________________ 37-39] शतकनामा पञ्चमः कर्मग्रन्थः / 'विकलेषु' विकलेन्द्रियेषु-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियेषु 'असंज्ञिषु' सम्मूर्च्छजपञ्चेन्द्रियतिर्यङ्-मनुष्येषु 'ज्येष्ठः' उत्कृष्टः स्थितिबन्धो भवति / इयमत्र भावना---एकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः सागरोपमसप्तभागत्रयादिकः पञ्चविंशत्या संगुणितो द्वीन्द्रियाणां ज्येष्ठः संभवत्सर्वप्रकृतीरुद्दिश्य स्थितिबन्धो भवति, स एवैकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पञ्चाशता सङ्गुणितस्त्रीन्द्रियाणां ज्येष्ठः स्थितिबन्धो भवति, स एवैकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः शतेन सङ्गुणितश्चतुरिन्द्रियाणां ज्येष्ठः स्थितिबन्धः, सहस्रेण गुणितोऽसंज्ञिपञ्चेन्द्रियाणां खप्रायोग्यसर्वप्रकृतीरधिकृत्य ज्येष्ठः स्थितिबन्धो भवतीति / द्वीन्द्रियादीनामेव जघन्यस्थितिबन्धमानमाह-"कणिदुओ पल्लसंखभागूणु" ति पल्यस्य-पल्योपमस्य सङ्ख्यभागेन-सङ्ख्याततमभागेन ऊनः न्यूनः उत्कृष्ट एव स्थितिबन्धः 'कनिष्ठकः' जघन्यस्थितिबन्धो भवति / एतदुक्तं भवति-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रिया-ऽसंज्ञिपञ्चेन्द्रियाणामात्मीय आत्मीय उत्कृष्टः स्थितिबन्धः पल्योपमसङ्ख्येयभागहीनः कनिष्ठबन्धो भवति / आयुश्चतुष्टयस्य जघन्यस्थितिमानमाह-'सुरनारकायुषोः' देव-नारकायुष्कयोः समाः-वर्षाणि तासां दश सहस्राणि समादशसहस्राणि दशवर्षसहस्राणीत्यर्थः जघन्या स्थितिर्भवतीति प्रक्रमः / “सेसाउ खुड्डभवं" ति 'शेषायुषोः' तिर्यङ्-मनुष्यायुष्कयोः "खुड्डभवं" ति क्षुल्लकः-सर्वभवापेक्षया लघीयान् लिङ्गव्यत्ययाद् भवः-जन्म क्षुल्लकभवः स जघन्या स्थितिर्भवतीति // 38 // प्ररूपिता जघन्यस्थितिः / इदानीं सर्वोत्तरप्रकृतीः प्रतीत्य जघन्याबाधामाह सव्वाण वि लहुबंधे, भिन्नमुहु अबाह आउजितु वि। केइ सुराउसमं जिणमंतमुहू बिंति आहारं // 39 // 'सर्वासामपि' सर्वप्रकृतीनां-विंशत्युत्तरशतसङ्ख्यानामपि 'लघुबन्धे' जघन्यस्थितिबन्धे 'भिन्नमुहूर्तम्' अन्तर्मुहूर्तम् 'अबाधा' अनुदयकालः / किं सर्वप्रकृतीनां जघन्यबन्ध एवेयं जघन्याऽबाधा ? आहोश्चिदस्ति कासाञ्चिदियमुत्कृष्टेऽपि ? इत्याह-"आउजिट्टे वि" आयुषां-ज्येष्ठेऽपि ज्येष्ठबन्धेऽपि, न केवलं जघन्य एवेत्यपिशब्दार्थः, जघन्याऽबाधाऽन्तर्मुहूर्तप्रमाणा भवतीति योगः / एतेनायुषश्चतुर्भङ्गकैरबाधेति सूचितम् , तद्यथा-ज्येष्ठे आयुःस्थितिबन्धे ज्येष्ठाऽबाधा 1 ज्येष्ठे आयुःस्थितिबन्धे जघन्याऽबाधा 2 जघन्ये आयुःस्थितिबन्धे ज्येष्ठाऽबाधा 3 जघन्ये स्थितिबन्धे जघन्याऽबाधा 4 इति / अधुना तीर्थकरा-ऽऽहारकद्विकयोः प्रानिरूपितामपि जघन्यां स्थितिं पुनर्मतान्तरेणाह-"केइ सुराउसमं" इत्यादि / केचिदाचार्याः सुरायुषा-देवायुष्केण दशवर्षसहस्रप्रमाणेन समं-तुल्यं सुरायुःसमं-देवायुस्तुल्यस्थितिकं जघन्यतो बध्यते / किं तद् ? इत्याह-"जिणं" ति तीर्थकरनामकर्म ब्रुवते / तथा च तैरभ्यधायि सुरनारयाउयाणं, दसवाससहस्स लहु सतित्थाणं / ( पञ्चसं० गा० 253 ) "लहु" त्ति जघन्या स्थितिः 'सतीर्थयोः' तीर्थकरनामयुक्तयोरित्यर्थः / तथा “आहारं" ति आहारकद्विकम्-आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणमन्तमुहूर्त जघन्यतो बध्यते, किञ्चिदूनमुहूर्तस्थितिकं जघन्येन बध्यत इति ब्रुवते / तथा च तैरुक्तम् आहारकविग्यावरणाण किंचूणं ( पञ्चसं० गा० 254 )