________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः त्कृष्टा स्थितिविंशतिसागरोपमकोटीकोट्यः, तस्याश्च मिथ्यात्वस्थित्या भागे हृते लब्धौ द्वौ सागरोपमसप्तभागौ , तौ च पल्योपमासङ्ख्येयभागोनौ पुरुषवेदवर्जानामष्टानां नोकषायाणां जघन्यस्थितितयाऽवसेयौ / नाम-गोत्रयोश्च प्रत्येकं विंशतिसागरोपमकोटीकोट्यो वर्गोत्कृष्टा स्थितिः, तस्याश्च मिथ्यात्वस्थित्या भागे हृते लब्धौ द्वौ सागरोपमसप्तभागौ 3, तौ च पल्योपमासङ्ख्येयभागोनौ देवगति-देवानुपूर्वी-नरकगति-नरकानुपूर्वी-वैक्रियशरीर-वैक्रियाङ्गोपाङ्गा-ऽऽहारकशरीराऽऽहारकाङ्गोपाङ्ग-तीर्थकर-यशःकीर्तिवर्जानां नाम्नः शेषसप्तपञ्चाशत्प्रकृतीनां नीचैर्गोत्रस्य च जघन्यस्थितितया बोद्धव्याविति // // 36 // उक्ता सर्वप्रकृतीनां जघन्या स्थितिः / इदानीमेकेन्द्रियाणां सर्वस्वप्रायोग्योत्तरप्रकृतीरुद्दिश्योत्कृष्टां जघन्यां च स्थितिमाह अयमुक्कोसो गिदिसु, पलियासंखंसहीण लहुबंधो। . कमसो पणवीसाए, पन्ना-सय-सहससंगुणिओ // 37 // 'अयम्' इत्यनन्तरोद्दिष्टो वर्गोत्कृष्टस्थितिबन्धाद् मिथ्यात्वस्थित्या भागे हृते लब्धसप्तभागरूप उत्कृष्टस्थितिबन्ध एकेन्द्रियेषु ज्ञातव्यः / तथाहि-ज्ञानावरणपञ्चक-दर्शनावरणनवकवेदनीयद्विका-ऽन्तरायपञ्चकलक्षणानामेकविंशतिप्रकृतीनां त्रयः सागरोपमसप्तभागाः है, यत एतद्वर्गाणां त्रिंशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या भागे हृते त्रय एव सागरोपमसप्तभागा लभ्यन्ते इति / एवमन्यत्रापि भागभावना कार्या / ततश्च मिथ्यात्वस्य सप्त सागरोपमसप्तभागाः, कषायषोडशकस्य चत्वारः सागरोपमसप्तभागाः, नोकषायनवकस्य द्वौ सागरोपमसप्तभागौ 3, एकेन्द्रियबन्धयोग्यदेवगति-देवानुपूर्वी-नरकगति-नरकानुपूर्वी-वैक्रियशरीरवैक्रियाङ्गोपाङ्गा-ऽऽहारकद्विक-तीर्थकरवर्जानां शेषाणां नाम्नोऽष्टपञ्चाशत्प्रकृतीनां गोत्रद्वयस्य च प्रत्येकं द्वौ द्वौ सागरोपमसप्तभागाविति / उक्त एकेन्द्रियाणामुत्कृष्टस्थितिबन्धः / इदानीं तेषामेव जघन्यस्थितिबन्धमाह___ “पल्लासंखंस" इत्यादि / पल्यस्य-पल्योपमस्यासङ्ख्यांशेन-असहयेयभागेन हीनः-न्यूनः पल्यासङ्ख्यांशहीनोऽयमेवोत्कृष्टस्थितिबन्धः सप्तभागत्रयादिकः, किम् ? इत्याह—'लघुबन्धः' जघन्यस्थितिबन्धो भवतीति / अयमभिप्रायः—यासां प्रकृतीनां यावत्प्रमाणः सप्तभागरूप एकेन्द्रियाणामुत्कृष्टः स्थितिबन्ध उक्तस्तासां तावत्प्रमाणः सप्तभागरूप एव पल्योपमासङ्ख्येयभागहीनस्तेषां जघन्यस्थितितया मन्तव्य इति / निरूपित एफेन्द्रियाणामुत्कृष्टो जघन्यश्च स्थितिबन्धो गाथापूर्वार्धेन / सम्प्रत्ययमेव एकेन्द्रियोत्कृष्टस्थितिबन्धो यैर्गुणकारैः 'साणितः' ताडितो द्वीन्द्रियादीनामसंज्ञिपर्यन्तानां प्रायोग्यस्थितितया भवति तान् गुणकारानुत्तरार्धेनाह"कमसो पणवीसाए" इत्यादि / 'क्रमशः' क्रमेण यथासङ्ख्यमित्यर्थः पञ्चविंशत्या सङ्गुणितः, प्राकृतत्वाद् विभक्तिलोपे पञ्चाशता सङ्गुणितः, शतेन सङ्गुणितः, सहस्रेण सङ्गुणितः // 37 // ततः किम् ? इत्याह विगलि असन्निसु जिहो, कणिट्टओ पल्लसंखभागूणो। सुरनरयाउ समादससहस्स सेसाउ खुड्डुभवं // 38 // ..