SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 35 16j शतकनामा पञ्चमः कर्मग्रन्थः। "उक्कोसाउ" ति "सूचनात् सूत्रम्" इति न्यायाद् ‘उत्कृष्टाद्' इति सामान्योक्तावपि वर्गोत्कृष्टात् स्थितिबन्धादिति दृश्यम् / अथ कोऽयं वर्गोत्कृष्टः स्थितिबन्धः ? उच्यते-सजातीयप्रकृतीनां समुदायो वर्गः / यथा--मतिज्ञानावरणादिप्रकृतिसमुदायो ज्ञानावरणवर्गः, चक्षुर्दर्शनावरणादिप्रकृतिसमुदायो दर्शनावरणवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः, कषायमोहनीयप्रकृतिसमुदायः कषायमोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्ग इति। एवंविधस्य वर्गस्य सम्बन्धी उत्कृष्टो वर्गोत्कृष्टः स्थितिबन्धोऽभिधीयते, तस्माद् वर्गोत्कृष्टात् स्थितिबन्धाद् मिथ्यात्वस्थित्या सागरोपमकोटीकोटीसप्ततिरूपया भागे हृते 'यद् लब्धं' यद् अवाप्तं तत् पल्योपमासङ्ख्येयभागोनं सद् जघन्यस्थितितया भवतीति गम्यते / अत्र च वर्गोत्कृष्टादिति व्याख्यानेनैतदवसीयते—वर्गान्तर्गतानामवमस्थितिकानामपि सातवेदनीयादीनां प्रकृतीनां जघन्यस्थित्यानयनाय निजनिजवर्गस्यैवोत्कृष्टा त्रिंशत्कोटीकोट्यादिस्थितिर्विभजनीया, न तु स्वकीया पञ्चदशकोटीकोट्यादिकेति / तथा यद्यपि पल्योपमासङ्ख्येयभागोनमिति नोक्तं तथापि “पलियासंखंसहीण लहुबंधो" (गा०३७) इति अनन्तरगाथावयवेनैकेन्द्रियाणां लब्धसप्तभागाः पल्योपमासङ्ख्येयभागोना एव जघन्यस्थितितयाऽभिधास्यन्ते; अतोऽत्रापि जघन्यस्थितिप्रस्तावात् पल्योपमासङ्ख्येयभागोनत्वमवसीयते। यदवादि दुर्वादिकुम्भिकुम्भस्थलदलनकेसरिवरिष्ठैः शिवशर्मसूरिपादैः कर्मप्रकृती वग्गुक्कोसठिईणं, मिच्छत्तुक्कोसगेण जं लद्धं / सेसाणं तु जहन्ना, पल्लासंखिज्जभागूणा // (गा० 79) अस्या अक्षरगमनिका—इह ज्ञानावरणप्रकृतिसमुदायो ज्ञानावरणीयवर्गः, एवं दर्शनावरणवर्गः, वेदनीयवर्गः, दर्शनमोहनीयवर्गः, कषायमोहनीयवर्गः, नोकषायमोहनीयवर्गः, नामवर्गः, गोत्रवर्गः, अन्तरायवर्गः / एतेषां वर्गाणां या आत्मीया आत्मीया स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यादिलक्षणा तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सागरोपमसप्ततिकोटीकोटीरूपया भागे हृते सति यद् लभ्यते तत् पल्योपमासङ्ख्येयभागोनं सद् उक्तशेषाणां [ पश्चाशीतेः ] प्रकृतीनां जघन्यस्थितेः परिमाणमवसेयम् / तथाहि-दर्शनावरण-वेदनीयवर्गयोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति “शून्यं शून्येन पातयेद्” इति वचनाद् लब्धास्त्रयः सागरोपमसप्तभागाः, ते पल्योपमासयेयभागोना निद्रापञ्चका-ऽसातवेदनीययोर्जघन्यस्थितितया मन्तव्याः / दर्शनमोहनीयवर्गस्य चोत्कृष्टा स्थितिः सागरोपमकोटाकोटीसप्ततिरूपा, तस्या मिथ्यात्वस्थित्या तावत्यैव भागे हृते लब्धाः सप्त सागरोपमसप्तभागाः 7, ते च पल्योपमासङ्ख्येयभागोना मिथ्यात्वस्य जघन्यस्थितितयाऽवसेयाः / कषायमोहनीयवर्गस्य चोत्कृष्टा स्थितिश्चत्वारिंशत्सागरोपमकोटीकोट्यः, तस्या मिथ्यात्वस्थित्या भागे हृते लब्धाश्चत्वारः सागरोपमसप्तभागाः 4, ते च पल्योपमासङ्ख्येयभागोनाः संज्वलनरहितकषायद्वादशकस्य जघन्यस्थितितया बोद्धव्याः / नोकषायमोहनीयस्य तु वर्गो१सं०२ छा० °वर्गः, चारित्रमोहनीयसमुदायश्चारित्रमोहनीयवर्गः, कषा //
SR No.004335
Book TitlePancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherJain Atmanand Sabha
Publication Year1997
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy