन्यत्रापि निजं निजमुत्कृष्टस्थितिकं भाज्यराशिं मिथ्यात्वस्थितिरूपं भागहारकराशिं चा/कृत्य जघन्या स्थितिर्वाच्या। तथा स्थिर-शुभ-सुभग-सुस्वरा-ऽऽदेय-हास्य-रति-शुभविहायोगति-वज्रर्षभनाराचसंहनन-समचतुरस्रसंस्थान-सुरभिगन्ध-शुक्लवर्ण-मधुररस-मृदु-लघु-स्निग्ध-उष्णस्पर्शलक्षणस्य प्रकृतिसप्तदशकस्यैकः सप्तभागः / शेषस्य च शुभा-ऽशुभवर्णादिचतुष्कस्य द्वौ सप्तभागौ 3, केवलं वर्णादिचतुष्कं बन्धेऽविशेषितमेवाधिक्रियते इति प्रागेवोक्तम् , ततः सप्तभागद्वयमेव चतुर्णामपि सामान्येन द्रष्टव्यम् / द्वितीययोः संस्थान-संहननयोः षट् पञ्चत्रिंशद्भागाः 6 / तृतीययोः संस्थान-संहननयोः सप्त पञ्चत्रिंशद्भागाः / चतुर्थयोः संस्थान-संहननयोरष्टौ पञ्चत्रिंशद्भागाः। पञ्चमयोः संस्थान-संहननयोर्नव पञ्चत्रिंशद्भागाः / शेषाणां त्रस-बादर-पर्याप्त-प्रत्येका-गुरुलघुउपधात-पराघात-उच्छासा-ऽस्थिरा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया-ऽयश कीर्ति-औदारिकशरीरऔदारिकाङ्गोपाङ्ग-तिर्यग्गति-तिर्यगानुपूर्वी-एकेन्द्रियजाति-पञ्चेन्द्रियजाति-निर्माणा-ऽऽतप-उद्योताप्रशस्तविहायोगति-स्थावर-हुण्डसंस्थान-सेवार्तसंहनन-तैजस-कार्मण-नीचैर्गोत्रा-डरति-शोक-भयजुगुप्सा-नपुंसकवेदलक्षणानां पञ्चत्रिंशत्प्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ 3 / इयं चासां जघन्या स्थितिरेकेन्द्रियानेवोद्दिश्य प्राप्यते, न शेषजीवानिति / तथा जघन्यस्थितिप्रस्तावादेकेन्द्रियाणामुत्कृष्टोऽपि स्थितिबन्धो वाच्यः, यथाऽयमेव जघन्यस्थितिबन्धः पल्योपमासङ्ख्येयभागमात्राभ्यधिक उत्कृष्टो भवतीति / तथा चोक्तम् जा एगिदि जहन्ना, पलियासंखंससंजुया सा उ। तेसिं जिट्ट ति ( पञ्चसं० गा० 261) / इति पञ्चसङ्ग्रहाभिप्रायेण व्याख्यातम् / अथ चेदमेव गाथा) कर्मप्रकृत्यभिप्रायेणान्यथा व्याख्यायते-"सेसाणं" इत्यादि / 'शेषाणाम्' अवशिष्टानां पञ्चाशीतेः प्रकृतीनामित्यर्थः / 1 या एकेन्द्रियाणां जघन्या पल्यासंख्यांशसंयुता सा तु / तेषां ज्येष्ठेति / /